________________
२५० ]
बंधाणे मूलपय डिठिइबंधो [ ओघादेशतो मूलाष्टकर्मणाम् तदेवमुक्त ओवत आदेशतश्वोभयथाऽपि सर्वासां मूलप्रकृतीनामुत्कृष्टस्थितिबन्धसंनिकर्ष: । साम्प्रतं जघन्यस्थितिबन्धविषयं तं प्रचिकटयिपुरादौ तावदोघत आहपढमस्स जहण्णठिडं बंधतो बंध च्च पंचण्हं ।
तं चित्र, अगंधगो खलु दोन्हं, एमेव पंचन्हं ॥ २६३॥
(प्रे० ) " पढमस्स जहण्णठि "मित्यादि, प्रथमस्य ज्ञानावरणाख्यस्य मूलकर्मणो जघन्यां स्थितिं बघ्नन् कचिदपि जीवः “बंब चव पंचप" ति मोहनीयायुर्वजनां पञ्चानां बध्नात्येव । कामित्याह-"तं चिअ" तामेव, जघन्यां स्थितिमेवेत्यर्थः । मोहनीयायुषोस्तर्हि किमि - त्याह- "अबंधगो खलु दोपह" ति शेोमहनीयायुषो योरवन्धक एवेत्यर्थः । सुगमं चैतत्, ज्ञानावरणस्यौधिकजघन्यस्थितिबन्धस्य सूक्ष्मसम्परायगुणस्थाने भावात् तत्र च मोहनीयायुर्वजनां षण्णां मूलप्रकृतीनामेव बन्धस्य प्रवर्तनाच्चेति । अथ दर्शनावरणादीन्यधिकृत्याह - "एमेव पंचहं” ति सुगमम् । नवरं शेषेभ्यो मोहनीयायुर्वजानां पञ्चानां मूलप्रकृतीनामित्यर्थं इति || २६३।। अथ मोहनीयस्य जयन्यस्थितिबन्धसंनिकर्षमोघत आह
मोहस्स जहण्णठिइं बंधतो बंधगो च्च छह भवे । संखगुणान्भहियाए अजहण्णाए चिअ ठिईए || २६४॥
(प्रे०) "मोहस्स जहण्णठिइ" मित्यादि, मोहनीयस्याधिकजघन्यस्थितिं बध्नन् जीव आयुर्वजानां शेषाणां षण्णां वन्धको भवेदेव | मोहनीवबन्धविच्छेदात् पचादेव ज्ञानावरणादीनां बन्धविच्छेदादिति भावः । स्थितेस्तु तेषां पण्णामपि स्वीयस्वीयजघन्यस्थित्यपेक्षया "संखगुणाभहियाए अजहण्णाए चिऊ” त्ति संख्येयगुणाभ्यधिकाया अजघन्याया एव, बन्धक इत्यनुवर्तते । सुगमं चैतत् ६पकसूक्ष्मसम्परायचरमस्थितिबन्धापेक्षया रूपकानिवृत्तिवादरस्य विशुद्धेः स्तोकतया संख्येयगुणाभ्यधिकस्थितिबन्ध भावादिति ॥ २६४॥ |
अथ शेषस्याssयुः कर्मणः प्रकृतसंनिकर्षमोघतः प्राह
आउस्स जहण्णठिडं बंधतो बंधगो च्च सत्तण्हं । अजहष्णठिईए चित्र होज असंखगुणअहियाए ॥२६५॥
(प्रे० ) " आउस्से "त्यादि, सुगमम्, नवरमायुप औधिकजघन्यस्थितिर्मिथ्यात्वावस्थायामेव वध्यते, मिथ्यात्व गुणस्थाने च ज्ञानावरणादीनां जघन्योऽपि स्थितिबन्ध एकेन्द्रियस्वामिकः सन् सागरोपमत्रिसप्तभागादिप्रमाण एव स च ज्ञानावरणादीनामौधिकजघन्यस्थितिबन्धापेक्षयाऽसंख्यगुणाभ्यधिक एवेति कृत्वा "असंखगुणअहियाए" इत्यभिहितमिति ॥ २६५ ॥
तदेवमभिहितोऽष्टानामपि मूलकर्मणां प्रत्येकं जघन्यस्थितिबन्धसंनिकर्ष ओघतः । इदानीमादेशतोऽभिधित्सुर्लाघवार्थं कतिपय मार्गणास्वतिदेशद्वारेणाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org