________________
२७२ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो जघन्येतरस्थितिबन्धे स्थितेवन्धकपरिमाणमिव जघन्यस्थितेर्वन्धकपरिमाणमप्यसंख्येवलोकाकाशादि लक्षगमेव, ततश्च पदद्वयस्य ध्रुवत्वादेकोऽष्टमभङग एव प्राप्यते । एता द्वात्रिंशन्मार्गणा एकादशाऽपर्याप्तमनुष्यादिसान्तरमार्गणास्तथा 'तिरिये'त्यादिनाऽनन्तरोक्तास्तिर्यग्गत्योघादित्रयोदशमार्गणाश्च विहाय शेषासु निरयगत्योपादिचतुर्दशोत्तरशतमार्गणासु तूत्कृष्टस्थितिबन्धकानामिव जघन्यस्थितेन्धकानामप्यसंख्यलोकाकाशप्रदेशापेक्षया स्तोकत्वान्मार्गणानां निरन्तरत्वाच्चैकं पदं ध्रुवमेकं त्वध्रुवमित्येवमोघवत्त्रयस्त्रयो भङगा एव प्राप्यन्त इति ॥२९०-२९१॥
तदेवमभिहिता आयुर्वर्जसप्तानां जघन्याऽजधन्यस्थित्यो नाजीवाश्रया भङ्गा मार्गणास्थानेष्वपि । साम्प्रतं शेषस्याऽऽयुःकर्मणस्तानादेशतो दर्शयन्नाह
जासु जेट्ठियराणं ठिईण भंगाऽऽउगस्स अट्ठऽस्थि । तासु जहणियराणं ते चिअ ओघव्व सेसासु ॥२९२॥
(प्रे०) "जासु जेट्ठियराण"मित्यादि, यासु मार्गणास्वायुषो 'ज्येष्ठेतरयोः'-उत्कृष्टानुत्कृष्टयोः स्थित्योरेकानेकादिबन्धकावन्धकनिष्पन्ना भङ्गाः “अहऽथि" त्ति अनन्तरम्'सव्वेसु खलु णारगपणिदितिरियणरदेवभेएसु। सव्वेसु विगलिंदियपणिदितसकायभेएसु॥ बायरसमत्तपुहवाइचउगपत्तेअपणमणवयेसु । विवाहारदुगपुरिसथीवउणाणेसु विभंगे ।। संयससमइअछेअपरिहारदेसोहिणयणतेऊसु । पम्हमुइलसम्मखइअवेअगसासाणसण्णीसु॥
आउस्स अट्ठभंगा उक्कोसाए ठिईअ णायया ।। एवमणुक्कोसाए........ || (गाथा-२८५....२८८ ) इत्यनेनाष्टावभिहिताः सन्तीत्यर्थः । “तासु जहणियराण ते चिअ" ति तासु निरयगत्योधादिष्वेकोत्तरशतमार्गणासु 'जघन्येतरयोः'-जघन्याजघन्ययोः स्थित्योस्त एवाष्टो भङ्गा भवन्तीत्यर्थः । कुतः ? एतास प्रत्येकं मूलत एष जीवानामसंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वेनायुष उत्कृष्टा-ऽनुत्कृष्टस्थितिबन्धलक्षणपदद्वयस्येव जघन्या-ऽजघन्यस्थितिवन्धलक्षणपदद्वयस्याप्यध्रुवत्वात् ।
अथ शेपमार्गणास्वाह-"ओघव्व सेसासु" ति शेषासु तिर्यग्गत्योधादिषु द्विपष्टिमागंणास प्रत्येकमायुषो जघन्याऽजघन्यस्थित्योः प्रत्येकमोघवदेकोऽष्टमभङ्ग एवेत्यर्थः । नन्वेतासु कथमुत्कृष्टानुत्कृष्टस्थित्योभङ्गवत्त्रयस्त्रयो भङ्गा नाभिधीयन्ते ? उच्यते, तत्राऽनन्तजीवराशिकेष्वसंख्यलोकजीवराशिकेषु वा मार्गणासूत्कृष्टस्थितेन्धकानां स्तोकानामेव प्राप्तः पदस्यकस्याध्रुवत्वेन बन्धकामावस्यैकादिवन्धकानां च कालभेदेन लाभात्त्रयो भङ्गाः प्राप्यन्ते । अत्र तु जघन्यस्थितेवन्धका अप्यजघन्यस्थितेवेन्धकानामिव बहवः प्रान्यन्ते, ततश्चाजघन्यस्थितेर्वन्धकानामिव जघन्यस्थितेर्बन्धकानामपि सदैव प्राप्तेः पदद्वयस्य ध्रुवत्वादेकोऽष्ट नभङ्ग एव लभ्यत इति । तत्रोत्कृष्टस्थितिवन्धकानां स्तोकत्वं तूत्कृष्टस्थितिकायुषो वेदकानां जीवानां लोके स्तोकत्वात् , प्रकृते जघन्यस्थितेर्वन्धकानां बहुप्राप्तिस्तु लोके क्षुल्लकभवरूपजघन्यायुर्वेदकानां जीवानामनन्तत्वाद बोद्धव्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org