SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २६४] बंधविहाणे मूलपयडिठिइवधो [ औवतो मार्गणासु चीत्कृष्टादिस्थितः बन्धकाऽबन्धकव्यपदेशभेदेनोत्कृष्टस्थितेरनुत्कृष्टस्थितेश्च पञ्चमाऽष्टमभङ्गा व भवतः, न पुनर्भङ्गव्यत्यासेन । इत्थं च यत्रैकस्थितिवन्धस्थानात्मकोत्कृष्टादिस्थितेः पञ्चमोऽष्टमो वा भङ्गो लभ्यते, तत्र नानास्थितिबन्धस्थानात्मकप्रतिपक्षभृतानुत्कटादिस्थितेरपि स पञ्चमोऽटमो वा भङ्गः प्राप्यते, यत्र तूत्कृष्टस्थितेः प्रथमो वा द्वितीयो वा तृतीयो वा चतुर्थो वा षष्ठो वा सप्तमो वा भङ्गस्तत्र तु क्रमेणानुत्कृष्टस्थितेर्द्वितीयो वा प्रथमो वा चतुर्थो वा तृतीयो वा सप्तमो वा षष्ठो वा भङ्गः सम्पद्यते । अत एवौघतो ज्ञानावरणाद्युत्कृष्टस्थिते धतुर्थषष्ठाऽष्टमभङ्गाः, तदनुत्कृष्टस्थितेस्तु तृतीय-सप्तमा-ऽष्टमभङ्गाश्चाभिहिताः, निरयगत्योघादिमागंणास्थानेषु वक्ष्यते च । ओघतो निरयगत्योघादिमार्गणास्थानेषु च ज्ञानावरणादीनामुत्कष्टादिस्थितेस्त्रिभङ्गप्राप्तिस्तु तेषु नानास्थितिवन्धस्थानात्मकस्याऽनुत्कृष्टादिस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणान्तरस्याऽभावेनैकपदस्य ध्रुवत्वात् , एकस्थितिबन्धस्थानात्मकोत्कष्टादिस्थितेर्बन्धकानामसंख्यलोकपरिमाणापेक्षया स्तोकत्वेनान्यपदस्याऽध्रुवत्वात् । एकस्थितिबन्धस्थानात्मकस्योत्कृष्टादिस्थितेबन्धकानां कदाचित्सर्वथाभावलक्षणस्यान्तरस्याऽपि सम्भवेन तत्पदस्याऽत्रुवत्वादिति भावः । एकस्य पदस्य ध्रुवत्वे तदबन्धकाः सर्वदाऽनेके लभ्यन्ते । अध्रुवपदस्य तु कदाचिदेको लभ्यते, कदाचिचनेके लभ्यन्ते, कदाचित्तु न इत्येवं भङ्गत्रयी समुत्पद्यते ।। तद्यथा-एकस्थितिबन्धस्थानात्मकस्थितेर्यदा एकोऽपि बन्धको न लभ्यते, तथा 'सर्वेऽबन्धका एवेति चतुर्थभङ्गः; तदानी बहूनां नानास्थितिबन्धस्थानात्मकस्थितेर्बन्धकानां विद्यमानत्वात् । अत एव यदाऽध्रवपदे एको बन्धकः प्राप्यते, तदा षष्ठभङ्ग ‘एको बन्धकोऽनेकेऽबन्धका एवेति । यदा पुनरनेके बन्धकाः प्राप्यन्ते, तदा त्वष्टमो भङ्गोऽनेके बन्धका अनेकेऽबन्धका एवेति । नानास्थितिवन्धस्थानात्मकानुत्कृष्टस्थितेस्तु बन्धकस्थानेऽवन्धकाः, अबन्धकस्थाने बन्धका इति व्यत्यासेन तृतीय-सप्तमा-ऽष्टममगाः स्वयमेव योज्याः । यत्र तु मार्गणादावेकस्थितिबन्धस्थानात्मकस्थितेर्बन्धका असंख्यलोकप्रदेशराशिपरिमितास्तदधिका वा सन्ति, तत्र तु पदद्वयमपि ध्रवमेव भवति । कुतः ? असंख्यलोकप्रदेशपरिमितजीवराशेबन्धप्रायोग्यस्थितेर्बन्धकानां नैरन्तरर्येण बहूनां लाभात् । ननु तथा सति भवत्वेकस्थितिबन्धस्थानात्मकस्थितेबहूनां बन्धकानां नैरन्तर्येण लाभस्ततश्च तत्पदं ध्रुवम् , अनुत्कृष्टस्थितेर्बन्धकानां त्वध्रुवं भविष्यति ? इति चेद्, मैवम्,सर्वत्रैकस्थितिबन्धस्थानात्मकस्थितेवन्धकपरिमाणापेक्षया. तत्प्रतिपक्षभूतनानास्थितिवन्धस्थानात्मकस्थितेर्बन्धकानामनेकगुणानां भावाद् यत्रैकस्थितिबन्धस्थानात्मकस्थितेर्बन्धकानां बहुत्वेन तत्पदं ध्रवं भवति, तत्र नानास्थितिबन्धस्थानात्मकस्थितेर्बन्धकपदमपि ध्रुवमेव लभ्यते, इत्येवं तादृशमार्गणादौ पदद्वयस्यापि ध्रुवतया सार्वदिकनानावन्धकाऽवन्धकलाभलक्षणोऽनेके बन्धका अनेकेऽबन्धका एवे त्यप्टमभकम एव सम्पद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy