SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २६८ ] बंधहाणो मूलपयडिठिबंधो [ ओघादेशतोऽष्टमूलक णाम् शेषासु तिर्यग्गत्योघादिद्विषष्टिमार्गणासु तु प्रत्येकं साधारणानां सूक्ष्माणां बादराऽपर्याप्तानां वाऽन्यतमजीवानां प्रवेशेन, तैः सर्वैरायुषोऽनुत्कृष्टस्थितेर्बन्धकरणेन चायुषोऽनुत्कृष्टस्थितेर्बन्धकपरिमाणस्य बहुत्वात्तदुबन्धकानां सार्वदिकप्राप्तिलक्षणं तत्पदस्य ध्रुवत्वं भवति, न पुनरायुष उत्कृष्टस्थितेरपि । कुतः ? तद्वन्धकानामसंख्ये यलोकप्रदेशराश्यपेक्षया स्तोकत्वात् । , 1 ननु मा भवतु तिर्यग्गत्योघ - काययोगसामान्यादिमार्गणासु संज्ञिपञ्चेन्द्रियादीनामेवाऽऽयुष उत्कृष्टस्थितिबन्धस्वामित्वात्तेषां चासंख्य लोकप्रदेशराश्यपेक्षया स्तोकत्वादुत्कृष्टस्थितेः पदं ध्रुवम्, अपर्याप्तत्रादरै केन्द्रियादिमार्गणाभेदेषु तु तद् ध्रुवं स्यात्, तत्र साकारादिविशेषणविशिष्टानां सामान्यजीवानामेवायुष उत्कृष्ट स्थितिबन्धस्वामित्वकथनेन बन्धप्रायोग्यस्य पूर्वकोटीस्थितिकस्या ssयुषो मार्गणाप्रविष्टानामसंख्य लोकप्रदेशराशितुल्यानां तदधिकानां वा सर्वेषां जीवानां बन्धप्रायोग्यत्वात् ? इति चेद्, उच्यते, सत्यमेतत् तथाऽपि तादृशोत्कृष्टस्थितेर्वेद कानामेव लोके स्तोकतथा तादृशस्थितेर्वन्धका अपि लोके कस्मिन्नपि समये तदधिका नैवाऽवाप्यन्ते । इत्थं चाऽसंख्यलोकजीवराशिकेष्वपि तेषु पूर्वकोटीप्रमाणोत्कृष्टस्थितेर्वन्वास्तु स्तोका एव प्राप्यन्ते, ततश्चाऽपर्याप्तवाद केन्द्रियादिमार्गणास्थानेष्वप्युत्कृष्टस्थितेः पदमनुवं प्राप्यते, एवं चैकस्य पदस्य traint agaत्वादोघवदायुषो उत्कृष्टस्थितेः 'सर्वेऽबन्धका एव' इति चतुर्थभङ्गः, 'एको बन्धकोsansaat एव' इति षष्ठो भङ्गस्तथाऽनेके बन्धका अनेकेऽवन्धका एव' इत्यष्टमभगव प्राप्यते । अनुत्कृष्टस्थितेस्तु वैपरित्येन 'सर्वे बन्धका एव' इति तृतीयः 'अनेके बन्धका एकोऽन्धक एव' इति सप्तमस्तथा 'अनेके न्वका अनेकेऽबन्धका एवं' इत्यष्टम इत्येवं त्रयस्त्रयो भङ्गाः प्राप्यन्त इति । अत्र शेषमार्गणाभिधानानि त्विमानि - तिर्यग्गत्योघः, सबैकेन्द्रियभेदास्तथा पर्याप्तवाद र भेदवर्जाः पट् पृथिवी काय भेदाः, एवं पडकाय भेदाः, पट् तेजस्कायभेदाः, पड् वायुकायभेदाः, पर्याप्त प्रत्येक वनस्पतिकाय भेदवर्जी दश वनस्पतिकाय भेदाः, काययोगसामान्यौ-दारिकौ-दारिकमिश्रकाययोग-नपुं’सकवेद-क्रोधादिचतुः कपाय-मत्यज्ञान - श्रुताज्ञाना-ऽसंयमाऽचक्षुर्दर्शन- कृष्ण-नील- कोपोतलेश्या-भव्या-ऽभव्य-मिथ्यात्वा ऽसंज्ञयाऽऽहारिमार्गणाभेदाश्चेति ॥ २८५-२८६-२८७-२८८।। तदेवमभिहित आदेश आयुषोऽयुत्कृष्टा ऽनुत्कृष्टस्थित्योर्मानाजीवाश्रयो भङ्गविवयः । साम्प्रतं जघन्याजघन्यस्थित्योस्तं दिदर्शविषुरादौ तावदोषत आह भंगाऽऽउगवज्जाणं ठिईण हस्सेयराण णायव्वा । जेटियरठिन्य कमा आउस्स उ अट्टमो भंगो ॥ २८९॥ (प्रे०) “भंगाउगवज्जाण” मित्यादि आयुवर्जानां सप्तानां मूलप्रकृतीनाम् “ठिईण हस्सेयराण" ति 'ह्रस्वायाः' - जघन्यास्तदितरात अजघन्यायाव स्थित्योर्भङ्गा ज्ञातव्या इति योगः । कथं ज्ञातव्या इत्याह- "जेटियर ठिइव्वकमा" त्ति ज्येष्ठेतरस्थितिवत् क्रमात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy