________________
मार्गणास्वायुषो जघन्यस्थितेः ] द्वितीयाधिकारे संनिकर्षद्वारम् मिथ्यात्वा-ऽसंत्रिमार्गणासु प्रत्येकं 'त्रिविधा'-त्रिस्थानगता भवति । तामेव दर्शयति-"संखंसहिये" त्यादिना, तत्र "संखंसहिया" इत्यत्रा-कारस्य दर्शनादसंख्यांशाधिका, तत्तन्मार्गणासत्कजघन्यस्थितिबन्धापेक्षयेति प्राग्वदनुक्तमपि द्रष्टव्यम् । इयं हि जघन्यायुर्वन्धकैकेन्द्रियजीवापेक्षया बोद्धव्या । "संखंसहिया य" ति जघन्यस्थितिबन्धापेक्षया संख्यांशाधिका । चकारस्समुच्चयार्थो व्युत्क्रमेण प्रान्ते योज्यः। इयं संख्यांशाधिका तु जघन्यायुर्वन्धकहीन्द्रियादिजीवापेक्षया विभावनीया । “संखगुणअहीया" त्ति जघन्यस्थितिबन्धापेक्षया संख्यगुणाधिका चेत्यर्थः । अत्र तु संख्यगुणाधिक्यं जघन्यायुर्वन्धकसंज्ञिजीवापेक्षया विभावनीयम् , केवलमसंज्ञिमार्गणायां संज्ञिजीवानामप्रवेशात् संख्यगुणाधिक्यं द्वीन्द्रियादिजीवापेक्षया द्रष्टव्यम् । न च द्वीन्द्रियादीनां जघन्यस्थितिवन्धापेक्षयोत्कृष्टः स्थितिबन्धः पल्योपमसंख्येयभागेनाधिको भवति तत्कथं संख्येयगुणत्वं सङ्गच्छेदिति वाच्यम् । प्रकृतमार्गणासत्कजघन्यस्थितिबन्धापेक्षया द्वीन्द्रियादीनां स्थितिबन्धस्य संख्येयगुणत्वाभिधानात् न काचिदसंगतिः, तथैवोपपत्तेः। तथाहि-प्रकृताऽसंज्ञिमार्गणायामेकेन्द्रियजीवानामपि प्रवेशाज्ज्ञानावरणादीनां जघन्यः स्थितिवन्धः सागरोपमस्य पल्योपमासंख्यभागोनत्रिसप्तभागादियः पूर्वमुक्तः, तं प्रकृतमार्गणासत्कजघन्यस्थितिबन्धमपेक्ष्य द्वीन्द्रियादीनामायुर्वन्धकाले जायमानः पञ्चविंशत्यादिसागरोपमाणां पल्योपमसंख्येयभागेन न्यूनस्त्रिसप्तभागादिः स्थितिवन्धः पञ्चविंशत्यादिगुणाधिकः सन् संख्येयगुण एव भवतीति ।।२७२॥
___ अथ यास मार्गणास्वनन्तरोद्दिष्टाऽजघन्यस्थिति धन्यस्थित्यपेक्षया संख्यगुणाधिकैव बध्यते, तासु तथैव दर्शयन्नाह
सव्वणिरयदेवेसु अपज्जमणुसम्मि वेउव्वे ॥२७३॥
आहारदुग-विभंगेसुदेस-परिहार-तेउ-पउमासु।
वेअग-सासाणेसुसंखेज्जगुणेण अमहिया ॥२७४॥ (प्रे०) “सव्वणिरये" इत्यादि, सर्वशब्दस्य प्रत्येकं योजनात् सर्वे निरयगतिमार्गणाभेदाः सर्वे च देवगतिमार्गणाभेदास्तेषु, तथाऽपर्याप्तमनुष्यभेदे, वैक्रियकाययोगभेदे, अन्यभेदान् संग्रहीतुमाह-"आहारे"त्यादि, आहारका-ऽऽहारकमिश्रकाययोगमार्गणयोईिके, विभङ्गज्ञाने, देशसंयमपरिहारविशुद्धिकसंयम-तेजोलेश्या-पद्मलेश्यामार्गणासु तथा क्षायोपशमिकसम्यक्त्व-सासादनयोरित्येतास्वेकोनपञ्चाशन्मार्गणासु प्रत्येकमायुषो जघन्यस्थितिबन्धकाले बध्यमाना शेषाणामजघन्या स्थितिः निरयगत्यादिस्वस्वमार्गणायां बन्धप्रायोग्यजघन्यस्थित्यपेक्षया "संखेज्जगुणेण अब्भहिया" ति संख्येयगुणाभ्यधिका भवतीत्यर्थः। इति ।।२७३-२७४॥ अथान्यत्र प्रकृतमाह
संखेज्जभागअहिया संखेज्जगुणाहिया य णायब्वा । पंचिंदियतिरियचउग-असमत्तपणिदियतसेसु॥२७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org