________________
जयन्या-ऽजघन्यस्थितिबन्धे ] द्वितीयाधिकारे भङ्गविचयद्वारम्
[ २६९ प्रागोघतो यथा ज्येष्ठायाः स्थितेः ‘अट्ठाहुकोसाए सिआ तुरियछट्टअट्ठमा भंगा' इत्यनेन ये चतुर्थषष्ठा-ऽष्टमास्त्रयो भंगा दर्शितास्त एव त्रयो भङ्गाः समानां जघन्यायाः स्थितेर्बोद्धव्याः। ये च तत्र 'अट्ठमसत्तमतइआऽणुकोसाए ठिईए य' इत्यनेनानुकृपायाः स्थितेस्त्रयो भङ्गा अभिहितास्ते सप्तानामजघन्यायाः स्थितेातव्या इति भावः । तत्र राप्तानामजघन्यस्थितेबन्धकास्तु ध्रुवं लम्यन्ते, एकेन्द्रियादिजीवैर्निरन्तरमौधिकाजघन्यस्थितिवन्धस्य निवेतनात् , इत्येवमेकं पदं ध्रुवम्, अन्यत्तु जघन्यस्थितिबन्धकलक्षणमध्रुवम् , क्षपकानां तत्स्वामित्वात् । तथा चोत्कृष्टानुत्कृष्टस्थितिवत् त्रयस्त्रयो भङ्गा एवोत्पद्यन्त इति । अथाऽऽयुषो जघन्याऽजघन्यस्थित्योरोघतो भङ्गविचयमाह“आउस्स उ अट्ठमो भङ्गो" त्ति 'हरसेवराणे त्यवर्तते, तत आयुषो 'ह्रस्वेतरयोः'-जघन्याऽजघन्यस्थित्योः प्रत्येकमष्टमोऽनेके बन्धका अनेकेऽवन्धका एव' इत्येको भङ्गो भवति । तुकारस्तु पुनरर्थे द्रष्टव्य इति । कुत एकः ? इति चेद्, निगोदपर्यन्तानामनन्तानां जीवानामायुषो जघन्याऽजघन्यस्थितिबन्धकत्वेन पदद्वयस्यापि ध्रुवत्वात्, पद यस्य ध्रु वत्वे त्वेक एव भङ्ग प्राप्यत इति प्राग व्युत्पादितमिति ॥२८९॥ उक्त ओघतोऽष्टानां जघन्याजघन्यस्थित्योर्भगविचयः । साम्प्रतमादेशतो विभणिपुरादौ तावदायुर्वर्जानां सप्तानां तमाह
तिरियु-रलपीस-कम्मण-दुअणाणा-ऽयत-तिअसुहलेसासु। अभविय-मिच्छत्तेसु अमणा-ऽणाहारगेसु च ॥२९०॥ भंगोऽट्टमो चिअ भवे हस्सियरठिईण आउवज्जाणं ।
सेसासु जाणियव्वा उक्कोसेयरठिइव्व कमा ॥२९१॥ (प्रे०) “तिरियुरलमीसे"त्यादि, तिर्यग्गयोधौ-दारिकमिश्रकाययोग-कार्मणकाययोगमत्यज्ञान-श्रुताज्ञाना-ऽसंयम कृष्णादिव्यशुभलेश्यामार्गणा तथा-ऽभव्य-मिथ्यात्वयोरसंश्य-ऽनाहारकमार्गणयोरित्येतासु त्रयोदशमार्गणासु प्रत्येकमायुर्वर्जानां सप्तानां मूलप्रकृतीनां "हस्सियरठिईण" त्ति 'ह्रस्वेतरयोः'-जघन्याऽजघन्ययोः स्थित्योः प्रत्येकं "भंगोऽहमो' त्ति अष्टमो भङ्गो'ऽनेके बन्धका अनेकेऽबन्धका एवेति । कुतः ? एतासु प्रत्येकं प्रविष्टानां साधारणवनस्पतिकायादिजीवानां प्रस्तुतद्विविधस्थितिबन्धस्वामित्वेन पदयस्यापि ध्रुवत्वादिति ।
सेसमार्गणास्वाह-"सेसासु जाणियव्वा" इत्यादिना, अक्षरार्थस्तु सुगमः । भावार्थः पुनरयम्--अपर्याप्तमनुष्यादिष्वेकादशसान्तरमार्गणासु तु मार्गणानामेव सान्तरत्वेनोत्कृष्टानुत्कृष्टस्थित्योरिव जघन्याऽजघन्यस्थितिलक्षणपदयस्वाध्रवत्वादष्टौ भङगाः प्राप्यन्ते । सर्वेष्वेकेन्द्रियभेदेषु, बादरापर्याप्तपृथिव्यप्तेजोवायुकायरूपेषु चतुर्यु भेदेवपर्याप्तप्रत्येकवनस्पतिकाये, ओघ-पर्याप्ताऽपर्याप्तभेदभिन्नेषु त्रिषु सूक्ष्मपृथिवीकायभेदेषु, तथैव मूक्ष्माकाय-तेजस्काय-वायुकायसत्केषु त्रिषु त्रिषु भेदेषु, सर्वेषु साधारणवनस्पतिकायभेदेषु, वनस्पतिकायोधमार्गणायां चेत्येतासु प्रत्येकमुत्कृष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org