________________
२७४ ]
बंधाणे मूलप डिठबंधो [ मार्गणास्वायुर्वर्ज प्रकृतीनाम्
तदेवं दर्शिता अष्टानामुत्कृष्टानुत्कृष्टस्थित्योर्वन्वकभागा ओघतः । इदानीं तानेवादेशतः प्रचिकटविरादी तावदायुर्वर्जानां सप्तानां मूलप्रकृतीनामाह
सत्तण्डुक्कोसाए अनंतभागोऽत्थि तिरियकायेसु । उरलदुग-कम्मणे णपु सगे चउकसायेसु ॥ २९४ ॥ अण्णाणदुगे अयते अचक्खुदंसण-तिअसुहलेसासु । भविये-यर-मिच्छेसु असण्णि-आहार- गियरेसु ॥ २९५॥
(प्रे०) "सत्तण्हुक्कोसाए” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकमुत्कृष्टायाः स्थिते: “अनंतभागोऽत्थि "त्ति मार्गणागतानां सप्तकर्मसत्कसर्वस्थितिबन्धकजीवानामनन्ततमैकभागप्रमाणाः सन्तीत्यर्थः । चन्धका इति गम्यते । कामु मार्गणास्वित्याह – “तिरियकायेसु”मित्यादि, तिर्यग्गत्योघ-काययोगयोः “उरलदुगकम्मणेसु” ति औदारिकौ दारिकमिश्रकाययोगमार्गणयोर्द्विके, कार्मणकाययोगे, तथा नपुंसकवेदे, क्रोधादिचतुः कषायमार्गणासु । अन्यमार्गणाः संग्रहीतुमेकामार्यामाह - "अणाणदुगे" इत्यादि मत्यज्ञान - श्रुताज्ञानमार्गणयोर्द्विके, असंयमे, अचक्षुर्दर्शने, कृष्णादित्र्यशुभलेश्यासु, भव्ये, तदितरेऽभव्ये, मिथ्यात्वे, असंज्ञयाऽऽहारकमार्गणयोः, आहारकेतराऽनाहारक मार्गणायामित्येतासु त्रयोविंशतिमार्गणासु प्रत्येकमित्यर्थः । कुतः ? ओघवदेतासु प्रत्येकं प्रविष्टैरनन्तबहुभागगतैः साधारणवनस्पतिकायादिजीवैः सर्वदानुत्कृष्टस्थितिबन्ध एव निर्वर्त्यते, इत्थञ्च शेषाणां संज्ञिपञ्चेन्द्रियादीनामुत्कृष्टस्थितिबन्धकानामसंख्येयत्वेन ते तिर्यग्गत्यादितत्तन्मार्गणागतसप्तकर्मसत्कस्थितिबन्धक जीवानामनन्तत मैकभागगता एव भवन्ति ॥ २९४-२९५॥ अथ सार्धाऽऽर्यया शेषमार्गणासु सप्तकर्मसत्कोत्कृष्टस्थितेर्वन्धकभागान् प्ररूपयन्नाह - पज्जमणुस-मणुसीसु सव्वत्था - SSहारदुग-अवेसु । मणणाण-संयमेसु समइ अ-छेअ - परिहारसुहुमेसु ॥२९६॥ हो अन्ति संभागो असंखभागो हवन्ति सेसासु ।
(प्रे०) "पज्जमणुसे” त्यादि, पर्याप्तमनुष्य- मानुषीमार्गणयोः, सर्वार्थसिद्धविमानदेवगतिभेदा-ऽऽहारक-ऽऽहारकमिश्र काययोगमार्गणाभेदद्वयाऽपगतवेदमार्गणासु तथा मनः पर्यवज्ञानसंयममार्गणयोः, सामायिक-छेदोपस्थापन परिहारविशुद्धिक-सूक्ष्मसम्परायसंयममार्गणास्वित्येतासु संख्येयजीवराशिकासु द्वादशमार्गणासु प्रत्येकं " होअन्ति संभागो" त्ति 'सत्तण्हुक्को - साए' इत्यस्यानुवृत्तेः सप्तानामायुर्वजन्यतमानां पर्याप्तमनुष्यादितत्तन्मार्गणासु बन्धप्रायोग्यानां ज्ञानावरणादिमूलप्रकृतीनामुत्कृष्टायाः स्थितेः संख्येयभागो भवन्ति, बन्धका इति प्रकरणाद्गम्यते । कुतः १ एतासु मार्गणासु प्रत्येकं जीवानां संख्येयत्वादुत्कृष्टस्थितिबन्धस्यैकस्थितिबन्धस्थानात्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org