________________
॥ अथ षष्ठं संनिकर्षद्वारम् ॥
---
अथ क्रमप्राप्तं संनिकर्षद्वारम् । तत्र चोत्कृष्ट - जघन्यस्थितिबन्धभेदाद् द्विविधः संनिकर्षः प्रतिपादनीयः, तत्रादावुत्कृष्टस्थितिबन्ध संनिकर्षं प्रतिपिपादयिषुरोधतः प्ररूपयन्नाह - पढमस्सुको सठि बंधतो बंधगो चित्र हवेज्जा । aur कोसा वाऽणुक्कोसाअ व ठिईए ॥ २५० ॥
(प्रे०) “पढमस्से "त्यादि, इह हि संनिकर्षः सम्बन्धः स च मूलप्रकृतिसत्कोत्कृष्टादिस्थितिबन्धानां समकाले जायमानानां रस्परं गृह्यते, तेषामेव प्रस्तुतत्वात् । इदमुक्तं भवतियदा हि ज्ञानावरणीयादिविवक्षित प्रकृतेर्विवक्षितो य उत्कृष्टादिस्थितिबन्धः प्रवर्तते, तेन सह भावी, अर्थात् तदानीमेव जायमानो यस्तदन्यप्रकृतीनामुत्कृष्टादिस्थितेर्बन्धः, सोऽत्र प्ररूपणीयः, संनिकृष्टानां समकालादौ वर्तमानत्वाज्जायमानत्वाद्वा परस्परं सम्बन्धितानामर्थानां तेनरूपेण प्ररूपणायाः सन्निकर्ष प्ररूपणाशब्दनिर्वचनात् । तत्र "पढमस्स” त्ति निरुक्तयुक्त्या व्युत्पन्नक्रमेण 'प्रथमस्य ' ज्ञानावरणीयकर्मण 'उत्कृष्टां' त्रिंशत्कोटिकोटिसागरोपमप्रमाणां स्थितिं वध्नन् यः कचिज्जीवः सः "बंधगो चिअ हवेज्जा" त्ति बन्धक एव भवति । कस्या इत्याह - "छण्ह " मित्यादि, ज्ञानावरणमायुश्च विहाय शेषाणां दर्शनावरणीयादीनां षण्णां कर्मणामुत्कृष्टाया वाऽनुत्कृया वा स्थितेरित्यर्थः || २५० || तदेवं ज्ञानावरणस्योत्कृष्टस्थितिबन्धकाले दर्शनावरणीयादीनां पण्णां कर्मणामनुत्कृष्टा स्थितिरपि बध्यत इति विकल्पिते सति साऽनुत्कृष्टा स्थितिः किं समयोनोत्कृष्टा द्विसमयोनोत्कृष्टा वा, कियत्प्रमाणा बध्यते ? इत्याह
साय अणुक्कोसटिई उक्कोसाउ समयाइणा हीणा । जाव असंख सेणं हीणा पलिओ मस्स भवे ॥२५१॥
(प्रे०) साय अणुकोसठिई" त्यादि, सा च ज्ञानावरणस्योत्कृष्टस्थितिबन्धकाले तत्स्वामिना निर्वर्त्यमाना दर्शनावरणीयादीनां प्रत्येकमनुत्कृष्टा स्थितिः “उक्कोसाउ" त्ति “ठिइबंधो उक्कोसो पढम-दुइअ-तइअ-अट्टमाण भवे । सागरको डाकोडी " । ( गा०-३७) इत्यादिना प्रागुक्तत्रिंशत्कोटिकोट्यादिप्रमाणदर्शनावरणीयादिसत्कौघोत्कृष्टस्थितेः, दर्शनावरणादिसत्कमौघिकमुत्कृष्टस्थितिबन्धप्रमाणमपेक्ष्येत्यर्थः । समयादिना हीना यावत्पल्योपमस्यासंख्यांशेन हीना भवेत् । इदमुक्तं भवति - यदाज्ञानावरणीयस्योत्कृष्टस्थितिर्वध्यते, तदा दर्शनावरणीयादीनां पण्णां कर्मणां नियमतो बन्धो भवति, स्थितिस्तु तदानीमुत्कृष्टा त्रिंशत्कोटी कोट्यादिप्रमाणा बध्यते, अनुत्कृष्टा वा दर्शनावरणीयस्य समयोनास्त्रिंशत्कोटीकोटयः, द्विसमयोनास्त्रिंशत्कोटीको ट्यः, त्रिसमयोनास्त्रिंशत्कोटीकोट्यः, एवं यावत्पल्योपमस्यासंख्याततमेन भागेनोनास्त्रिंशत्कोटी कोट्योऽपि बध्यते, न पुनस्ततो* द्वितीयाधिकारे प्रथमद्वारे सप्तत्रिंशत्तमगाथावृत्तौ दर्शितयुक्त्येत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org