________________
२४२ ]
विहाणे मूलप डिठिइबंधो [ आयुषो जघन्यस्थितिबन्धोत्कृष्टान्तरं मर्याप्तमनुष्यादिसत्कमा धुर्निर्वर्त्य तत्पापवर्त्य क्षुल्लकभव प्रमाणबद्धत्वाद्वा भवान्तरे षट्पञ्चाशदभ्यधिकशतद्वयावलिस्थितिकतयोत्पद्य तत्र वेद्यमानायुस्तृतीयभागरूपायामबाधायामायुर्वन्धं प्रारभते, तस्य तथाविधायुर्वन्धकस्य तथाविधायुर्वन्धद्वयस्य किञ्चिदभ्यधिकक्षुल्लकभवतृतीय भागद्वयप्रमाणमन्तरमायुषोऽनुत्कृष्टस्थितेर्जघन्यं बन्धान्तरं लभ्यते, जघन्यावाधायाः क्षुल्लकभवतृतीयभागद्वयस्य च तादृशायुर्बन्धद्वयान्तराले पतितत्वात् । एतदेवैौघतस्तिर्यग्गत्योघादिमार्गणासु चाऽऽयुषोऽनुत्कृष्टस्थितेर्जघन्यं बन्धान्तरं ज्ञेयम् । अनुत्कृष्टस्थितिबन्धोत्कृष्टान्तरमप्योघतस्तिर्यग्गत्योघादिमार्गणास्वेव च प्रथमत उत्कृष्टाबाधायां पञ्चाच्चनन्तरे सम्भवत्पूर्वको व्याद्युत्कृष्टस्थितिकभवे जघन्यावाधायामायुबन्धापेक्षया लभ्येतेत्येवं प्रतिमार्गणं यथासम्भवं स्वयमेवोयम् । एवमेवाऽजघन्य - जघन्यस्थितिबन्धान्तरमप्युपपादनीयम् । एवमेवाग्रे भूयस्काराधिकारादावप्येकजीवाश्रयान्तरे यथासम्भवं विशेषः स्वयमभ्यूः । न चैकस्मिन् भवे वेद्यमानास्तृतीयभागाद्यवशेष आयुबन्धाद्धायां सक्रुदायुर्वघ्नतां तदानीमेव नानाऽऽकर्षानभ्युपगम्य तदपेक्षयाऽऽयुषः सम्भवदुत्कृष्टादिस्थितिबन्धान्तरस्य प्रतिपादनमेव साधीयस् तथाभ्युपगम आगमो काऽयुर्वन्धाकर्षा एकस्मिन् भवे सकदेवायुर्वन्ध इत्यस्य वचनद्वयस्योपपत्तेरिति वाच्यम् । तथा सति वेद्यमानायुषस्तृतीय-नवमादिभागावशेषादन्तर्मुहूर्तमध्ये द्वितीयाद्याकर्षरूपाणामायुर्घन्धानां वेद्यमानायुपोऽवशेषतृतीय-नवमादिभागादन्यत्रा - ऽन्तमुहूर्तद्वयन्तमुहूर्ताद्योनतृतीय भागाद्यवशेषे पुनः पुनः प्रारम्भस्याऽऽवश्यकतया 'तृतीय- नवम भागाद्यवशेवे स्वयवेद्यमानायुषि जीवः पारभविकायुर्वन्धं प्रारभते, नान्यथा' इत्यर्थक सिद्धान्तो विरुध्येत । इत्येवं यथामतिविवृतमायुर्वन्धान्तरम्, तच्वं पुनः सर्वविदवेद्यमिति नात्रैकस्मिन्नपि पक्षेऽस्माकमाग्रह इति ॥ २४९ ॥
,
तदेवमभिहितमायुषोऽनुत्कृष्टस्थितेद्विविधं बन्धान्तरमतिदेशद्वारेण सर्वमार्गणासु । तस्मिँश्वाभिहिते गतं पञ्चममेकजीवाश्रितमन्तरद्वारम् ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे द्वितीयाधिकारे पञ्चममन्तरद्वारं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org