________________
२३२ ]
बन्धविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषो जघन्यस्थितेः _ (०) "गाणलिगे” इत्यादि, मनःपर्यवज्ञानमार्गणायां प्रकृतान्तरस्यानन्तरमेव प्रतिपिद्धत्वात् तां विहाय मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञानमार्गणानां त्रिके, तथाऽवधिदर्शनमार्गणानां समयक्त्वोधमार्गणायां वेदकसम्यक्त्वमाणगायां च "जहणणं” ति आयुषो जघन्यायाः स्थिते'जघन्यं -हस्वं बन्धान्तरं “साहियपल्लं णेयं' ति साधिकं पल्योपमं ज्ञेयमिति । इयमत्र भावना-मतिज्ञानादिप्रकृतषण्मार्गणास्वायमोजघन्यस्थितिबन्धो वर्षपथक्त्वं भवति । उक्तश्च प्राक'मइ-सुअ-ऽवहिणाणेसु ओहिदरिसणम्मि सम्म-खइएसुं । बेअगसम्मत्तम्मि य विष्णेयो हायणाहुत्तं
७४। इति । तच्च वर्षवथक्त्वस्थितिकं जघन्यमायुर्जघन्यायामबाधायां केनापि सम्यग्दृष्टिदेवेन बद्धम् , तत्पश्चादसौ भवक्षये ततश्च्युत्वा मनुष्य तयोत्पन्नः । नास्ति च तत्र सम्यग्दृष्टिमनुष्यत्वे तस्य प्रकृतान्तरप्रयोजकस्य द्वितीयवारं जायमानस्य जघन्यस्थितिकायुर्वन्धस्य सम्भवः, सम्यग्दृष्टिमनुष्याणां जघन्यतोऽपि साधिकपल्योपस्थितिकदेवायुप एव वन्धभावात् । अतस्तेन तत्र जघन्यस्थितिकं देवायुद्धम् , पश्चान्मृत्वा देवतयो यद्य प्राग्वदवशेपेऽन्तमुहूर्तायुषि जघन्याबाधायां जघन्यस्थितिकं मनुष्यायुर्वद्धम् ; इत्थं हि तेन प्रथमवैमानिकमवे कृतस्य जघन्यस्थितिकायर्वन्धस्य सान्तरे च द्वितीये वैमानिकभवे कृतस्य धन्यस्थितिकायुर्वन्धस्य यदन्तरं तदेव प्रकृते पटवपि मार्गणास्वायुपो जघन्यस्थितेर्जघन्यं बन्धान्तरं प्राप्तम् , ततो हीनान्तरस्याऽसम्भवादिति ।
"सेसास खणणखुडभवो' नि शेषमनुष्यगत्योपायकपष्टिमार्गणासु प्रत्येकं प्रकृतमायषो जघन्यस्थितेर्जधन्यं बन्धान्तरं 'क्षणोनः'-समयोनः 'क्षल्लकभवः'--पटपश्चाशदभ्यधिकशतद्वयाऽऽवलिकाप्रमाणः सर्वलघुर्भव इत्यर्थः । अत्र शेषमार्गणा नामत इमाः-मनुष्यौघा-ऽपर्याप्तमनुष्य-तिर्यग्गत्योध-पञ्चेन्द्रियतिर्यगोघा-ऽप्तिपञ्चेन्द्रियतिर्यग्भेदाः, ओघ-बादरोध-पूक्ष्माघ-बादरापर्याप्त-सूक्ष्मापर्याप्तभेदभिन्नाः पञ्चैकेन्द्रिय भेदाः, ओघा-ऽपर्याप्तभेदभिन्नौ द्वौ द्वीन्द्रियभेदी, तथैव द्वौ त्रीन्द्रियभेदौ, द्वौ चतुरिन्द्रियभेदी, ई च पञ्चेन्द्रियभेदौ, एकेन्द्रियवत् पृथिव्यप्तेजोवायुसाधारणवनस्पतिकायसत्का प्रत्येकं पञ्च पञ्चेति पञ्चविंशतिर्भेदाः, वनस्पतिकायौधभेदः, तथीघा-ऽपर्याप्तभेदभिन्नौ द्वौ प्रत्येकवनस्पतिकाय भेदों द्वौ च त्रसकायभेदौ, तथा काययोगसामान्योदारिकमिश्रकाययोग-नपुंसकवेद--मत्यज्ञान-ताज्ञाना-ऽसंयमा-ऽचक्षुदर्शन-भव्या-ऽभव्य-मिथ्यात्वसंड्य-ऽसंड्या-ऽऽहारिमार्गणाभेदाश्चेति । एताब्वेकपष्टिमार्गणासु प्रत्येक भावना त्योघवदेव द्रष्टव्या , केवलं तत्तन्मार्गणागतमनुष्यादिजीवापेक्षयेति ॥२४६॥ अथ निरयगत्योषादिनिषिद्धान्तरावांतु शेषमार्गणाम्वेवायुपो जघन्यायाः स्थितेरुत्कृष्टं बन्धान्तरं त्रिभणिपुराह
परमं तिरि-यगिदिय-पुहवाइचउग-णिगोअ-हरिएसू। बायरसुहुमेगिंदिय-चउपुहबाइग-णिगोएसु॥२४६॥ पत्तेअवणे काये अमणे पलियस्स खलु असंखंसो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org