________________
ओघादेशत उत्कृष्टा-ऽनुत्कृष्टस्थित्योः] द्वितीयाधिकारे परिमाणद्वारम्
[ २८३ भेदाः सर्वे च निगोदभेदास्तेषु, वनस्पतिकायौधे च प्रत्येकम् “अणंता" ति आयुर्वर्जानां सप्तानां कर्मणामुत्कृष्टस्थितेर्बन्धका अनन्ता इत्यर्थः । कुतः ? साधारणवनस्पतिकायिकानामपि सप्तानां ज्ञानावरणादीनामुत्कृष्टस्थितिबन्धस्वामित्वादिति । ____ अथ शेषमार्गणासु प्रकृतमाह-"सेसासु" इत्यादि, उक्तशेषासु द्विचत्वारिंशदभ्यधिकशतमार्गणासु प्रत्येकम् “असंखिया णेया" ति सप्तकर्मणामुत्कष्टस्थितेर्बन्धका असंख्येया ज्ञेयाः । कुतः ? इति चेद्, निरयगत्योधादिषु बहुषु मार्गणास्वसंख्येयानां जीवानां सद्भावात्, कतिपयासु च तिर्यग्गत्योपादिमागंणासु साधारणवनस्पतिकायजीवानां प्रवेशेनानन्तजीवानां सद्भावेऽपि तिर्यक्संज्ञिपञ्चेन्द्रियपर्याप्तादीनामसंख्येयजीवराशिकानामेवोत्कृष्टस्थितिबन्धस्वामित्वादिति । अत्र प्रतिमार्गणं सप्तानामुत्कष्टस्थितेर्बन्धकजीवानामसंख्येयत्वेऽपि न ते परस्परं तुल्या एव, किन्तु हीनाऽधिका भवन्ति, तत्र च कतिपयमार्गणास्वतिबहवोऽसंख्यलोकप्रदेशराशितुल्याः, कतिपयमार्गणास ततो हीना हीनतराद्याः सन्ति, न पुनरसंख्यलोकप्रदेशराशितुल्या इति ॥३०९-३१०॥
___ अर्थतास्वेव शेषमार्गणासु यासु पृथिवीकायौघादिमार्गणासु प्रकृतबन्धका असंख्यलोकप्रदेशराशितुल्यास्तासु तद्राशेः पूर्वोक्तभङ्गविचयादिप्रयोजकत्वादुत्तरत्र वक्ष्यमाणस्पर्शनादिप्रयोजकत्वाच्च तत्र विशेषतः प्रतिपादयन्नाह
तत्थ वि असंखलोगा पुहवाइचउण्ह सव्वसुहुमेसु।
वायरअसमत्तेसु य अपजपत्तेअवणकाये ॥३११॥ (प्रे०) "तत्थ वि असंखलोगा" इत्यादि, यासु मार्गणास्वनन्तरम् 'असंखिया णेया' इत्यनेन सामान्यतः सप्तानां ज्येष्ठस्थितेर्बन्धका असंख्येया ज्ञापितास्तत्रापि वक्ष्यमाणमार्गणासु विशेपतस्ते "असंखलोगा" त्ति 'असंख्यलोकाः' -- असंख्येयेषु लोकाकाशप्रमाणेषु क्षेत्रखण्डेषु यावन्त आकाशप्रदेशाः सन्ति तावत्प्रमाणाः, ज्ञेया इति शेषः । कासु मार्गणास्वित्याह-"पुहवाइचउण्ह" इत्यादि, पृथिव्यादीनां चतुर्णा मूलकायभेदानां य ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्ना द्वादश सूक्ष्मभेदास्तेषु सर्वेषु सूक्ष्मपृथिवीकायौघादिभेदेषु, तथा "बायरअसमत्तेसु य" ति तेषामेव पृथिव्यादिवायुकायान्तानां चतुर्णा कायानां ये चत्वारो बादरापर्याप्तपृथिव्यादिलक्षणा उत्तरभेदास्तेषु बादरापर्याप्तपृथिवीकायादिभेदेषु , "अपजे"त्यादि, अपर्याप्तप्रत्येकवनस्पतिकायभेदे चेत्यर्थः । एतासु सप्तदशमार्गणासु प्रत्येकं प्रविष्टजीवराशीनामप्यसंख्यलोकाकाशप्रदेशराशितुल्यत्वात् , तत्रासंख्येयतमैकभागगता भागद्वारेऽभिहिताः प्रकृतबन्धका असंख्यलोकप्रदेशराशितुल्या एव भवन्ति, असंख्यलोकानामप्यसंख्यभेदभिन्नत्वादिति ॥३११॥
अथ सप्तमूलकर्मणामेवानुत्कृष्टस्थितेर्बन्धकपरिमाणं मार्गणास्थानेषु दर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org