________________
उत्कृष्ट बन्धान्तरम् ]
द्वितीयाधिकारेऽन्तरद्वारम्
| २३३
(प्रे० ) "परमं तिरियेगिंदये" त्यादि, आयुषो जघन्यस्थिते: 'परमम्' - उत्कृष्टं बन्धान्तरं “पलियम्स खलु असंखं सो" इत्युत्तरगाथापूर्वार्धेऽन्वयः । पल्योपमस्यासंख्येयतमैकभाग इति तदर्थः । कासु मार्गणास्त्रित्याह -“तिरियेगिंदिये” त्यादि, तिर्यग्योधभेदै केन्द्रियौधभेद--पृथिव्यादिवायुकायान्तचतुरोघभेद - निगोदध-वनस्पतिकायौघमेदेष्वित्यर्थः । अन्यमार्गणाभेदान् संचिन्वन्नाह - "बायरसुहुमेगिंदिये "त्यादि, तत्र बादरसूक्ष्मशब्दयोः प्रत्येकं योजनाद् बादरैकेन्द्रियौघभेद-सूक्ष्मैकेन्द्रियौघ भेदयोस्तथा "चउपुहवाइग" ति चत्वारः पृथिव्यादिकाः बादराः सूक्ष्माश्रौषभेदाः । बादरपृथिव्यप्तेजोवायुकायौघलक्षणाचत्वारो भेदाः सूक्ष्मपृथिव्यप्तेजोवायुकायौघलक्षणाश्चत्वारोभेदाश्चेत्यर्थः । “णिगोएसु" ति 'निगोद: ' साधारण वनस्पतिकायस्तस्य सूक्ष्मवादरभेदभिन्नावभेदावित्यर्थः । प्रत्येक वनस्पतिकायौघ भेदे, काययोगौघभेदेऽसंज्ञिमार्गणायां चेत्येतासु त्रयोविंशतिमार्गणासु प्रत्येकमित्यर्थः । कुतः ? इति चेद्, प्रकृतसर्वमार्गणासु केवलानां तिर्यग्गतिकानां जीवानामेव प्रवेशेन भिन्नभिन्नगतिक भवसंवेधप्रधानायाः पर्याप्तकाय स्थितेः स्तोकमात्रप्राप्तेः पर्याप्त काय स्थितिसव्यपेक्षमायुप जघन्यस्थितिबन्धान्तरमपि स्तोकमेव प्राप्यते । एतच्चानन्तरवक्ष्यमाणनीत्या विशेषतस्तु प्रतिमार्गणं स्वयमेवोद्यमिति ॥ २४६ ||
अथान्यत्र प्रकृतान्तरमाह -
कोडिपुहुत्त पुव्वा पर्णिदियतिरिक्ख-मणुसेसु ॥२४७॥ पु होइ पुहुत् अयरसयाण दुअणाण - अयतेसु । अणयण- भवि-यियरेसु मिच्छा - SSहारेसु ओघव्व ॥ २४८ ॥
(प्रे०) “कोडिपुहुत्त” मित्यादि, कोटीपृथक्त्वं "पुव्वा" त्ति पूर्वाणि “पणिंदियतिरिक्खमणुसेसु” त्ति पञ्चेन्द्रियतिर्यगोघमार्गणाभेद - मनुष्यौघमार्गणाभेदयोः प्रत्येकम् आयुषो जघन्य स्थितेरुत्कृष्टबन्धान्तरमिति प्रक्रमाद्गम्यते । अत्र भावना तु सप्तकर्मणामुत्कृष्टस्थितेरुत्कृष्टबन्धान्तरवत्कर्तव्या, सप्तकर्मणामुत्कृष्टस्थितिबन्धवदायुपो जघन्यस्थितिबन्धस्यापि युग्मिनामभावादिति । "णपुमे" त्ति नपुंसक वेदमार्गणायां " होइ पुहुत्तं अयरसयाण" त्ति ' अतरशतानां'- सागरोपमशतानां पृथक्त्वं भवति, आयुषो जघन्यस्थितेरुत्कृष्ट' बन्धान्तरमिति गम्यत इति ।
ननु अनन्तरं "परमं तिरिये "त्यादिनाऽसंख्यपुङ्गलपरावर्तकायस्थितिक तिर्यग्गत्योचमार्गणायां प्रकृतान्तरं पल्योपमासंख्येयभागमात्रमभिहितम्, अत्र तु "णपुमे होइ पुहुत्तं अयरस याणे" त्यनेनाऽसंख्यपुद्गलपरावर्तकायस्थितिकायां नपुंसक वेदमार्गणायां तदतिबहुदीर्घं सागरोपमशतपृथक्त्वप्रमाणमभिहितमित्यत्र किं तत्वम् ? इति चेद्, उच्यते - आयुषो जघन्यस्थितेदीर्घं बन्धान्तरं दीर्घायाः पर्याप्तकाय स्थितेरधीनम्, पर्याप्तस्य दीर्घा काय स्थितिस्तु निरय- देवभवैः समं मनुष्यादिभवसंवेधप्रधाना, न पुनर्मनुष्यतिर्यग्भवानां परस्परं संवेधप्रधाना, एकेन्द्रियविकलेन्द्रियादितिर्यग्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org