________________
तत्तद्भङ्गानामुपपत्तिमार्गः ] - - द्वितीयाधिकारे भङ्गविषयद्वारम्
[ २६३ प्राप्यत ‘एको बन्धक एकोऽबन्धक एवे' ति । तदनन्तरसमये तु तौ विपि जीवौ ततश्ब्युन्वाऽपयाप्तसूक्ष्मैकेन्द्रियादिमार्गणान्तरं प्राप्तौ । न च तदानीं समस्तेऽपि जगति कश्चि-जीवोऽपर्याप्तमनुष्यतया विद्यते । तच्चाऽपर्याप्तमनुष्यमार्गणाया अन्नरम् । अन्तरकालादूचं पुनरपि मार्गणान्नराज्च्युत्वा जीवानामपर्याप्तमनुष्यतयोत्पत्तिः प्रारब्धा, तत्र प्रथमसमये कश्चिदेक एव जीयोऽपर्याप्तमनुष्यतयोत्पन्नः । स च तदानीं भवप्रथमसमयस्थः सन् सप्तकर्मणामनुत्कष्टस्थितिबन्धमेव करोतीति प्राप्तो द्वितीयभङ्गः ‘एकोऽबन्धक एवेति, अनुत्कृष्टस्थितिबन्धकानामुत्कृष्टस्थितिबन्धापेक्षयाऽवन्धकतयाऽभिमतत्वात् । कियत्कालेन च तेन जीवेन सप्तानामुत्कृष्टस्थितिवन्धः प्रारब्धः, यावता नाऽऽगतः कश्चिज्जीवो मार्गणान्तरादपर्याप्तमनुष्यतया, एवं व लब्धः प्रथमो भङ्गः ‘एको बन्धक एवे' ति, तदानीमपर्याप्तमनुष्यमार्गणायां तदन्यजीवस्याविद्यमानत्वात् , विद्यमानेन तु तेनोत्कृष्टस्थितिबन्धस्य निर्वर्तनाच्च । आरब्धे च तेनोत्कृष्टस्थितिबन्धे द्वितियसमये कश्चिदन्यो जीवो मार्गणान्तरादागत्याऽपर्याप्तमनुष्यतया समुत्पन्नः, स च तदानीं सप्तानामनुत्कष्टस्थितेरेव वन्धक इति लब्धः पुनरपि पश्चमभङ्गः। समयान्तरेऽन्ये त्रिचतुरा जीवा अपर्याप्तमनुष्यतया समजायन्त । ते च तदानीमनुत्कृष्टस्थितेरेव बन्धकाः, इत्थं तदानीमेकस्य सर्वप्रथममागतस्य जीवस्यैवोत्कृष्टस्थितेर्वन्धकत्वात् , तदन्येषां पञ्चानामपि जीवानामनुत्कृष्टस्थितेरेव निवर्तकत्वाच्च जात 'एको बन्धकोऽनेकेऽबन्धका एवेति षष्ठभङ्गः। समयान्तरे च प्रथमागतेनाऽप्युत्कृष्टस्थितिबन्धं समाप्याऽनुत्कृष्टस्थितिबन्धः प्रारब्धः, तदानीं च मार्गणागतानां षण्णामपि जीवानामनुत्कृष्टस्थितिबन्धस्यैव प्रवर्तनात् प्राप्तश्चतुर्थभङ्गः 'सर्वेऽवन्धका एवेति । अन्तमुहर्तेऽतिगते तैः सर्वैरुत्कृष्टस्थितिबन्धः प्रारब्धः, नाऽगतश्चाऽद्यापि तदन्यः कश्चिज्जीवः । इत्थं तदानीं मार्गणावर्तिनां सर्वेपामपि जीवानां सप्तकर्मोत्कृष्टस्थितिबन्धस्य प्रवर्तनाल्लब्धस्तृतीयो भङ्गः 'सर्वे बन्धका एवेति । तदनन्तरसमये च कश्चिदेक एव जीवोऽपर्याप्तमनुष्यतया संजातः, तस्याऽभिनवोत्पन्नस्याऽनुत्कृष्टस्थितिबन्धः, शेषाणां तूत्कृष्टस्थितिबन्धः प्रवर्तत इति सम्प्राप्तः सप्तमो भगो'ऽनेके बन्धका एकोऽबन्धक एवेति । समयान्तरेऽन्येऽपि केचनाऽपर्याप्तमनुष्यतया समुत्पन्नाः । न चाद्याऽपि पूर्वोक्तैरुत्कृष्टस्थितिबन्धः समाप्तः । इत्थं प्राप्तोऽष्टमभङ्गोऽनेके बन्धका अनेकेऽबन्धका एवेति ।
इदन्तु दिङ्मात्रम् । अनया दिशा प्रकारान्तरेण तु स्वयमेव भावनीयाः । अनुत्कृष्टस्थितेरष्टौ भङ्गास्तूक्तव्यत्यासेन भावनीयाः, यतो 'जे बंधगुक्कसाए' इत्यादि-(२७९-२८०) गाथाद्वये य उत्कृष्टस्थितेर्बन्धकास्तेऽनत्कृष्टस्थितेरवन्धकाः, ये चानुत्कृष्टस्थितेवन्धकास्त उत्कृष्टस्थितेरवन्धका उक्ताः । एवञ्चोत्कृष्टस्थितेः प्रथमभङ्गोऽनुत्कृष्टस्थितेर्द्वितीयो भङ्गो भवति । उत्कृष्टस्थितेर्द्वितीयस्त्वनुत्कृष्टस्थितेः प्रथमः । एवं तृतीय-चतुर्थावपि भङ्गौ व्यत्यासेन प्राप्यते । एवमेव षष्ठसप्तम-भङ्गावपि व्यत्यासेन वाच्यौ, य उत्कृष्टस्थितेः षष्ठभङ्गः, सोऽनुत्कृष्टस्थितेः सप्तमभङ्गो भवति, उत्कृष्टस्थितेः सप्तमस्त्वनुत्कृष्टस्थितेः षष्ठ इति भावः । पञ्चमा-ऽष्टमौ तु स्वस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org