________________
२६२ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतो मार्गणासु चोत्कृष्टादिस्थितेः इत्येवमुत्कृष्टानुत्कृष्टद्विविधस्थितिबन्धे सर्वा बन्धप्रायोग्यस्थितयोऽन्तर्भूताः । एवं जघन्याऽजघन्यद्विविधस्थितिबन्धेऽपि सर्वा बन्धप्रायोग्यस्थितयोऽन्तर्भवन्ति, जघन्यस्थितिबन्धतया एकर बन्धप्रायोग्यसर्वस्तोकस्थितिबन्धस्थानस्य, अजघन्यस्थितिबन्धतया तु शेषसर्वबन्धप्रायोग्यस्थितिबन्धस्थानानां च ग्रहणात् । एतच्च सर्व प्राग्दर्शितमेव । द्विविधस्थितिबन्धे नानास्थितिबन्धस्थानात्मकानुत्कृष्टादिस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं यत्र मार्गणादौ लभ्यते तत्र तस्यास्तत्प्रतिपक्षभूताया उत्कृष्टादिस्थितेः प्रत्येकमष्टावपि भङ्गाः सम्पद्यन्ते । यथा प्रस्तुताऽपयाप्तमनुष्यादिमार्गणास्वष्टकर्मणाम् , निरयगत्योपादिमार्गणास्वायुःकर्मणश्चेत्येका व्याप्तिः ।।
यत्र पुनरोघे मार्गणासु वा ज्ञानावरणादेरेकस्थितिबन्धस्थानात्मकोत्कृष्टादिस्थितेर्बन्धकपरिमाणमसंख्यलोकप्रमाणं तदधिकं वा भवति, तत्र तु तस्यास्तत्प्रतिपक्षभूताया नानास्थितिबन्धस्थानात्मिकायाश्च स्थितेः प्रत्येकमेकोऽष्टमभङ्ग एव प्राप्यते, न पुनरन्ये सप्त; यथोघत आयुषः, आदेशतस्तिर्यग्गत्योपादिमार्गणासु ज्ञानावरणादेर्जघन्याऽजघन्यस्थित्योः, एकेन्द्रियोषादिमार्गणासु ज्ञानावरणादेरुत्कृष्टाऽनुत्कृष्टस्थित्योश्चेति दितीया व्याप्तिः ।
यत्र मार्गणादौ तु नानास्थितिवन्धस्थानात्मकस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं न भवति, न वा तत्प्रतिपक्षभूतैकस्थितिबन्धस्थानलक्षणायाः स्थितेर्वन्धका असंख्यलोकाकाशप्रदेशप्रमितास्तदधिका अनन्ता वा, तत्र तु द्विविधस्थित्योस्त्रयस्त्रयो भङ्गा एव सम्पद्यन्ते । तेऽपि एकस्थितिबन्धस्थानात्मकस्थितेश्चतुर्थ-षष्ठा-ऽष्टमभङ्गलक्षणाः, तत्प्रतिपक्षभूतनानास्थितिबन्धस्थानात्मकस्थितेस्तूक्तविपरीतास्तृतीय-सप्तमा--ऽष्टमभङ्गालक्षणास्त्रयः, यथौघतोऽष्टानामपि मूलप्रकृतीनामुत्कृष्टाऽनुत्कृष्ट स्थित्योः क्रमेणेति तृतीया व्याप्तिः।
कुतः एवम् ? इति चेद, उच्यते-यत्र नानास्थितिबन्धस्थानात्मकस्थितेर्बन्धकानां सर्वथाऽभावलक्षणमन्तरं सम्पद्यते, तत्रैकस्थितिवन्धस्थानात्मकस्थितेर्वन्धकानां तु तत् सुतरां सम्पद्यते; नानास्थितिवन्धस्थानात्मकस्थित्यपेक्षयैकस्थितिवन्धस्थानात्मकस्थितेवन्धकानां संख्येयादिभागगतत्वेनस्तोकत्वात् । इत्येवं तत्र मार्गणादौ बन्धकाऽवन्धकपदद्वयस्याऽप्यधवत्वेन तत्तद्वन्धकादीनां सद्भावाऽसद्भावेऽष्टावपि भङ्गाः समुत्पद्यन्ते, आयुर्वर्जसप्तानां नानास्थितिबन्धस्थानात्मका-ऽनुत्कृष्टादिस्थितेर्बन्धकानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं तु प्रस्तुताऽपर्याप्तमनुष्यादिसान्तरमागंणास्वेव लभ्यते, न पुनः शेषमार्गणास्थानेश्वोघे वा, तथा च तास्वेव सप्तानामुत्कृष्टादिस्थितेरष्टावपि भङ्गाः समुत्पद्यन्ते ।
तथाहि-अपर्याप्तमनुष्यमार्गणायां जीवानां सर्वथाऽभावलक्षणान्तरकालस्याक्सिमये द्वावेव जीवावपर्याप्तमनुष्यतया विद्यते, नान्ये । तयोरप्येकेन तदानीं बध्यमानाऽऽयुर्वर्जसप्तमूलप्रकृतीनामुत्कृष्टा स्थितिनिर्वय॑ते, नान्येन, इत्येवं तत्कालमपेक्ष्योत्कृष्टस्थितिबन्धविषये पञ्चमभङ्गः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International