________________
॥ अथ सप्तमं भङ्गविचयद्वारम् ॥
साम्प्रतं‘भंगविचय’इत्यनेनोद्दिष्टस्य भङ्गविचयद्वारस्यावसरः, तत्रादौ तावन्नानाजीवानाश्रित्योत्कृष्टादिस्थितेर्भङ्गादिस्वरूपं निर्धारयितुकाम आह—
गंगा गंधगो खल पढमो विइओ अबंधगो तहओ । सव्वे व बंधगा तह सव्वे वि अगंधगा चोत्थो ॥ २७७॥ एगेण बंधगेणं एगेऽणेगे अबंधगा कमसो ।
गेहि बंधगेहिं सह एवं पंचमाइचऊ || २७८ ॥ जे बंधगुकसाए ठिईअ ते चिअ अबंधगियराए । जेणुक्कोसा टिई बंधगा ते अबंधगिअरार ॥ २७९ ॥ जे बन्धगा लहूए ते चैव अबंधगा अहस्साए । जे बन्धगाऽणणू ते चैव अगंधगा जहण्णा ॥ २८०॥
(प्रे०) "भंगाऽट्ठे "त्यादि, भङ्गाः -विकल्पाः, ते चैकद्रयादिसंयोगनिष्पन्ना वस्तुविकल्पैरनेकधा ग्रन्थान्तरेषु दृश्यन्ते तथाऽवसेयाः । अत्र तु स्थितिबन्धस्य प्रस्तुतत्वादुत्कृष्टादिस्थितीनामेकाकादिवन्धाद्यपेक्षया चिन्त्यमाना अष्टावभिप्रेता इत्युक्तम् - "भंगाऽड" इति । तानेव क्रमतः स्वरूपतश्चाह-"बंधगो खलु पढमो" इत्यादि, 'बंधगो खलु पढमो' त्ति बन्धक इत्यत्रैकवचनस्योपादानात् खलुशब्दस्याऽवधारणार्थत्वाच्च 'एको बन्धक' एवेति प्रथमो भङ्गः । यदा हि ज्ञानाचरणादेरुकृष्टादिस्थितेः कश्विदेकवन्धक एव विद्यते, न पुनरन्यस्तद्वन्धकस्तद्बन्धको वा 'जे बंधगुक्कसाए' इत्यादिना वक्ष्यमाणस्वरूपः । एतादृशः कालविशेपसव्यपेक्षः प्रथमभङ्गः, न पुनरन्येषां बन्धकानामबन्धकानां वा सद्भावकालिकैकवन्धकसत्ताप्रयुक्तः, तदानीमन्येषां बन्धकानामबन्धकानां वा सद्भावेन विभिन्नकालीनतया 'एको बन्धक एव' इति सावधारणभङ्गस्याऽयुज्यमानत्वात् । ननु 'मा युज्यतां सावधारणः प्रथमभङ्गस्तदानीमन्येषां बन्धकाऽबन्धकानामपि सद्भावकाले, अनवधारणस्त्वसौ युज्येत' ? इति चेत्, न, 'अट्ठण्हुकोसाए सिआ तुरिय-छट्ट-अट्टमा भंगा' इत्यादिनौघादिप्ररूपणायां तत्र तत्र चतुर्थषष्ठादिभङ्गानां वक्ष्यमाणत्वेऽपि प्रथमादिभङ्गानामवक्ष्यमाणत्वेनानिटत्वादिति । इत्थमेवोत्तरत्र द्वितीयादिभङ्गेष्वपि यथासम्भवं विभावनीयं स्वधिया ।
Jain Education International
"बिइओ अबंधगो" त्ति 'एकोऽवन्धक एवेति द्वितीयो भङ्गः । तत्रोत्कृष्टादिस्थितिबन्धापेक्षयाऽबन्धकस्वरूपं तु 'जे बंधगुक्कसाए' इत्यादिनाऽनन्तरमेव गाथाद्वयेन ग्रन्थकृता वक्ष्यमाणं प्रतिपक्षस्थितेर्बन्धकलक्षणमेव विज्ञातव्यम् न पुनः सर्वथाऽबन्धकलक्षणमिति । " सव्वे वि बंधगा
For Private & Personal Use Only
www.jainelibrary.org