________________
उत्कृष्टस्थितिबन्धसंनिकर्ष: ]
द्वितीयाधिकारे संनिकर्ष द्वारम्
[ २४९
मार्गणाभेदेषु प्रत्येकं सा सप्तकर्मणामनुत्कृष्ट स्थितिरुत्कृष्टस्थित्यपेक्षया संख्येयांशोना बध्यते, विकलेन्द्रियेषूत्कृष्टस्थितिबन्धापेक्षया जघन्यस्थितिबन्धस्यापि पल्योपमसंख्येयभागमात्र न्यून भावात् । ननु तथा सति विकलेन्द्रियाणां प्रकृतबन्धः संख्येयगुणहीनायाः स्थितेर्मा भवतु, असंख्येयभागहीनायास्तु स्थितेर्भवेदसौ ? इति चेद्र, न, शुभायुष उत्कृष्ट स्थितिबन्धकाले विशुद्धतरा एते विकलेन्द्रियाः ज्ञानावरणादीनां स्ववन्धप्रायोग्योत्कृष्टस्थित्यपेक्षया संख्येयभागहीनामेव स्थितिं बध्नन्ति न पुनस्ततोऽधिकामसंख्येयभागमात्रहीनामिति ।
"सेसासु" त्ति 'सव्वणिरये' त्यादिनाऽनन्तरोक्तविंशत्युत्तरशतमार्गणाभ्यः 'सव्वेगिदिये ' त्यादिनोक्तषट्चत्वारिंशन्मार्गणास्तथा 'सव्वविगले' त्यादिनाऽनुपदमुक्ताः नवमार्गणा विहाय शेषासु सर्वनरक- सर्वदेवा-पर्याप्ततिर्यक्पञ्चेन्द्रिया-पर्याप्त मनुष्याऽपर्याप्तपञ्चेन्द्रिया-पर्याप्तत्र सौदारिक मिश्र - वैक्रियमिश्रा ऽऽहारकमिश्रकाययोग-मत्यादिचतुर्ज्ञान-संयमौघ-सामयिक - छेदोपस्थापनपरिहारविशुद्धिक- देशसंयमाऽवधिदर्शन- नीलादिपञ्चलेश्या सम्यक्त्वसामान्य क्षायोपशमिकसम्यक्त्वक्षायिकसम्यक्त्व - सासादनरूपासु पञ्चषष्टिमार्गणासु "संखगुणहोणा" ति उत्कृष्टस्थितिकायुबन्धका बध्यमाना सप्तकर्मणामनुत्कृष्टा स्थितिः संख्येयगुणहीना एव बध्यते । अत्रापि हेतु: पूर्ववद् द्रष्टव्य इति ॥२६१॥ तदेवमुक्तो नरकगत्योघादिमार्गणास्त्रौधिकसंनिकर्षापेक्षया विशेषः । साम्प्रतमसंज्ञिमार्गणायां तं दर्शयन्नाह -
अमणे उक्कोसटिडं बंधतो आउगस्स सत्तण्हं ।
बंध दुहिजे संसूणं असंखभागूणं ॥ २६२ ॥ (गोतिः)
(प्रे०) "अमणे" इत्यादि, प्राग्वदसंज्ञिमार्गणायामायुष उत्कृष्टां स्थितिं बध्नन् जीवः शेषसप्तकर्मणां 'द्विविधाम्' -द्विविधान्यतरां, संख्येयांशोनाम संख्यभागोनां वाऽनुत्कृष्टस्थितिं बध्नातीति भावः । अत्र यद्यप्यसंज्ञिनामुत्कष्टस्थितिबन्धापेक्षया जघन्यस्थितिबन्धी विकलेन्द्रियवत्संख्येयभागन्यूनोऽतस्तथैव वक्तव्यो भवति, तथाऽप्यसंज्ञिनो नारकायुरपि बध्नन्ति तच्चाशुभम् अतस्तस्योत्कृष्टां स्थितिं बध्नन्तस्तत्स्वामिनः संक्लिष्टाः तथा च तदानीं शेषज्ञानावरणादीनामसंख्येय भागमात्र हीनामेव स्थिति निर्वर्तयन्तीति संख्येयांशोनामित्यप्यभिहितमिति । इत्थं ह्यतिदिष्टार्थविषयकापवादपदेषु परिसमातेषु केवलं त्रिचत्वारिंशन्मार्गणास्वेव सर्वथोघवदवशिष्टम् । ताथ त्रिचत्वारिंशन्मार्गणा इमाः - - अपर्याप्तपञ्चेन्द्रियभेदवर्जाश्चत्वारस्तिर्यग्गतिभेदाः तथैवापर्याप्तभेदवर्जास्त्रयो मनुष्यगतिभेदाः, द्वौ पञ्चेन्द्रियभेदौ, द्वौ कायभेदौ, तथा पञ्चमनोयोग-पञ्चवचोयोग- काययोगसामान्यौ-दारिककाययोग स्त्रीवेद-पु' वेद- नपुंसक वेद-क्रोधादिचतुः कषाय-मत्यज्ञानादित्र्यज्ञाना-संयम-चक्षुदर्शना-ऽचक्षुर्दर्शन- कृष्णलेश्या-भव्या-भव्य- मिथ्यात्व-संज्ञ्य ऽसंज्ञयाऽऽहारिमार्गणाभेदाश्चेति । अत्राप्यसंज्ञिमार्गणाभेद आयुष उत्कृष्ट स्थितिबन्धसंनिकर्षे विशेस्याऽभिहितत्वात् तत्र सर्वथौघवत्तु सप्तकर्मणामुत्कृष्ट स्थितिबन्धसंनिकर्षविषय एवेति ॥ २६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org