________________
मार्गणास्त्रायुषोजघन्यस्थितिबन्धसंनि० ] द्वितीयाधिकारे संनिकर्षद्वारम्
[ २५५ स्थितिमेव बध्नाति, न पुनरजघन्यामिति भावः । “उगं ण" ति विश्लेशप्राप्तस्याऽऽकारस्य दर्शनादायुपः-आयुःकर्मणो न । तदानी क्षपकश्रेणावायुर्बन्धस्याऽसम्भवादायुःकर्म नैव वध्नातीति भावः । “छण्हेवं" ति ‘एवं'- यथा ज्ञानावरणस्य जघन्यस्थितिबन्धसंनिकर्षस्तथा षण्णां दर्शनावरणादीनामपि जघन्यस्थितिबन्धसंनिकर्षः, वक्तव्य इति शेषः । कासु मार्गणास्वित्याह-"वेअकसायतिगे"त्यादि, त्रिकशब्दस्य वेदकषाययोः प्रत्येकं योजनाद् वेदत्रिके-स्ठ्यादिषु त्रिसृषु वेदमार्गणास, कपायत्रिके-क्रोधादिषु तिसृषु कपायमार्गणास्वित्यर्थः । तथा “सामइअछेए” त्ति सामायिकसंयम-छेदोपस्थापनसंयममार्गणयोरित्येतास्वष्टमार्गणास प्रत्येकभित्यर्थः । अत्र युक्तिस्तु पातनयव दर्शितेति ॥२६८॥ अथ शेषमार्गणास्वायुर्वर्जानां सप्तानामेव जघन्यस्थितिबन्धसंनिकर्षमाह
सेसासु जहण्णठिणाणावरणस्स बंधमाणो उ। बंधइ चिअ छण्ह ठिइं जहण्णगं व अजहण्णं वा ॥२६९॥ हस्साउ सा अहस्सा समयाउ पलियअसंखभागेणं ।
अब्भहिया-55 णो चिअ बंधइ एमेव छण्ह भवे ॥२७०॥ (प्रे०) “सेसासु जहण्णठिई” इत्यादि, अनन्तरं “तिणरे" त्यादिनाऽभिहिताः सप्तत्रिंशन्मार्गणास्तथा "वेअकसाय" इत्यादिनोक्ता अष्ट मार्गणाश्च विहाय शेषासु पञ्चविंशत्यभ्यधिकशतमार्गणास प्रत्येकं ज्ञानावरणस्य जघन्यस्थिति बनन् 'तु'-पुनः “बंधइ चिअ छह ठिई" ति षण्णां दर्शनावरणादीनां ज्ञानावरणायुर्वर्जानां स्थिति बध्नात्येव, न पुनरायुष इव न बध्नात्यपीति भावः । “जहण्णगं व अजहणणं वा" ति तां च षण्णां दर्शनावरणादीनां स्थिति जघन्यकां वाऽजघन्यां वाऽन्यतरप्रकारां, बध्नातीत्यनुवर्तते। अत्राजघन्याः स्थितेवहुभेदमिन्नत्वात् सा कियन्मानेत्याशङ्कायामाह-"हस्साउ सा अहस्सः” इत्यादि, सा प्रकृतमागंणासु ज्ञानावरणस्य जघन्यस्थितिवन्धकाले तदबन्धकेन निर्वय॑मानाऽहस्वा-ऽजधन्याः स्थितिः "हस्साउ” त्ति 'हस्वायाः' -जघन्यायाः स्थितेः “समाउ पलियअसंखभागेणं" ति समयादारभ्य पल्योपमस्थाऽसंख्येयतमैक मागेन, अभ्यधिकेति गाथोतरार्धेऽन्वयः । भवतीतिशेषः । गतार्थम् । “उ णो चिअ बंधइ" ति प्राग्वद् विश्लेषप्राप्तस्याऽऽकारस्य दर्शनादायुः-आयुःकर्म नैव बध्नाति, स ज्ञानावरणस्य जघन्यस्थितिबन्धक इति गम्यते । “एमेव" त्ति एवमेव'- यथैतासु ज्ञानावरणस्य जघन्यस्थितिबन्धसंनिकर्षोऽभिहि स्तिथैव "छण्ह भवे" ति आयुर्वर्जानां शेषषण्णां दर्शनावरणादीनां जयन्यस्थितिबन्धसंनिकर्षों 'भवे ।'- कव्यो भवेत् । प्राग्वद् दर्शनावरणादि प्रत्येकं कर्मादाय स्वयमेव वक्तव्य इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org