________________
तत्तद्भङ्गानामुपपत्तिमार्गः ] द्वितीयाधिकारे भङ्गविचयद्वारम्
[ २६५ एवं होदं प्रतिष्ठितम्-यत्रोत्कृष्ट-जघन्यान्यतरस्थितेस्तत्प्रतिपक्षस्थितेश्च बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं प्राप्यते, तत्र बन्धकाऽबन्धकलक्षणपदद्वयस्याऽध्रुवत्वेनाऽष्टावपि भङ्गाः प्राप्यन्ते । यत्र त्वनुत्कृष्टाऽजघन्यस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं नैव लभ्यते, किन्तु तत्प्रतिपक्षभूतोत्कृष्टादिस्थितेस्तल्लभ्यते, तत्रैकस्य पदस्य ध्रुवत्वाद् एकस्य त्वध्रुवत्वाच्चोत्कृष्टादिस्थितेर्यथासम्भवं चतुर्थादयस्त्रयस्त्रयो भङ्गाः प्राप्यन्ते । यत्र तु बन्धकपरिमाणस्यासंख्येयलोकाकाशादिलक्षणबहुत्वेनैकस्थितिबन्धस्थानात्मकोत्कृष्टादिस्थितेर्बन्धकानामपि कादाचित्कसर्वथाऽभावलक्षणमन्तरं न भवति, तत्र तु पदयस्य ध्रवत्वेनाष्टमभङ्ग एवाऽऽप्यत इति ।
नन्वेवं तर्हि छेदोपस्थापनसंयम-परिहारविशुद्धि कसंयममार्गणयोरुत्कृष्ट-जघन्य-तत्प्रतिपक्षस्थितीनां प्रत्येकं बन्धकानां कादाचित्कसर्वथाऽभाव रक्षणान्तरस्य सम्भवेऽपि तत्र कथमटौ भङ्गा नाभिहिताः ? इति चेद, उच्यते, छेदोपस्थापन-परिहारपिशुद्धिकसंयममार्गग योरपर्याप्तमनुष्यमार्गणादिवत्सान्तरत्वेऽपि तत्र मार्गणाइये यदि जघन्यपद रको नीगे उभ्येत, तदोक्कनीत्या स्याग
गाष्टकम् , नवरं श्रीपञ्चमाङ्ग "छेदोवट्ठावणिया पुछानो यमा! पडियामाणा : पडुच्च सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा, उकको वेणं सत्तं, याविना सघ अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं कोडिसयपुहुत्तं, उक्कोसेणवि कोडिसयपुहुत्तं " इत्यनेन जघ- पदेऽपि छेदोपस्थापनसंयतानां कोटिशतपथक्त्वमनिहितम् । तटोकायां पुनः श्रुतिबलाजघन्यतस्तेषां विंशतिरेव सम्भाविता । तथा च टोकाक्षराणि-“दुष्षमान्ते भरतादिषु दशपु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाविंशतिरेव तेषां श्रूयते,' इति । एवं परिहारविशद्विपतमार्गणास्थाने "परिहारविसुद्धिया जहा पुलागा" इत्यनेनातिदेशतः श्रीमत्यां भगवत्यां जघन्यपद एकोऽभिहितः, पञ्चवस्तुकप्रकरणे तु 'उक्कोस-जहण्णेणं सयसो च्चिय पुब्बपडिवण्णा ।।गाथा १५३४॥” इत्यनेन जघन्यतोऽपि ते शतशः प्रतिपादिताः।
न चैवं सति तत्तन्मतेन यथासम्भवं भङ्गका द्रष्टव्या भवन्तीति वाच्यम् । यत एतेषामतुल्यप्रतिपादनानां भिन्नभिन्नमतावलम्बित्वमेव, न पुनरभिप्रायविशेषावलम्बित्वमिति न केनाऽपि निश्चितम् । यत उक्तमभयदेवसूरिपादैः-"इहोत्कृष्टं छेदोपस्थापनी यसंयतपरिमाणमादितीर्थकातीर्थान्याश्रित्य सम्भवति । जघन्यं तु तत्सम्यग् नावगम्यते' इति । पञ्चवस्तुके च प्रक्षेपपक्षापेक्षया जघन्यपद एक एव परिहारविशद्धिको भवतीत्युक्तम् । तथा च तद्ग्रन्थ:
'पडिवज्जमाण भइया इक्कोऽवि हु होज्ज ऊणपक्खेवे ।
पुवपडियन्नयावि हु भइया एगो पुहुत्तं वा ।।१५३६।।' इति । केचित्पुनरेवमाहः-*छेदोपस्थापनीयं तु प्रथ चतुर्विशतितमजिनतीर्थे तु नियमत आदर्तव्यं, पूर्वगृहीतचारित्रस्य विशेषोद्योतार्थमथवा मूलगुणभङ्गे पुनर्महात्रतारोपणन् , एतत्तु सर्वजिनतीर्थेषु प्राप्यते' इति ।
* खरतरगच्छीयपाठकरामविजयकृतगुणमालावृत्ती,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org