________________
उत्कृष्टानुत्कृस्थितबन्धे ] द्वितीयाधिकारे भङ्गविचयद्वारम्
[ २६७ नात्मकोत्कृष्टस्थितेर्बन्धकपरिमाणमसंख्यलोकं तदधिकं वा, अन्यतममार्गणायामपि सूक्ष्माणां साधारणानामपर्याप्तवादरैकेन्द्रियाणां वोत्कृष्टस्थितिवन्धस्वामित्वाभावात् । इत्थं चैकस्य पदस्य ध्रुवत्वादेकस्य त्वध्रुवत्वाद् भगा अप्योघवदुत्कृष्टानुत्कृष्टस्थित्योर्यथासंख्यं चतुर्थ षष्ठा-ऽष्टमास्तृतीयसप्तमा-ऽष्टमाश्च लभ्यन्ते, ते च सर्वथौघवदेव भावनीया इति ॥२८२-२८३-२८४॥
तदेवमभिहिता आयुर्वर्जानामुत्कृष्टानुत्कृष्टस्थित्योर्वन्धकावन्धकभङ्गाः सर्वमार्गणास्थानेषु । साम्प्रतं तास्वेवायुपस्तान् प्रकटयन्नाह
सब्वेसु खलु णारग-पणिदितिरिय-णर-देवभेएसु। सव्वेसु विगलिंदिय-पणिंदि-तसकायभेएसु॥२८५॥ बायरसमत्तपुहवाइचउग-पत्तेअ-पणमणवयेसु।। विउवाहारदुग-पुरिस-थी-चउणाणेसु विभंगे ॥२८६॥ संयम-समइअ-छेअ-परिहार-देसो-हि-णयण-तेऊसू। पम्ह-सुइल-सम्म-खइअचेअग-सासाण-सण्णीसू ।।२८७॥ आउस्स अट्ट भंगा उक्कोसाए ठिईअ णायव्वा । एवमणुकोसाए णेया ओघव्व सेसासु॥२८८॥ (प्रे०) “सव्वेसु खलु” इत्यादि गाथाचतुष्टयम् । तत्राद्यगाथात्रयेण संगृहीतास्वेकोत्तरशतमार्गणासु प्रत्येकं चतुर्थगाथापूर्वानायुष उत्कृष्टस्थितेर्भङ्गा अभिहिताः; चतुर्थगाथोत्तरार्धन तु तास्वेव गाथात्रयोक्तास्वेकोत्तरशतमार्गणास्त्रायुषोऽनुत्कृष्टस्थितेर्भङ्गकानतिदिश्य शेषासु द्विपष्टिमार्गणामूत्कृष्टानुत्कृष्टस्थित्योर्भङ्गा ओघवदभिहिताः । एतासां चतसृणामपि गाथानामक्षरार्थस्तु सुगमः, नवरं द्वितीयगाथापूर्वार्धे "बायरसमत्तपुहवाइचउगपत्तेअ" इत्यत्र बादरपर्याप्तवाचको बादरसमाप्तशब्दः प्रत्येकान्तेषु प्रत्येकं युज्यते, ततश्च तेन बादरपर्याप्तपृथिव्यप्तेजोवायुपर्याप्तप्रत्येकवनस्पतिकायरूपाः पञ्चमार्गणाः संगृहीता बोद्धव्याः।
भावार्थः पुनरयम्-निरयगत्योधादिष्वेकोत्तरशतमार्गणासु प्रत्येकं साधारणवनस्पतिकायजीवानां सूक्ष्मैकेन्द्रियजीवानां बादरापर्याप्तकेन्द्रियाणां वा जीवानामप्रवेशाज्जीवपरिमाणं मूलत एवाऽसंख्यलोकप्रदेशराशितुल्यं न विद्यते, किन्तु ततः स्तोकं स्तोकतरं स्तोकतमं वा विद्यते, इत्थं च न भवत्येतासामन्यतमस्यामप्यायुषोऽनुत्कृष्टस्थितेर्बन्धकपरिमाणमसंख्यलोकप्रदेशराशितुल्यम् ,ततश्च प्रत्येकमायुषोऽनुत्कृष्टस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणस्याऽन्तरस्य सद्भावात्तत्पदमध्रुवम् , तस्याऽध्रुवत्वे तत्प्रतिपक्षभूतमुत्कृष्टस्थितेर्बन्धकपदं सुतरामध्रुवं, द्वयोरध्रुवत्वे तु प्रागुक्तनीत्याऽष्टौ भङगाः समुत्पद्यन्त इति तथैवोक्ताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org