________________
ओघओऽष्टानां जघन्येतरस्थित्योः] द्वितीयाधिकारे भागद्वारम्
[ २७७ बन्धकजीवानां संख्येयैकभागगताः, नानास्थितिबन्धात्मकानुत्कृष्टस्थितिकायुषो बन्धकास्तु संख्येयबहुभागगता इतिकृत्वा 'होअन्ति संखभागो' इत्युक्तमिति । ___अथोक्तशेषसर्वमार्गणासु प्रस्तुतमाह-"असंखभागो हवन्ति" ति अनन्तरोक्ततिर्यग्गत्यादिपञ्चरष्टिमार्गगा विवयं शेषासु निरयगत्योधायटनवतिमार्गगास प्रत्येकम् “असंखभागो हवन्ति” ति आतुर उत्कृष्टस्थितन्धकास्तत्तन्निरयात्योघादिमार्गणागतसर्वायुर्वन्धकजीवानामसंख्यभागगता भवन्तीत्यर्थः । तत्र शेषमार्गणाऽभिधानानि त्विमानि-अष्टौ निरयगतिभेदाः, चत्वारस्तिर्यपञ्चेन्द्रियभेदाः, मनुष्यौघा-ऽपर्यारमनष्यभेदौ, देवौषभेदः, एकादश भवनपत्यादिसहस्रारान्ता देवभेदाच, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, तथैव सर्वे पृथिवीकाया-ऽष्काय-तेजस्काय-वायुकाय प्रत्येकवनस्पतिकाय-नसकायभेदाः, सर्वे मनोयोगभेदाः, सर्वे वचनयोगभेदाः, वैक्रिय काययोगभेदः, स्त्रीवेद-पुवेद-मत्यादित्रिज्ञान-विभङ्गज्ञान-देशसंयम-चक्षुर्दशना-ऽवधिदर्शन-तेजोलेश्या-पद्मलेश्या-सम्यक्त्वोघ--क्षायोपशमिकसम्यक्त्व-सास्वादन-संज्ञिमार्गणाभेदाश्वेति । एतास प्रत्येकमसंख्येया जीवाः, उत्कृष्टायुश्च तियेग-देवाद्यसंख्येयजीवराशिसत्कं बध्यते, ततश्चोतनीत्योत्कृष्टस्थितिकायुर्वन्धका अप्यसंख्यकभागगताः प्राप्यन्त इति ॥३०॥ अथ प्रागिव सर्वमार्गणास्वायुषोऽनत्कृष्टस्थितेर्बन्धकभागान् दर्शयन्नाह
सवासु सेसभागाऽणुक्कोसठिईअ णायव्वा॥३०१॥ (प्रे०) “सव्वासु” इत्यादि गतार्थम् । नवरं सर्वास्वित्यनेन वैक्रियमिश्रकाययोगादिसप्तमार्गणावर्जास्त्रिषष्ट्युत्तरशतमार्गणा ग्राह्याः । इति ॥३०१॥
तदेवमभिहिता आदेशतोऽपि मृलाटकर्मणामुत्कटानत्कृष्टस्थित्योबन्धकभागाः । साम्प्रतं तेषामेवा जयन्याऽजघन्यस्थित्योन्धकभागान् व्या चिकीर्षुरादौ तावदोघत आह--
सत्तण्ह लहुठिईए अणंतभागो असंखभागोऽस्थि ।
आउस्स सेसभागा अजहण्णठिईअ अट्टण्हं ॥३०२॥ (प्रे०) “सत्तण्ह लहुठिईए” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां 'लघुस्थितेः'जघन्यस्थितेः "अणंतभागो' ति सर्वस्थितिबन्धकजीवानामनन्ततमैकभागः, सन्तीति परेणान्वयः, बन्धका इति गम्यते । कुतः ? सप्तानामौधिकजघन्यस्थिोः क्षपकस्तानित्वात् तेषां चातिस्तोकत्वादिति । अथायुगो जवन्यस्थितेराह-"असंखभागोऽस्थि" ति सर्वायुर्वन्धकानामसंख्यतमैकभागो भवन्ति, 'लहुठिईए' इत्यस्यानुवृत्या लघुस्थितेः, बन्धका इति गम्यते । एवमुत्तरत्राप्यनुवृत्त्या योगो द्रष्टव्यः । कस्य कर्मण इत्याह-"आउस्स" ति आयुःकर्मण इति । कुतः ? जघन्यस्थितिकायुषः साधारणवनस्पतिकायजीवैरपि निर्वर्तनादिति । अथाजघन्यस्थितेर्बन्धकभागानाह-"सेसभागा" इत्यादि, ससानां जवन्यस्थितेवन्धकलक्षणमनन्तैकभागं विहाय शेषा अनन्तबहुभागाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org