________________
उत्कृष्टा-ऽनुत्कृष्टस्थित्योः ] द्वितीयाधिकारे भागद्वारम्
[ २७५ कन्धाच्चेति । अथ शेषमार्गणास प्रकृतमाह-"असंखभागो हवन्ति सेसासु"मिति, अनन्तरोकमार्गणाः परित्यज्य शेपास निरयगत्योपादिपञ्चत्रिंशदुत्तरशतमार्गणास प्रत्येकम् “असंखभागो हवन्ति" त्ति मार्गणागत सर्वबन्धकानामसंख्यभागः-असंख्येयतमैकभागप्रमाणा भवन्ति, सप्तानामुत्कष्टायाः स्थितेर्बन्धका इति प्राग्वद्योज्यमिति ।।
शेषमार्गणा नामत इमाः-सर्वे निरयभेदाः, चत्वारः पञ्चेन्द्रियतियग्भेदाः, मनुप्यौवा-ऽपर्याप्त मनुष्यभेदो, सर्वार्थसिद्धविमान भेदवर्जा एकोनत्रिंशद्देवगतिभेदाः, एकोनविंशतिरीन्द्रियमार्गणाभेदाः, द्विचत्वारिंशदपि पृथिव्यादिकायमार्गणाभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रियवैक्रियमिश्रकाययोग-स्त्रीवेद-पुवेद-मत्यादित्रिज्ञान-विभङगज्ञान-देशसंयम-चक्षदर्शना-ऽवधिदर्शनतेजः-पद्मशुक्ललेश्या-सम्यक्त्वाघ-क्षाथिक-क्षायोपशमिको-पशमिक-मिश्र-सासादन-संज्ञिमार्गणाभेदाश्चेति । अत्र निरयगत्योघादिभेदेषु प्रत्येकं स्थितिबन्धकजीवानामसंख्येयत्वादेकस्थितिवन्धस्थानत्मकोत्कृटस्थितेन्विता अप्पसंख्येयकमागगा एवं प्राप्यन्ते, सप्तस्वेकेन्द्रियमार्गणाभेदेषु, सर्वेषु साधारणवनस्पतिकाय भेदेषु वनस्पतिकायोघमार्गणाभेदे च यद्यपि प्रत्येकमनन्ता जीवाः सन्ति, तथापि तेषु बादरसाधारणवनस्पतिकायाद्यनन्तकायिकजीवानामपि तत्तन्मार्गणासत्कोत्कृष्टस्थितिबन्धस्वामित्वादुत्कृष्टस्थितेर्बन्धका असंख्येषभागगता एव प्राप्यन्त इति तथैवाभिहिता इति ॥२९६।। अथ सर्वमार्गगास्वनुत्कृष्टस्थितेन्धिकभागानाह
सब्बासु सेसभागाऽणुक्कोसठिईअ णायव्वा ॥२९७॥ (प्रे०) “सव्वासु” इत्यादि सुगमम् । नवरं “सेसभागा" त्ति यास्वेकोऽनन्तभागः सप्तानामुत्कृष्टस्थितेबन्धका उक्ताः, तासु तिर्यग्गत्योघादिमागंणास शेशा अनन्तबहुभागाः सप्तानामनुकृपस्थितेन्धकाः । एवमेव शेषमार्गणास्वपि शेषाः संख्येपबहुभागाः, असंख्येयवहुभागाश्च यथासम्भवं ज्ञातावरणादीनामनुत्कृष्टस्थितेर्बन्धकतया द्रष्टव्या इति ॥२९७।।
तदेवं प्रतिपादिता आयुर्वर्जसप्तानां मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योबन्धकभागा मार्गणास्थानेवपि । साम्प्रतं शेषस्याऽऽयुःकर्मणस्तान् मार्गणासु दर्शयन्नाह
तिरिये सव्वेगिंदिय-णिगोअ-वणका-युरालियदुगेसु। णपुम-चउकषायेसुदुअणाणा-ऽयत-अवक्खूसु॥२९८॥ अपसत्थतिलेसासु भवि-यर-मिच्छा-ऽमणेसु आहारे।
आउस्स बंधगा खलु अणंतभागोऽथि जेट्टाए ॥२९९॥ (प्रे०) "तिरिये सव्वेगिदिये"त्यादि, तिर्यग्गत्योघे, तथा “सव्वे” इत्यादौ सर्वशब्दस्यैकेन्द्रिय-निगोदयोः प्रत्येकं योजनात् सर्व एकेन्द्रियभेदाः, सर्वे च निगोदभेदास्तथा वनस्पति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org