________________
॥ अथ नवमं परिमाणद्वारम् ||
अथ क्रमप्राप्ते नवमे द्वारे परिमाणग्ररूपणां चिकीर्षुरादावुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकपरिमा णमोघतः प्ररूपयन्नाह -
उक्साए ठिईए अहं बंधगा असंखेजा । हुन्ति अणुक्कोसाए टिई उण बंधगाणंता ॥ ३०८ ॥
(प्रे० ) " उक्कोसाअ ठिईए अट्टह" इत्यादि, ओघतः समस्तजीवराश्यपेक्षया ज्ञानावरणादीनामष्टानां मूलप्रकृतीनामुत्कृष्टायाः स्थितेर्बन्धका एकस्मिन् समय उत्कृष्टतोऽसंख्येया भवन्ति, प्रतिविशिष्टपर्याप्तसंज्ञिपञ्चेन्द्रियाणामेवाष्टकर्म सत्कोत्कृष्ट स्थितिबन्धस्वामित्वात् । "अणुकोसाए ठिई उप" ति अत्र 'अड्डण्ह' मित्यनुवर्तते, ततो ज्ञानावरणादीनामष्टानामप्यनुत्कृष्टायाः स्थितेः पुनः "बंधगाणंता" त्ति 'बन्धकाः' - एकस्मिन् समय उत्कृष्टतो लभ्यमाना निर्वर्तका अनन्ता भवन्तीत्यर्थः । सुगमम् ||३०८ ||
अथादेशतो विभणिपुरादौ सप्तानामुत्कृष्टस्थितेर्वन्धकपरिमाणं दर्शयन्नाह— सत्तण्ड तिमणुसेसु सव्वत्थाऽऽहारदुग-अवेसु । मणणाण-संयमेसु समइअ-छेअ - परिहार - सुहुमेसु ॥३०९॥ (गीतिः) जेट्टाए संखेजा सव्वेगिंदियणिगोअमेएस |
काय अनंता सेसासु असंखिया या ||३१०॥
(प्रे० ) " सत्तण्ह तिमणुसेसु" मित्यादि, तत्र “सत्तण्ह" इत्यस्य " जेट्ठाए संखेज्जा" इत्यनेनोत्तरगाथायामन्वयस्तव आयुर्वजानां सप्तानां मूलप्रकृतीनां 'ज्येष्ठाया:'- उत्कृष्टायाः स्थिते: संख्येयाः, बन्धका इति गम्यते । कासु मार्गणास्त्रित्याह- “तिमणुसेसु" मित्यादि, व्याख्यानतो विशेषप्रतिपत्तेस्त्रिमनुष्येष्वित्यनेनाऽपर्याप्तभेदवर्जा ओध-पर्याप्त मानुषीभेदभिन्नास्त्रयो भेदा ग्राह्यास्तेषु, तथा सर्वार्थसिद्धादेवगतिमार्गणाभेदे, आहारका ऽऽहारकमिश्र काययोगयोजिके, अपगतवेदे, मनः पर्यवज्ञाने, संयमौधे, सामायिक छेदोपस्थापन- परिहारविशुद्धिक-सूक्ष्मसम्परायसंयममार्गणाभेदेषु चेत्येतासु त्रयोदशमार्गणासु प्रत्येकमित्यर्थः । तत्र मनुष्यौघमार्गणां विना शेषासु प्रत्येकं संख्येयानामेव जीवानां सद्भावेन तदधिकस्याऽसंख्येयस्याऽनन्तस्य वा परिमाणस्याऽसम्भवः । मनुष्यौघमार्गणायामपि पर्याप्तमनुष्याणामेवोत्कृष्टस्थितेर्बन्धकत्वात् तेषां चोत्कृष्टपरिमाणस्याऽपि संख्येयत्वादुक्ताधिकपरिमाणासम्भव इति । अथ यासु प्रकृतबन्धकानां परिमाणमनन्तं ता मार्गणाः संगृह्याह - " सव्वेगिंदिये" त्यादि, सर्वशब्दस्योभयत्र योजनात्सर्व एकेन्द्रियजाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org