________________
२५६ ]
बन्धविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुःकर्मणः ___अत्र शेषमार्गणा नामत इमाः सर्वे निरयगतिभेदाः, सर्वेतिर्यग्गतिभेदाः, अपर्याप्तमनुष्यभेदः, सर्वे देवगतिमार्गणाभेदाः, सर्वे एकेन्द्रियभेदाः, सर्वे विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदः, सर्वे पृथिव्यप्तेजोवायुवनस्पतिकायसत्कभेदाः, अपर्याप्तत्रसकायभेदः, औदारिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्र-वैक्रिया-ऽऽहारक-कार्मणकाययोगभेदाः, तथाऽज्ञानत्रय-परिहारविशुद्धिकसंयम-देशसंयमा-ऽसंयम-कृष्णादिपश्चलेश्या-ऽभव्य-क्षायोपशमिकसम्यक्त्व-सासादन-सम्यग्मिथ्यात्व-मिथ्यात्वा-संश्य-ऽनाहारिमार्गणाभेदाश्चेति ॥२६९-२७०॥ अथ शेषस्यायुःकर्मणो जघन्यस्थितिबन्धसंनिकर्ष मार्गणास्थानेषु दर्शयन्नाह
सव्वासु जहण्णठिइं बंधतो आउगस्स णायब्बो।
सत्तण्ह बंधगो चिअ अजहण्णाए चिअ ठिईए ॥२७१॥ (प्रे०) “सव्वासु” इत्यादि, सर्वास्वायुर्वन्धप्रायोग्यासु त्रिपष्ट्युत्तरशतमार्गणासु प्रत्येक "आउगस्स" ति उक्तशेषस्यायुष्कस्य-आयुःकर्मणः “जहण्णठिई" ति प्रागुक्तमार्गणाप्रायोग्यजघन्यस्थितिं वध्नन् ज्ञातव्य इति परेणान्वयः । कथंभूतो ज्ञातव्य इत्याह-"सत्तण्ह बंधगो चिअ" ति शेषाणां सप्तानां ज्ञानावरणादीनां बन्धक एव ज्ञातव्य इत्यर्थः । किं तेषां सप्तानां जघन्यस्थितेर्बन्धको ज्ञातव्य उताऽजघन्यायाः स्थितेरित्याह-"अजहण्णाए चिअ ठिईए" ति ओघवदजघन्याया एव स्थितेः, न पुनर्जघन्यायाः स्थितेरपीत्यर्थः । कुत ? उच्यते, एतासु सर्वमार्गणास्वायुषो जघन्या स्थितिर्निरयायुर्वर्जशेषायुःसत्कैव बध्यते । सात्वशभा इतिकृत्वा संक्लेशेन निर्वयते, आयुर्वर्जानां सप्तानां जघन्यस्थितिस्तु शभा इतिकृत्वा विशद्धया निर्वय॑ते । उक्तञ्च'सव्यठिईणं उक्कोसो उ उक्कोससंकिलेसेण। विवरीप उ जहन्नो आउातिगवजसेसाणं ।' इति ।
अत आयुषो जघन्यस्थितेर्बन्धकः संक्निष्टः सन् शेषाणां जघन्यस्थितिं न बध्नाति, किन्त्वजघन्यामेव बनातीति ।।२७१।। अथायुषो जघन्यस्थितिबन्धकैः सा ज्ञानावरणादीनामजघन्या स्थितिर्जघन्यस्थित्यपेक्षया कियत्यभ्यधिका वध्यत इत्येतद् दिदर्शयिपुराह
सा खलु अजहण्णठिई णायव्वा तिरि-युरालमीसेसु। दुअणाणा-ऽयत-तिअसुहलेसा-ऽभवि-मिच्छ-अमणेसु॥२७२॥
तिविहा-ऽसंखंसहिया संखंसहिया य संखगुणअहिया ॥ (प्रे०) “सा खलु" इत्यादि, तत्र खलु शब्दो वाक्यालङ्कारे, ततः सा खल्वायुषो जघन्यस्थितिबन्धकाले तद्वन्धकेन निर्वत्यमाना सप्तानाम् "अजहण्णठिई णायव्वा” त्ति अजघन्या स्थितिख़तव्या। कासु मार्गणासु कीयतीत्याह-"तिरियुराले" त्यादि, “तिविहा" इत्यादि च, तिर्यग्गत्योधौ-दारिकमिश्रकाययोग-मत्यज्ञान-श्रुताज्ञाना--ऽसंयम-कृष्णादिव्यशुभलेश्या-ऽभव्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only