________________
मार्गणास्वष्टानामुस्कृष्टस्थितिबन्धे ] - द्वितीयाधिकारे संनिकर्षद्वारम्
[ २४५ स्थितेर्बन्धको वाऽबन्धको वा भवति, तथैव "छण्ह कम्माण" ति ज्ञानावरणीयायुर्वर्जानां षण्णां दर्शनावरणीयादिकर्मणां प्रत्येकमुत्कृष्टस्थिति बनन् जीयोऽपि शेषाणां ज्ञानावरणीयादीनां पण्णामायुषश्च यथोक्तप्रमाणोत्कृष्टादिस्थितेर्बन्धकोऽबन्धको वा भवतीति भावः । विशेषतस्तु प्रतिकर्म स्वयमेव योजनीयमिति ।।२५२।। सम्प्रत्यायुष उत्कृष्टस्थितिबन्धे शेषकर्मणां स्थितिबन्धसंनिकर्षमाह
आउस्सुकोसठिइं बंधतो बंधगो च होएजा।
उक्कोसाअ ठिईएऽणुक्कोसाअ व सत्तण्ह।२५३॥ (प्रे०) “आउस्सुक्कोसठिइ"मित्यादि, आयुप उत्कृष्टां स्थितिं बध्नन् जीवस्तु “बंधगोच होएज्जा" त्ति अस्य 'सत्ताह' इति परेणान्वयस्ततः शेषसप्तकर्मणां बन्धक एव भवेत् , न पुनरवन्धकः । स्थितेस्तु तेषां शेषसप्तकर्मणामुत्कृष्टाया अनुत्कृष्टाया वा बन्धक एव भवेत् , उत्कृष्टानुत्कृष्टस्थित्योरन्यतरस्याः स्थितेत्रन्धको भवतीति भावः; सकषायजीवानां प्रकृतिबन्धभावे स्थितिबन्धस्य नियमतो भावादिति ।।२५३।। अनन्तरगाथायामायुष उत्कृष्टस्थितेर्बन्धकः शेषाणामुत्कृष्टामनुत्कृष्टां वा स्थिति बध्नातीति विकल्पितम् , अतस्तत्रानुत्कृष्टा स्थितिः किमुत्कृष्टापेक्षयाऽसंख्यभागहीना उत संख्येयभागहीनाऽसंख्येयादिबद्भागै; हीना बध्यत इति जिज्ञासायामाह
सा य अणुक्कोसठिई तिविहा णेया असंखभागूणा ।
संखेजभागहीणा तहा य संखेज्जगुणहीणा ॥२५४॥ (प्रे०) “सा य अणुक्कोसठिई" त्यादि, सा चापुष उत्कृष्टस्थितिबन्धकाले निर्व~माना ज्ञानावरणादीनामनुत्कृष्टस्थितिः "तिविहा"त्रिविधा'-अनुपदं वक्ष्यमाणत्रिस्थानपतिता ज्ञेया। त्रैविध्यमेवाह-"असंखभागे"त्यादिना, स्वीयस्वीयोघोत्कृष्टस्थितिबन्धापेक्षयाऽसंख्येयतमभागेनोना, संख्येयतमभागेन हीना, संख्येयगुणहीना,-संख्येयैर्बहुभिर्भागैहींना वेत्यर्थः । इयं हि त्रिविधाऽपि स्थितिर्निरयायुर्वनन्तो जीवानपेक्ष्य विज्ञेया, न पुनर्देवायुर्वघ्नन्तः, देवायुर्वघ्नतां जीवानां विशुद्धाध्यवसायतया ज्ञानावरणादेः संख्येयगुणहीनोत्कृष्टस्थितिबन्धस्यैव भावादिति ॥२५४॥
तदेवमोघतोऽष्टानामपि मूलकर्मणामुत्कृष्टस्थितिबन्धसन्निकर्षमभिधाय सम्प्रति तेषामेवाऽऽदेशतो निरयगत्योधादिमार्गणास्थानेषु तमभिधित्सुराह
एवं सब्वासु णवरि बंधो आउस्स णो विउवमीसे ।
कम्मण-गयवेअ-सुहुम-उवसम-मीसेसु णाहारे ॥२५५॥ (प्रे०) "एवं सव्वासु" इत्याद, एवंशब्दस्य सादृश्यार्थकत्वेन सर्वासु मार्गणासु ज्ञाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org