________________
२४४ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघत उत्कृष्टस्थितिबन्धसंनि० ऽप्यूना । इत्थमेव वेदनीयकर्मणोऽन्तरायकर्मणोऽनुत्कृष्टस्थितिबन्धविषयेऽपि द्रष्टव्यम् , मोहनीयस्य त्वनुत्कृष्टस्थितिबन्धस्तदीयौधिकसप्ततिकोटीकोटीप्रमाणोत्कृष्टस्थितिबन्धमपेक्ष्य समयादिना हीनो यावत्पल्योपमस्यासंख्यभागेन हीनसप्ततिकोटीकोटीप्रमाणो जायत इति द्रष्टव्यम् । एवमेव नामगोत्रयोरपि स्वकीयौधिकोत्कृष्टस्थितिबन्धप्रमाणमपेक्ष्याभिधातव्यमिति ।।२५१॥ तदेवं ज्ञानावरणीयस्योत्कृष्टस्थितिबन्धे जायमाने नियमेन बध्यमानानां दर्शनावरणादीनां षण्णां स्थितिबन्धविषयकविकल्पान् प्रतिपाद्य सम्प्रत्युत्तशेषस्यायुःकर्मणस्तान् दर्शयन्नाह
आउस्स बन्धगो वा अवन्धगो वाऽस्थि गुरुठिईए च्च ।
भयणिज्जा उणऽवाहा होज्जेवं छण्ह कम्माणं ॥२५२॥ (प्रे०) “आउस्स" इत्यादि, ज्ञानावरणस्योत्कृष्टी स्थितिं बध्नन्नसौ पुनरायुःकर्मणो बन्धको वाऽबन्धको वा भवति, पारभविकायुपो वेद्यमानायुस्त्रिभागाद्यवशेषे नियतकाल एव बन्धसम्भवात् । यदा च ज्ञानावरणस्योत्कृष्टस्थितिबन्धकालेऽसाघायुषो बन्धकस्तदा “गुरुठिईए च्च" ति निषेकमात्रमधिकृत्यावाधानिरपेक्षा याऽऽयुषो 'गुरुः'-उत्कृष्टा त्रयस्त्रिंशत्सागरोपमप्रमाणा स्थितिस्तस्याः "च्च" ति एव बन्धको भवतित्यर्थः । इत्येवमवधारणादनुत्कष्टायाः समयादिहीनत्रयस्त्रिंशत्सागरोपमप्रमाणाया अनुभवयोग्यस्थितेर्वन्धको नैव भवतीति भावः । अबाधायुतनिषेकरूपायाः कर्मरूपतावस्थानलक्षणायास्तु तस्या अनुत्कृष्टस्थितेरपि बन्धको भवतीत्येतदर्शयितुकाम आह-"भयणिज्जा उण बाहा" ति तस्या उत्कृष्टस्थितेरवाधा पुनर्भजनीया-भाज्या, निषेकमात्रमधिकत्य बन्धप्रायोग्याया आयुषो बध्यमानानुभवयोग्योत्कष्टस्थितेबाधा पुनरुत्कष्टाऽनुत्कृष्टा वा स्यादित्यर्थः । अयम्भावः-पूर्वकोटीवर्षायुपश्चरमे तृतीये भागे वेदयितु प्रारब्धे कश्चिज्जीवो ज्ञानावरणीयस्योत्कष्टां स्थिति बनन् दर्शनावरणीयादीनामुत्कष्टामनुत्कष्टां वा स्थिति निवर्तयति, स च तदानीमेवाऽऽयषो बन्धं निवर्तयति चेत्तदा सप्तमनरकसत्कत्रयस्त्रिंशत्सागरोपमप्रमाणोत्कृष्टस्थितिकायुष एव,न तु समयादिहीनस्थितिकस्य,अस्य ह्यायुष उत्कृष्टस्थितिबन्धे प्रारब्धे प्रथमसमय उत्कृष्टाऽवाधा भवति, प्रारम्भद्वितीयसमयात्पुनस्तस्योत्कष्टनिषेकस्याप्यायषः स्थितिबन्धेबाधा समयादिना हीना हीनतराद्याऽनुत्कृष्टा भवति, इत्येवं वेद्यमानायुषो नवमादिभागेष्ववशेषेषु ज्ञाना वरणीयस्योत्कृष्टांस्थितिंबध्नन्तो येऽष्टानां मूलप्रकतीनां बन्धकास्तेषामप्यायुषो निषेकस्त्रयस्त्रिंशत् सागरोपमप्रमाण उत्कृष्ट एव द्रष्टव्यः, अबाधापुनरनुत्कष्टावेति । तदेवं ज्ञानावरणस्योत्कष्टस्थितिबन्धकाले शेषसप्तकर्मणां जायमानं स्थितिवन्धं प्रदय सम्प्रति दर्शनावरणीयादीनां पण्णां प्रत्येकमुत्कृष्टस्थितिबन्धकाले तदन्यप्रकृतीनां जायमानस्थितिबन्धं प्ररूपयितुकामोऽतिदिशन्नाह-"होज्जेवं छण्ह कम्माणं" ति एवंशब्दस्य सादृश्यार्थकतया यथा ज्ञानावरणस्योत्कृष्टस्थितिं बनन् जीवः शेषाणां दर्शनावरणादीनां षण्णां नियमेनायुपश्च भजनया यथोक्तप्रमाणोत्कृष्टादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org