________________
२४६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वष्टमूलप्रकृतीनाम् वरणादिमूलकर्मसत्कोत्कृष्टानुत्कृष्टस्थितिबन्धसंनिकर्पोऽनन्तरोक्तौधिकसनिकविज्ज्ञातव्य इत्यर्थः । अयं ह्यतिदेशः सामान्यतो बहुदेशसादृश्यमाश्रित्य वेदितव्यः । कुतः ? अनुपदमेव तत्रातिदिष्टार्थे कतिपयमार्गणास्त्रपवादस्थानानां दर्शनीयत्वात् । अपवादस्थानान्येव दर्शयन्नाह-"णपरि' इत्यादि, तत्राद्यम्-'बन्धो आउस्स णो विउवमोसे" इत्यादि, वैक्रियमिश्र-कामणकाययोगा-ऽपगतवेदसूक्ष्मसम्परायसंयमौ-पशमिकसम्यक्त्व-मिश्रदृष्टय-ऽनाहारकरूपासु सप्तमार्गणास्वायुःकर्मणो बन्यो न भवत्यतस्तासु सप्तकर्मणां प्रत्येकमुत्कृष्टस्थितिं बध्नन् जीव आयुषोऽवन्धक एवेति विशेषतो द्रष्टव्यम् , न पुनरोघवदायुषो बन्धकोऽबन्धको वेत्यादि । तथाऽऽयुष उत्कृष्टस्थितिं वध्नन् जीवः शेषसप्तकर्मणां बन्धक एवेत्यादि यदोघोक्तं तदपि न वक्तव्यम् , एतासु मार्गणास्वायुष एवाबन्धात् ।
अत्रेदमवधेयम्--मार्गणास्थानेष्वोधवत्कृतेऽतिदेशे वचनसाम्यमेव, न पुनः पदार्थसाम्यम् , अत उत्कृष्टस्थितिबन्धस्थाने सर्वत्रौधिकोत्कृष्टस्थितिवन्धो न धर्तव्यः, किन्तु तत्तन्मार्गणापेक्षया यावानुत्कृष्टस्थितिबन्ध उक्तस्तावानेव ग्राह्यः तदपेक्षया चानुत्कृष्टस्थितिबन्धस्याऽसंख्यभागादिहीनत्वादिकं द्रष्टव्यम् । इत्थं हि वैक्रियमिश्रकाययोगमार्गणायामायुबन्धस्य निषेधात् तद्वर्जशेषमोघवद । अर्थात्-प्रथमस्य ज्ञानावरणस्योत्कृटां स्थिति वैक्रियमिश्रकाययोगमार्गणायां बन्धप्रायोग्यामन्त:कोटीकोटीसागरोपमप्रमाणां वध्नन् तत्स्वामी दर्शनावरणादीनामायुर्वर्जशेषाणां षण्णां कर्मणामुत्कृटाया वाऽनुत्कृष्टाया वा स्थितेनियमेन पन्धको भवति । तत्र दर्शनावरणादीनामुत्कृष्टस्थितिः प्रकृतमार्गणापेक्षया याऽन्तःकोटिकोटिसागरोपमप्रमाणा तां बध्नाति, अनुत्कृष्टां त्वन्तःकोटीकोटीसागरोपमप्रमाणोत्कृष्टरिथत्यपेक्षया समयादिना हीनां यावत्पल्योपमासंख्यभागेन हीनां बध्नाति । यथा ज्ञानावरणोत्कृष्टस्थितिं बध्नन् शेषकर्मणामुत्कृष्टं स्थितिबन्धं करोति, तथा दर्शनावरणोत्कृष्टस्थिति बन्धन् ज्ञानावरणादिशेषषट्कर्मणामुत्कृष्टस्थितिबन्धं करोति; इत्येवं वेदनीयादिकर्मादाय प्रत्येकं संनिकर्षो द्रष्टव्यः, इत्थमेव शेषामु कार्मणकाययोगादिमार्गणामूत्तरत्र च मार्गणाप्रायोग्यं तत्तत्कर्मसत्कोत्कृष्टादिस्थितिबन्धमाश्रित्य तत्तन्मार्गणासु भावनीयमिति ।। २५५ ।। अथापगतवेद-मूक्ष्मसम्परायसंयममार्गणयोरन्यदप्यपवादस्थानमाह
पढमस्मुक्कोसठिई बंधंतोऽवगयवेअसुहुमेसु।
जेट्टाअ बंधगो चिअ सेसाणेमेव सेसाणं ॥२५६॥ (प्रे०) “पढमस्से"त्यादि गतार्थम् , नवरमपगतवेदमार्गणायां सूक्ष्मसम्परायमार्गणायां चोभयत्रोत्कृष्टस्थितिबन्ध उपशमश्रेणी लभ्यते, स चापगतवेदमार्गणायां बध्यमानानामायुर्वर्जानां प्रतिनियतैरध्यवसायविशेषैरेव भवति । कुतः ? अनिवृत्तिकरणादारभ्यो प्रतिनियतैरध्यवसायविशेषः प्रतिनियतस्थितिबन्धविशेषाणां निवृत्तेः । अतो यदा एकस्य ज्ञानावरणादेरुत्कृष्टस्थितिबन्ध प्रायोग्याध्यवसायो वर्तते, तदा तदन्येषां दर्शनावरणादीनामुत्कृष्टस्थितिबन्धप्रायोग्या ये प्रति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org