________________
२५८ ]
बंधविहाणे मूलपयडिठिइबंधो [ आयुषो जघन्यस्थितिबन्धसंनि० ___(प्रे०) "संखेज्जभागअहिया" इत्यादि, अनन्तरवक्ष्यमाणमार्गणासु प्रकृताऽजघन्यस्थितिर्जघन्यस्थितितः संख्येयभागाधिका मार्गणाप्रविष्टाऽसंज्ञिजीवापेक्षया, तथा संख्येयगुणाधिका मार्गणाप्रविष्टसंज्ञिजीवापेक्षया ज्ञातव्या । कास्वित्याह-"पंचिदिये" त्यादि,पञ्चेन्द्रियतिर्यग्मार्गणाभेदचतुष्केऽपर्याप्तपञ्चेन्द्रियभेदेऽपर्याप्तत्रसकायभेदे चेत्यर्थः ।।२७५।। अथ शेषमार्गणासु प्रकृतं दिदर्शयिपुरेकामार्यामाह
णेया सव्वेगिंदियपणकायेसुअसंखभाग-ऽहिया ।
सव्वविगलेसु संखंसहिया सेसासु ओघव्व ॥२७६॥ (प्रे०) “णेया” इत्यादि, प्रकृताऽऽयुषो जघन्यस्थितिबन्धकाले बध्यमाना शेषाणामजघन्या स्थितिज्ञेया । कासु कियतीत्याह-"सव्वेगिंदिये"त्यादि, सर्वशब्दस्य प्रत्येकं योजनात्सर्वेष्वेकेन्द्रियभेदेषु सर्वेषु च पृथिव्यादिवनस्पतिकायान्तपञ्चकायमार्गणासत्कभेदेष्वित्येवं षट्चत्वारिंशन्मार्गणाभेदेषु प्रत्येकम् “असंखभागहिया" त्ति सुगमम् । सव्वविगलेसु संखंसहिया" ति ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु सर्वेषु द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणविकलेन्द्रियभेदेषु संख्यांशाधिका । एतदपि सुगमम् । “सेसासु ओघव्व" ति उक्तशेषासु मनुष्यगत्योघादिद्विचत्वारिंशन्मार्गणासु प्रत्येकमोघवदसंख्यगुणाधिका ज्ञेयेत्यर्थः। ____ अत्र शेषमार्गणा नामत इमाः-मनुष्यगत्योध-पर्याप्तमनुष्य-मानुषी-पञ्चेन्द्रियौघपर्याप्तपञ्चेन्द्रिय-त्रसकायौघ-पर्याप्तत्रसकाय--पञ्चमनोयोग--पञ्चवचोयोग-काययोगसामान्यौ-दारिककाययोग-स्त्यादिवेदत्रय-क्रोधादिचतुःकषाय-मत्यादिचतुर्ज्ञान-सामायिक छेदोपस्थापनसंयम-चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संश्या-ऽऽहारिमार्गणा इति । एतासु प्रत्येकमायुर्वर्जानां जघन्यस्थितिबन्धस्य क्षपकश्रेणी जायमानतयाऽतिस्तोकत्वेन तदपेक्षयैकेन्द्रियादिजीवैरायुर्वन्धकाले निर्वय॑मानशेषकर्मणां जघन्यस्थितिवन्धस्याऽप्यसंख्येयगुणत्वात्प्रकृतसंनिकर्षोऽपि तथैव दर्शित इति ॥२७६॥
तदेवमभिहितः सर्वासां मूलप्रकृतीनां जघन्यस्थितिबन्धसंनिकर्ष आदेशतोऽपि । तस्मिँथाभिहिते गतं "सण्णियासा" इत्यनेनोद्दिष्टं षष्ठं द्वारम् ।।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धेद्वितीयाधिकारे षष्ठं संनिकर्षद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org