________________
उत्कृष्टस्थितिबन्धसंनिकर्षः] - द्वितीयाधिकारे संनिकर्पद्वारम्
[ २४७ नियताध्यवसायास्तेषामेव सद्भावः; तथा च सत्येकस्योत्कृष्टस्थितिवन्धे तच्छेषाणामपि कर्मणामुत्कृष्ट एव स्थितिबन्धो जायते, अत उक्तम्-"जेठाअ बंधगो चिअ सेसाण"मिति, तत्र चिअशब्दो एक्कारार्थकोऽनुत्कृष्टस्थितिवन्धव्यवच्छेदार्थमुपात्त इति । इत्थमेव सूक्ष्मसम्परायसंयममार्गणायामपि द्रष्टव्यम् , नवरं तत्र बध्यमानषकर्मविषय एव, न तु मोहनीयविषयेऽपि, ‘एमेव सेसाणे' त्यनेन बध्यमानशेषाणां विवक्षितत्वादिति ।।२५६। अथ मार्गणान्तरेष्वपवदन्नाह--
सत्तण्हुक्कोसठिइं बंधतो बंधए ण चेवाउं । सव्वणिरय-सुरि-गिदिय-विगलिंदिय-पंचकायेसु॥२५७॥ असमत्तपणिदितिरिय-मणुस-पणिदि-तस-उरलमीसेसु। विउवे आहारदुगे णाणचउग-संयमेसु च ॥२५८॥ सामाइअ-छेएसुपरिहारविसुद्धि-देस-ओहीसु।
णीलाईसुपंचसु सम्म-खइअ-बेअगेसु सासाणे ॥२५९॥ (गोतिः)
(प्रे०) “सत्तण्हुक्कोसठिइ"मित्यादि, अनुपदम् “सव्वणिरय” इत्यादिसार्धगाथाद्वयेन वक्ष्यमाणनिरयगत्यादिविंशत्यभ्यधिकशतमार्गणाभेदेष्वायुर्वानां सप्तानां कर्मणामुत्कृष्टस्थितिं बध्नन् जीवः "बंधए ण चेवाउँ" ति आयुःकर्म नैव बध्नीयात् । अयम्भावः-ज्ञानावरणस्योत्कृष्टां स्थितिं बध्नन् दर्शनावरणादीनां षण्णां मूलप्रकृतीनामेव बन्धं करोति, न पुनरोघवदायुषोऽपि, अतो ज्ञानावरणस्योत्कृष्टस्थितिबन्धकाले तदन्येपामायुर्वर्जानां षण्णामेवाघवदुत्कृष्टाया वाऽनुत्कृटाया वा स्थितेर्बन्धक इति विशेषेण द्रष्टव्यम् । एवं दर्शनावरणस्योत्कृष्टस्थिति बनन् ज्ञानावरणादीनामायुर्वर्जानां षण्णामुत्कृष्टाया वाऽनुत्कृष्टाया वा स्थितेर्बन्धको भवतीति विशेषेण द्रष्टव्यम् । एवमेव वेदनीयादीन्यधिकृत्याऽपि विशेषतो द्रष्टव्यम् । आयुष उत्कृष्टस्थिति बध्नन् शेषाणां सप्तानामुत्कृष्टामनुत्कृष्टां वा यादृशी स्थितिं बध्नाति तादृशीं तु ग्रन्थकारः स्वयमेव “एआसुक्कोसठि बंधतो आउगस्स होएज्जा" इत्यादिनाऽनन्तरं दर्शयिष्यतीत्यत्र न द्रष्टव्यमिति । ___निरयगत्यादिमार्गणाभेदानेवाह-"सव्वणिरये" त्यादिना, तत्राद्यस्य सर्वशब्दस्य प्रत्येक योजनात् सर्वेषु निरयगतिमार्गणाभेदेषु, सर्वेषु सुरगतिभेदेषु, सर्वेष्वेकेन्द्रियभेदेषु, सर्वेषु द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियजातिलक्षणविकलेन्द्रियभेदेषु सर्वेषु पृथिव्यादिवनस्पतिकायान्तपञ्चकायमार्गणासत्कभेदेष्वित्यर्थः । तथा "असमत्ते"त्यादि, अत्राप्यपर्याप्ताऽपरपर्यायस्याऽसमाप्तशब्दस्य त्रसान्तेषु प्रत्येकं योजनादपर्याप्तपञ्चेन्द्रियतिर्यग्भेदे, अपर्याप्तमनुष्यभेदे, अपर्याप्तपञ्चेन्द्रियभेदे, अपर्याप्तत्रसभेदे चेत्यर्थः । तथौदारिकमिश्रकाययोगे, वैक्रियकाययोगे, आहारका-ऽऽहारकमिश्रकाययोगयोदिके, मत्यादिषु चतुर्षु ज्ञानेषु, संयमौघ-सामयिकसंयमयोः, छेदोपस्थापन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |