________________
उत्कृष्टा ऽनुत्कृष्टस्थितिबन्धे ]
द्वितीयाधिकारे भङ्गविचयद्वारम्
[ २६१
स्वादष्टमो भङ्गः 'अनेके बन्धगा अनेकेऽवन्धका एवे 'ति । स्यात्सप्तमभङ्गः 'अनेके बन्धका एकोवन्धक एवे 'ति । स्यात्तृतीयभङ्गः 'सर्वे बन्धका एवे 'ति त्रयो भङ्गाः, न पुनरन्ये पञ्चेति ॥ २८९ ॥ देवमिति घटानां मूलप्रकृतीनामुत्कृष्टानुत्कृष्टस्थित्योर्नानाजीवाश्रयो वन्धकाबन्धकनिष्पन्नो भङ्गविचयः । इदानीमादेशतविकथयिषुरादौ तावदायुर्वजनां सप्तानां तमाहअसमत्तणरे विकियभीसे आहार दुग-अवेएस |
सुहुम-उवसमेसु तहा सासण-मीसेसु भङ्गाऽट्ट ||२८२ ॥ जेडियराण टिई आउगवज्जाण अट्टमो भंगो । सव्वे एगिंदि - णिगोअभेएस सेससहुमेसु ॥ २८३ ॥ ( गीतिः) वायर अपज्जपुहवाइचउग- पत्ते अहरिअ-हरिए । सयमुज्झं परिहारे छेए ओघव्व सेसा ॥ २८४ ॥
(प्रे०) “असमत्तणरे” इत्यादि, 'अपर्याप्त नरे' - अपर्याप्तमनुष्यमार्गणास्थाने, तथा वैक्रियमिश्र काययोगमार्गणास्थाने, आहारक- तन्मिश्रकाययोगमार्गणाज्यलक्षण आहारकरिके, 'अवेअ' ति अग वेदमार्गणास्थाने, तथा सूक्ष्मसंपरायसंयमे, अपशमिकसम्यक्त्वे, सासादन-सम्यग्मिथ्यात्वमार्गणास्थानयोश्चेत्येवं समुदितासु नवमार्गणास्थानेषु "भङ्गा" ति उक्तस्वरूपा अष्टावपि भङ्गाः सम्पद्यन्ते । केषां कर्मणां कथम्भूतायाः स्थितेरित्याह - "जेडियराणे "त्यादि, आयुर्वजर्जानां सप्तकर्मणां 'ज्येष्ठायाः ' - उत्कृष्टायाः 'इतरायाः ' - अनुत्कृष्टायाच स्थित्योः । कथम् ? प्रत्येकं मार्गणास्थानानां नानाजीवानाश्रित्य सान्तरत्वात् । उक्तञ्च जीवसमासे मार्गणास्थानेषु जीवानां कादाचित्कसर्वथाऽभावलक्षणमन्तरं प्रदर्शयता ग्रन्थकृता
'पल्लाऽसंखियभागं सासणमिस्सासमत्तमगुएसु । वालपुहुत्तं उवसामएस खत्रगेसु छम्मासा ॥ आहार मिस्साजोगे वासपुहुत्तं विजयमिसेसु । बारस हुति मुहुत्ता सव्वेसु जहणओ समओ' ॥ इति ।
अत्र पाठे क्षपकाणामुपशमकानां चान्तरस्य प्रदर्शितत्वेन स्थितेर्वन्धकानामपगतवेदानां सूक्ष्मसंपरायसंयतानां चान्तरमर्थतो गम्यत एव क्षपकोपशमकान् विद्यायान्येषां स्थितिबन्धकावेदितया सूक्ष्मसम्परायसंयततया वाऽप्राप्तेः । ननु तथाऽपि प्रस्तुताऽपर्याप्तमनुष्यादि मार्गणास्थानेष्वष्टानामपि भङ्गानां सम्भवे, अन्यत्रौघादौ तु तृतीयादीनां सम्भवे, तदन्येषां भङ्गकानां त्वसम्भवे को नाम गमकः ? इति चेद्, तथाविधव्याप्त एव ।
इहोत आदेशच ज्ञानावरणादेरुत्कृष्टादिस्थितौ तत्तद्भङ्गसम्भवाऽसम्भवे इमा व्याप्तय:-- सर्वाः स्थितयो द्विविधस्थितिबन्धेऽन्तर्भवन्ति, तत्रैका सर्वाधिका स्थितिरुत्कृष्टस्थितिबन्धे, एकवर्जाः शेषाः समय- द्विसमय - त्रिसमयादिन्यूनोत्कृष्टा यावज्जघन्याः सर्वा अप्यनुत्कृष्ट स्थितिबन्धे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org