________________
२६६ ]
बन्धविहाणे मूलपयडिठिइबंधो [ मार्गणांस्वायुःकर्मणः इत्यतोऽत्र ग्रन्थे छेदोपस्थापनसंयम-परिहारविशुद्धिकसंयममार्गणेऽष्टभङ्गप्रस्तावेऽपि न संगृहीते, एवं न ते भङ्गत्रयप्रस्तावेऽपि संगृहीष्यतः, किन्तु 'सयमुझं परिहारे छेए' इत्यनेन तत्र मार्गणाद्वये समयाऽविरोधेन प्रस्तुतभङ्गाः स्वयमेवोह्या इत्यभिधास्यते, अतस्तत्र पूर्वदर्शितन्यायेन तत्तद्वचनान्यवलम्ब्य सम्भवद्भङ्गकाः स्वयमभ्युह्या इति ।
अथ यासु मार्गणासु सप्तानामुत्कृष्टानुत्कृष्टस्थितिविषये केवलोऽष्टमभङ्ग एव, न पुनः शेषाः सप्ताऽपि, ता मार्गणाः संगृह्य तत्रैकोऽष्टमभङ्ग एवेति दर्शयन्नाह-"अहमभङ्गो" इत्यादि, 'अनेके बन्धका अनेकेऽवन्धका इत्येवंरूपोऽष्टमभङ्ग एव भवति, न पुनरन्ये सप्त । कासु मार्गणास्वित्याह-"सव्वेसु एगिदिये"त्यादि, सर्वेष्वेकेन्द्रियभेदेषु, “णिगोअभेएसु” त्ति सर्वेषु साधारणवनस्पतिकायभेदेषु, तथा “सेससुहुमेसु' ति ओष-पर्याप्ताऽ-पर्याप्तभेदभिन्नानेकेन्द्रियसत्कान् साधारणवनस्पतिकायसत्काँश्चानन्तरं “सञ्बेसुं एगिदियणिगोअभेएसु" इत्यनेन संगृहीतान् पट सूक्ष्मभेदान् त्यक्त्वा शेषेषु पृथिव्यप्तेजोवायुकायसत्केष्वोध-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु द्वादशसु मूक्ष्मभेदेष्वित्यर्थः । अन्यभेदान् संग्रहीतुमाह-"बायरअपज्जे"त्यादि, तत्र बादरापयाप्तशब्दस्य प्रत्येकहरितान्तेषु प्रत्येकं योजना बादराऽपर्याप्तपृथिवीकाय-बादराऽपर्याप्ताप्काय-धादराऽपर्याप्ततेजस्काय-बादराऽपर्याप्तवायुकाय लक्षणे बादराऽपर्याप्तपृथिव्यादिभेदचतुष्के "पत्तेअहरिअहरि" त्ति बादराऽपर्याप्त प्रत्येकवनस्पतिभेदे, तथा 'हरिते'-बनस्पत्योधमार्गणायां चेत्येतेषु द्वात्रिंशन्मार्गणाभेदेषु प्रत्येकमित्यर्थः । एतेष्षष्टमभङ्गोपपत्तिस्तु प्रत्येकमेकस्थितिबन्धस्थानात्मकोत्कृष्टस्थितेबन्धकानामप्यसंख्येयलोक-तदधिकपरिमाणतया प्रागिन द्रष्टव्येति ।
अथ छेदोपस्थापनपरिहारविशुद्धिकसंयमयोराह-"सयमुज " मित्यादि, गतार्थमिति ।
अथ शेषमार्गणास्वाह-"ओघव्व सेसासु” ति उक्तशेषासु सप्तविंशत्यभ्यधिकशतमार्गणासु प्रत्येकमोघवद्भवन्ति, सप्तानामुत्कृष्टानुत्कृष्टस्थित्यो नाजीवाश्रया भङ्गा इति प्रक्रमादम्यते । अत्र शेषमार्गणा नामत इमाः-सर्वे निरयगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, मनुष्योध-पर्याप्तमनुष्य-मानुषीलक्षणास्त्रयो मनुष्यगतिभेदाः,सर्वे देवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः,सर्वे पञ्चेन्द्रियभेदाः, चत्वारः पृथिव्यप्तेजोवायुकायोधभेदाः, बादरपथिव्यप्तेजोवायुप्रत्येकवनस्पतिकायलक्षणाः पञ्च भेदाः, पर्याप्तवादरपथिव्यतेजोवायु-पर्याप्तत्रत्येकवनस्पतिकायलक्षणाः पञ्च भेदाः, त्रयस्त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यो-दारिको-दारिकमिश्र-क्रिय-कार्मणकाययोगाः, स्त्रीवेदादित्रिवेद-क्रोधादिचतुःकपाय-मत्यादि चतुर्ज्ञान-मत्यज्ञानादिव्यज्ञान-संयमौघ-सामायिकसंयम-देशसंयमा-ऽसंयम-चक्षुरादित्रिदर्शन-कृष्ण-नील-कापोत-तेजः-पद्म-शुक्ललेश्या-भव्या-ऽभव्य--सम्यक्त्वौघक्षायिक-वेदक-मिथ्यात्व-संश्य-ऽसंड्या-ऽऽहार्य-ऽनाहारिमार्गणाभेदाश्चेति । एतासु प्रत्येकं न भवति ज्ञानावरणादे नास्थितिबन्धस्थानात्मकानुत्कृष्टस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरम् , तस्याऽपर्याप्तमनुष्यादिसान्तरमार्गणास्वेवाभिहितत्वात् । एवं च न भवत्येकस्थितिबन्धस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org