________________
मार्गणास्वायुष उत्कृष्टस्थिते: ] द्वितीयाधिकारे परिमाणद्वारम्
[ २८५
"
मार्गणास्वित्येतासु द्वादशमार्गणासु प्रत्येकं " णायव्वा संखेज्ज" त्ति सप्तानामनुत्कृष्टस्थितेबन्धकाः संख्येया ज्ञातव्याः । कुतः ? प्रत्येकं बन्धकजीवानां संख्येयत्वादिति । “सेसासु" ति उक्तशेषासु विंशत्युत्तरशतमार्गणासु प्रत्येकम् “असंखिया" ति सप्तानामनुत्कृष्टस्थितेर्वन्धका असंख्येया भवन्तीत्यर्थः । कुतः ? इति चेत्, प्रत्येकं जीवानामसंख्येयत्वात् तैः सर्वैरनुत्कृष्टस्थितिबन्धस्य निर्वर्तनाच्चेति । अत्राऽपि सामान्यतो दर्शिता असंख्येया बन्धकाः प्राग्वद् विशेपतो दर्शयन्नाह - "तत्थे " त्यादि, तत्र 'तत्थ' इत्यस्यान्वय उत्तरत्र "असंखलोगसमा " इत्यनेन, ततश्चानन्तरोक्ता असंख्येया अपि विशेषतोऽसंख्येयलोकाकाशप्रदेशराशितुल्या ज्ञेयाः । कासु मार्गणास्वित्याह - "बायरसमत्तवज्जिअ" इत्यादि, 'बादरसमाप्ताः' - बादरपर्याप्ता ये भेदास्ते वर्जिता येभ्यस्ते बादरसमाप्तवर्जिताः, ते च ते पृथिवीकायादिकवायुकायान्तचतुष्कसत्काः शेषभेदाः, बादरसमाप्तवर्जितपृथिव्यादिकचतुष्कशेषभेदाः । ते चौघ- बादरौघ - बादरापर्याप्त सूक्ष्मघ-सूक्ष्मपर्याप्तसूक्ष्मापर्याप्तभेदभिन्नाः पद् पृथिवीकायभेदास्तथैव पडकायभेदाः, पट् तेजस्कायभेदाः, वायुकायाश्चेत्येवं चतुर्विंशतिः । तेषु तथा प्रत्येकवनस्पतिकायद्यभेदे, तस्य प्रत्येक वनस्पतिकायस्था-पर्याप्तभेदे चेत्येतासु षड्विंशतिमार्गणासु प्रत्येकम् “ असंखलोगसमा" इति योजितमिति । ननु शेषामु निरयगत्योघादिमार्गणाभेदेषु तर्हि कियन्तः ? इति चेत्, असंख्यलोकापेक्षयाऽत्यन्तस्तोकाः, लोकाभ्यन्तरवर्तिप्रतर श्रेण्यादे र संख्यादिभागमात्रगतनभः प्रदेशराशितुल्यत्वात् । ते च विशेो जिज्ञासुना श्रीप्रज्ञापनासूत्रादितोऽवसेया इति ।। ३१४-३१५-३१६।। तदेवमभिहितमायुर्वर्ज सप्तानामुत्कष्टानुत्कृष्टस्थित्यन्धकानामुत्कृष्टपदगतपरिमाणमादेशतः । साम्प्रतमाऽऽयुपस्तद्दिदर्शयिषुरादी तावदुत्कृष्टस्थितेराह
पड
संखेज्जा हुन्ति तिर आहारदुगा-ऽऽणताइदेवेसु । चरणाण संयमेसु समइअ - छेअ- परिहारेसु ॥३१७॥ देसो-हि-तिसुलेसा सम्म खइअ - वेअगेस सासाणे |
आउस्स गुरुठिईए सेसासु असंखिया या ||३१८ ||
(प्रे० ) "संखेजा हुन्ति" इत्यादि, संख्येया भवन्ति, बन्धका इति गम्यते । कस्याः ? इति चेद्, आयुषो 'गुरुस्थिते:'- उत्कृष्टायाः स्थितेरिति द्वितीयगाथोत्तरार्धेऽन्वय इति । कासु मार्ग - णास्वित्वाह-"तिणरआहारदुगे" त्यादि प्राग्वन्मनुष्यौघ- पर्याप्तमनुष्य मानुषीलक्षणेषु त्रिषु मनुष्यगतिभेदेषु, तथा ssहारक - ऽऽहारकमिश्र काययोगयोर्द्विके, आनतकल्पादिसर्वार्थसिद्ध विमानान्तेष्वष्टादशसु देवगतिभेदेषु मत्यादिचतुर्ज्ञान -संयमौघेषु, सामायिक-छेदोपस्थापन- परिहारविशुद्धिकसंयमेषु तथा देशसंयमा- ऽवधिदर्शन - तेजस्यादित्रिशुभलेश्या-सम्यक्त्वौघ - क्षायिक - वेदकसम्यक्त्वेषु सासा - दने चेत्येतासु चत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः । तत्र मनुष्यौघादिबहुमार्गणासु पर्याप्तमनुष्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org