________________
२४८
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुःकर्मणः संयमे, परिहारविशुद्धिकसंयन-देशसंयमा-ऽवधिदर्शनमार्गणासु, कृष्णलेशावर्जासु नीलादिषु पञ्चसु लेश्यामार्गणासु, सम्यक्त्वौघ-क्षायिकसम्यक्त्व-वेदकसम्यक्त्वेषु सासादने चेत्यर्थः । ननु कस्मादेतासु निरगत्योघादिमार्गणासु सप्तानामुत्कृष्टस्थितिं बध्नन् जीव आयु¥वबध्नाति ? उच्यतेनीलकापोतलेश्यामार्गणे विहायैतासु प्रत्येकं शुभस्य नरकभिन्नायुष एव बन्धभावात् , तस्य च शुभत्वेन विशुद्धिप्रत्ययत्वात्सप्तानामुत्कृष्ट स्थितिवन्धकैः संक्लिष्टाध्यक्षायै वैस्तद्वन्धो न क्रियते, नीलकापोतलेश्ययोरपि सप्तानामुत्कृष्टस्थितिवन्धस्वामिनो मनुष्यास्तिरवो वा न भवन्ति, कृष्णलेश्यायां सत्यामेव तैः सप्तानामुत्कृष्टस्थितिवन्धस्य निर्वर्तनात् । शेष जीवानां तु निरयायुर्वन्धप्रायोग्यमेव नास्ति, निरयायुर्वर्णानि शेषायुपि तु शुभानीतिकृत्वोत्कृष्टस्थितिबन्धप्रायोग्यसंक्लेशगतेस्तैस्तदानीं न निर्वय॑न्ते । इत्थं हि नील-कापोतलेश्यामागंणयोरपि सप्तानामुत्कृष्टस्थितिबन्धकैरायुर्वन्धो न क्रियत एवेति ॥२५७-२५८-२५९।। प्रकृतमार्गणास्वेवोत्कृष्टस्थितिकायुर्वन्धे शेषकर्मणां स्थितिबन्धसंनिकपमाह
एआसुक्कोसठिइं बंधतो आउगस्स होएज्जा।
सत्तण्ह बंधगो चिअऽणुक्कोसाए चिअ ठिईए ॥२६०॥ (प्रे०) "एआसुकोसठिइमि"त्यादि, अनन्तरोक्तनरकगत्योघादिविंशत्युत्तरशतमार्गणास्वायुष उत्कृष्टस्थितिं बध्नन् जीवः शेषसप्तकर्मणामनुत्कृष्टस्थितेरेव बन्धक एव, न पुनरुत्कटस्थितेर्बन्धकः सप्तकर्मणामबन्धको वेत्यभिप्रायकमेवकारद्वयोपादानम् । गतार्थ चैतत् , प्रकृतमार्गणास्वनन्तरमेव सप्तकर्मणामुत्कृष्ट स्थितिवन्धं कुर्वतामायुर्वन्धस्य निषेधेनायुर्वन्धकाले सप्तकर्मणामुत्कष्टस्थितिबन्धस्याऽप्यान्निषिद्धत्वात् । सप्तकर्मणामुत्कष्टास्थितिवन्धाभावेऽनुत्कृष्ट स्थितिबन्धस्तु तस्य भवत्येवेति तु सुखेन गम्यते, सूक्ष्मसम्परायगुणस्थानं यावत्प्रकृतिवन्धभावे स्थितिबन्धस्यापि नियमेन भावात् , आयुर्वन्धकानामष्ट मूलप्रकृतिबन्धस्वामित्वस्याभिहितत्वाच्चेति ।।२६०॥ ___ तदेवमायुषो उत्कृष्टस्थितिं बध्नन् जीवः शेषकर्मणामनुत्कृष्टस्थितिमेव बध्नातीत्युक्ते साऽनुत्कृष्टा स्थितिः कीवती ? उत्कृष्टापेक्षया संख्येयभागेन हीनोतान्यथा वेति जिज्ञासां निरसितुमाह
मा खलु सव्वेगिंदियपणकायेसु असंखभागूणा ।
सव्वविगलेसु संखंसुणा, सेसासु संखगुणहीणा ॥२६१॥ (प्रे०) “सा खलु सव्वेगिंदिये" त्यादि, साऽनन्तरोक्तसप्तकर्मणामनुत्कृष्टा स्थितिः खलु सर्वेष्वेकेन्द्रिय-पृथिव्यादिपञ्चकायसत्केषु षट्चत्वारिंशदपि मार्गणाभेदेषु प्रत्येकं बन्धप्रायोग्योत्कृष्टस्थितिबन्धापेक्षयाऽसंख्यभागोनैव वध्यते, न पुनः संख्येयभागादिहीना । कुतः ? प्रकृतमार्गणागतजीवानामेकेन्द्रियतयोत्कृष्टस्थितिबन्धापेक्षया जघन्यस्यापि स्थितिबन्धस्य पल्योपमाऽसंख्येयभागमात्रेण हीनत्वादिति । “सव्वविगलेसु संखंसूणा" ति विकलेन्द्रियसत्केषु नव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |