________________
मार्गणास्वायुपो जबन्येतरस्थित्योः] - द्वितीयाधिकारे भागद्वारम्
[ २८१ संश्य-संश्य-ऽनाहारिमार्गणाभेदाश्चेति । एताभ्योऽष्टच वारिंशदभ्यधिकशतमार्गणाभ्य एकेन्द्रियादिकतिपयमार्गणा विहाय शेपासु स्थितिबन्धकजीवानामसंख्येयत्वात् , तथैकेन्द्रियादिमार्गणाभेदेषु स्थितिवन्धकजीवानामानन्न्येऽपि तेषां बन्धनायोग सस्थितिबन्धस्थानात्वासंख्येयभागरूपदेकस्थितिवन्धस्थानात्मकस्य जघन्यस्थितिबन्धस्य निर्वतका मार्गणागतशेषजीवानामसंख्यकभागमात्रा एव सम्पयन्ते, न त्वनन्तेकभागप्रमाणा इति ॥३०४॥ अथऽऽयुर्वर्जसप्तानामजघन्यस्थितेवन्धकभागान् प्रावदाह
सब्बासु सेसभागा अजहण्णठिईअ णायबा ॥३०५॥ (प्रे०) “सव्वासु" इत्यादि गतार्थमिति॥३०५ ।
तदेवमभिहिता आयुर्वर्जसप्तानां जघन्याजघन्यरित्योर्वन्धकभागा आदेशतोऽपि । साम्प्रतं शेपस्यायुपस्तान दर्शयन्नाह
पज्जमणुसमणुसीसुआहारदुगाणताइदेवेसु। मणणाण-संयम-समइअ-छेअ-परिहार-सुइल-खइएसु॥३०६॥(गोतिः) आउस्स जहण्णाए संखंसो बंधगा भुणेयब्वा । सेसासु असंखंसो सव्वत्थ अलहुटि ईअ सेसंसा ॥३०७॥ (गीतिः) (प्रे०) "पज्जमणुसे"इत्यादि, अक्षरार्थस्तु प्राग्वत् । भावार्थः पुनरयम्-पर्याप्तमनुष्यायकोनत्रिंशन्मार्गणासु प्रत्येकमायुष उत्कृष्टस्थितेरिव जघन्यस्थितेर्बन्धका अपि संख्येया एव सन्ति, ततश्च जघन्यस्थितिवन्धस्यैकस्थितिबन्धस्थानरूपतया प्रागुक्तनीत्या जघन्यस्थितेन्धका अपि मार्गणागतसर्वायुर्वन्धकानां संख्येयेकभागगता एवं प्राप्यन्ते, शेषमार्गणास्वपि निरयगत्यादिषु बहुपु मार्गणास्वायुर्वन्धकजीवानामसंख्येयत्वात् , तथैकेन्द्रियादिस्तोकमार्गणास्वायुबॅन्धकजीवानामनन्तत्वेऽपि तेषां सर्वेषां जघन्यायुर्वन्धार्हत्वादैकस्थितिबन्धस्मानात्मकजघन्यस्थितेर्वन्धकाः प्रागुक्तनीत्याऽसंख्याततमैकभागगताः प्राप्यन्त इति ॥३०६-३.७॥
समाप्ता सर्वासां मूलप्रकृतीनां जघन्याजघन्यस्थित्योर्वन्धकानामपि भागप्ररूपणा, तत्समाप्ती च गतं "भागा" इत्यनेनोदिष्टमष्टमं भागद्वारम् ।।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारेऽष्टमं नानाजीवाश्रयभागद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org