________________
२७८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां जघन्यादिस्थिते. सप्तानामजघन्यस्थितेर्बन्धकाः, आयुषो जघन्यस्थितेर्बन्धकलक्षणमसंख्यैक भागं विवर्य शेषा असंख्यबहुभागा आयुषोऽजघन्यस्थितेन्धकाः, सन्तीत्यनुवर्तते । गतार्थमिति ॥३०२॥
उक्ता ओघतोऽष्टानां जघन्याजघन्यस्थित्योर्बन्धकभागाः। अथादेशतो दिदर्शयिपुस्तावदादावायुर्वर्जसप्तमूलप्रकृतीनामाह
सत्तण्ह जहण्णाए अणंतभागोऽस्थि कायुरालेसु।
णपुम-चउकसायेसु अचक्खु-भवियेसु आहारे ॥३०३॥ (प्रे०) “सत्तण्ह जगाए” इत्यादि, आयुर्वर्जानां सप्तानां जघन्यायाः स्थितेन्धकाः "अणंतभागोऽस्थि" त्ति काययोगौघो-दारिककाययोगादितत्तन्मार्गणागतसर्वबन्धकानामनन्तभागः-अनन्ततमैकभागगताः सन्ति । कासु मार्गणास्वित्याह-"कायुरालेसु"मित्यादि, काययोगसामान्यौ-दारिककाययोगयोः, नपुंसकवेद-क्रोधादिचतुःकषायेषु, तथाऽचक्षुर्दर्शन-भव्यमार्गणयोराहारिमार्गणायामित्येतासु दशमार्गणासु प्रत्येकमित्यर्थः । कुतः ? इति चेत्, प्रतिमार्गणं साधारणवनस्पतिकायजीवानां समावेशे सति क्षपकाणां जघन्यस्थितिबन्धस्वामित्वात् ।
इदमुक्तं भवति-साधारणवनस्पतिकायजीवानां समावेशेन प्रतिमार्गगमनन्तं बन्धकपरिमाणम् , क्षपकाणां जघन्यस्थितिबन्धस्वामित्वेन संख्येया एव सप्तानां जघन्यस्थितेर्वन्धकाः, ते च मार्गणागतसर्वबन्धकजीवानामनन्तैकभागमात्रा एवेति ॥३०३॥
अथ सार्धगाथया शेषमार्गणासु प्रकृतमाहपज्जमणुस-मणुसीसुसव्वत्था-ऽऽहारदुग-अवेएसु। मणणाण-संयमेसु समइअ-छेअ-परिहार-सुहुमेसु ॥३०४॥ होअन्ति संखभागो असंखभागो हवन्ति सेसासु।
(प्रे०) “पज्जमणु से"त्यादि, अक्षरार्थस्तु सुगमः । भावार्थः पुनरयम्-एकयाऽऽयं या संगृहीतासु पर्याप्तमनुष्यादिद्वादशमार्गणास प्रत्येकं संख्येयानां जीवानामेव सद्भावेन “होअन्ति संखभागो” इत्यनेन प्रकृताः सप्तान्यतमानां बन्धप्रायोग्यप्रकृती । जघन्यस्थितेर्बन्धकाः संख्येयकभागगता अभिहिताः । “असंखभागो हवन्ति सेसासु"मित्यत्र शेषमार्गणास्तु इमा अष्टचत्वारिंशदभ्यधिकशतम्-सर्वे निरयगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, मनुष्यौघा-उपप्तिमनुष्यभेदो, सर्वार्थसिद्धविमानभेदवर्जा एकोनत्रिंशद्देवगतिमार्गणाभेदाः, सर्वे इन्द्रियमार्गणाभेदास्तथैव सर्वे कायमार्गणाभेदाः, पञ्चमनोयोग-पञ्चवचोयोगौ-दारिमिश्र-वैक्रिय-वैक्रियमिश्रकार्मणकाययोग--स्त्रीवेद-पुवेद-मत्यादित्रिज्ञान-मत्यज्ञानादिव्यज्ञाना--ऽसंयम-देशसंयम--चक्षुर्दर्शनाऽवधिदर्शन-कृष्णादिषल्लेश्या-ऽभव्य-सम्यक्त्वौघ-सायिक-वेदकौ-पशमिक-सासादन-मिश्र-मिथ्यात्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org