________________
२६० ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतोऽष्टमूलप्रकृतीनाम् तह” त्ति तथाशब्दः समुच्चये । 'सर्वेऽपि बन्धका एवेति तृतीयभङ्गः, न पुनः केचनाऽबन्धका इत्यवन्धकव्यवच्छेदार्थोऽपिशब्दः । एवमुत्तरत्रापि, ततः "सव्वे वि अबंधगा चोत्थो” त्ति 'सर्वेऽबन्धका एवेति चतुर्थो भङ्ग इत्यर्थः । पञ्चमादिभङ्गकानाह-“एगेण बन्धगेण" मित्यादि, एकेन बन्धकेन सह क्रमेण एकोऽबन्धकः, अनेकेऽबन्धकाः । अनेकैर्वन्धकैः सह एकोऽबन्धकः, अनेकेऽबन्धका एवंरूपाः पञ्चमात्योऽष्टमान्ताश्चत्वारो भङ्गाः । तद्यथा-'एको बन्धक एकोऽबन्धक एवेति पञ्चमभङ्गः । 'एको अन्धकोऽनेकेऽवन्धका एवेति षष्ठभङ्गः । 'अनेके बन्धका एकोऽबन्धक एवे ति सप्तमभङ्गः । अनेके बन्धका अनेकेऽवन्धका' इत्यष्टमो भङ्ग इति ।
द्वितीयादिभङगोक्ताबन्धकानामुत्कृष्टादिस्थितिभेदेन स्वरूपं निर्धारयन्नाह-"जे बंधगुक्कसाए" इत्यादि,ये उत्कृष्टायाः स्थितेर्वन्धकास्त एवेतरस्याः-अनुत्कृष्टायाः स्थितेरवन्धका अनुत्कृष्टस्थितिबन्धविषयकाङ्गविचयेऽयन्धकाया गृद्यन्ते, न पुनर्ये स्थितेः सर्वथाऽवन्धकास्तेऽपीति सर्वथाऽनन्धकव्यवच्छेदार्थकमेवकारोपादानम् । तथैव “जेऽणुक्कोसाअ” त्ति चिअशब्दोऽनुवर्तते, ततो येऽनुत्कृष्टायाः स्थितेर्बन्धकास्त एवेतरस्या उत्कृष्टस्थितेरवन्धकाः । अत्रापि पूर्ववद्भावार्थो द्रष्टव्यः । जघन्याजघन्यस्थितिवन्धविषयेऽवन्धकस्वरूपमधारयन्नाह-"जे बंधगा लहुएइत्यादि पूर्ववत्, नवरं "लहुए" ति जघन्याः स्थितेः, "णणए" ति अकारस्य दर्शनाद् अनणव्या: अजघन्याः स्थितेरित्यर्थः ॥२७७-२७८-२०९-२८०॥
___ तदेवं भङ्गलस्वरूपं तत्रोपयोग्यवन्धकस्वरूपं चावधार्य साम्प्रतं ज्ञानावरणादीनामु-कृष्टादिस्थितिवन्धमधिकृत्य सम्भवद्भङ्गान् च्याचिकीर्षु रादौ तावदोघतः प्रतिपादयति
अट्टण्हुक्कोसाए सिआ तुरिय-छट्ट-अट्ठमा भंगा।
अट्ठम-सत्तम-तइआ ऽणुक्कोसाए ठिईए य ॥२८१॥ (प्रे०) “अट्ठण्हुक्कोसाए” इत्यादि, ज्ञानवरणादीनामष्टानामपि मूलप्रकृतीनां प्रत्येकसुत्कृष्टायाः स्थितेः “सिआ तुरिय-छ?-अट्ठमा भंग" ति स्याचतुर्थभङ्गः 'सर्वेऽवन्धका एवे'ति । स्यात्वष्ठभङ्गः ‘एको बन्धकोऽनेके बन्धका एवे' ति । स्यादष्टमभङ्गः 'अनेके बन्धका अनेकेडबन्धका एवेत्येवमोघत उत्कृष्टस्थितेभिन्नभिन्नकालापेक्षया नानाभङ्गानां सम्भवादेकभङ्ग उत्तेोऽप्यन्यभङ्गावकाशायानेकान्तद्योतकं स्यात्पदं प्रत्येकं योज्यमिति भावः । एवमेवोत्तरत्रापि नानाभङ्गसम्भवेऽनुक्तेऽपि स्यात्पदे तद् द्रष्टव्यमिति । ननु ओघतो ज्ञानावरणादीनामुत्कृष्टस्थितेः कथमेते त्रय एव भङ्गाः, न पुनरन्ये पञ्च ? इति चेत् , बन्धकपरिमाणादितथाविवनियमवशाद् , एतदर्थे तथाविधव्याप्तय एव द्रष्टव्याः, तास्त्वनन्तरं मार्गणास्थानेषु भङ्गप्रपञ्चनावसरे दर्शयिश्यामः, तत्र तासां सुज्ञेयत्वादिति । अथाऽष्टानामनुत्कृष्टस्थितेः सम्भवद्भङ्गानाह-"अट्ठमे" त्यादि, 'अट्टण्ह' इत्यनुवर्तते, ततोऽपानामपि ज्ञानावरणादिमूलप्रकृतीनामनुत्कृष्टायाः स्थितेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org