________________
ओघत उत्कृष्टानुत्कृष्टस्थित्योः ] द्वितीयाधिकारे भागद्वारम्
[ २७३ __ अयम्भावः-यस्थितिकजीवानां लोक उत्कृष्टतो यावत्परिमाणं भवति, तत्परिमाणादधिकजीवा एकस्मिन् समये तत्स्थितिकमायुर्न बध्नन्ति; क्षुल्लकभवग्रहणस्थितिका जीवा लोकेऽनन्ता भवन्त्यतः क्षुल्लकभवप्रमाणजधन्यस्थितेर्बन्धका अप्येकसमये लोकेऽनन्ताः प्राप्यन्ते, पूर्वकोटयादिस्थितिकजीवास्तु लोके स्तोका भवन्त्यतः पूर्वकोटयादिस्थितिकायुषो बन्धका अपि लोके स्तोकाः प्राप्यन्ते, इत्येवमुभयत्र बन्धकपरिमाणवैषम्याद्भगवैषम्यं योद्धव्यमिति ॥२९२।।
___ तदेवं प्रतिपादितः शेषस्याऽऽयुकर्मणो जघन्याऽजवन्यस्थित्यो नाजीवाश्रयो भङ्गविचय आदेशतोऽपि । एवञ्च गतं सप्तमं नानाजीवाश्रितं भङ्गविचयद्वारम् ।।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे सप्तमं नानाजीवाश्रय
भङ्गविचयद्वारं समाप्रम् ।।
॥ अथाऽष्टमं भागद्वारम् ॥ सम्प्रति क्रमप्राप्ते “भागो” इत्यनेनोद्दिष्टे भागद्वारे भागप्ररूपणां चिकीर्षुरादौ तावदुत्कृष्टा- .. नुत्कृष्टस्थित्योबन्धकजीवानां भागान् दर्शयन्नाह
उक्कोसाअ ठिईए अणंतभागोऽत्थि बंधगाऽट्ठण्हं ।
होअंति बंधगा खलु अणंतभागा अजेट्टाए ॥२९३॥ (प्रे०) “उक्कोसाअ ठिईए"इत्यादि, तत्र "डण्ह"मित्यत्राऽकारस्य दर्शनादष्टानां ज्ञानावरणादीनां मूलप्रकृतीनामुत्कृष्टायाः स्थितेर्बन्धकाः "अभंतमागोऽत्वि" ति ओघतो भण्यमानत्वात् सर्वेषां स्थितिबन्धकजीवानामनन्तभागः,-अनन्ततमैकभागप्रमाणाः सन्तीत्यर्थः । कुत एक एव भाग इति गम्यते ? 'अणंतभागो' इत्यत्रैकवचनस्योपादानादिति । कथमनन्तैकभागः ? इति चेत्, पर्याप्तसंज्ञिपञ्चेन्द्रियाणामेवोत्कृष्टस्थितिबन्धस्वामित्वात्तेषां च सर्वस्थितिबन्धकानन्तभागगतत्वात् । अत एव शेषा अनन्तबहुभागजीवा ज्ञानावरणादीनां तत्तत्प्रकृतीनामनुत्कृष्टस्थितेर्बन्धकतया प्राप्ता इति तान् तथैव दर्शयन्नाह-"होअन्ति बंधगा खलु” इत्यादि, अत्र "अण्ड" मित्यनुवर्ततेऽतोऽष्टानां मूलप्रकृतीनां प्रत्येकम् “अजेहाए" ति 'अज्येष्ठायाः' -अनुत्कृष्टायाः स्थितेर्बन्धकाः खल्वनन्तभागाः-सर्वस्थितिबन्धकजीवानामनन्तबहुभागगता भवन्तीत्यर्थः । अत्रापि पूर्वव बहुवचनप्रयोजनाद् बहुभागग्रहणं विज्ञेयम् । एवमेवोत्तरत्रापि द्रष्टव्यमिति ॥२९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org