________________
जघन्य स्थितेर्बन्धान्तरम् ]
द्वितीयाधिकारेऽन्तरद्वारम्
[ २३१
I
स्तु मनुष्यसत्कं तिर्यक्सत्कं वा बध्नन्ति ततश्च क्रमेण तत्रोत्पच्या प्रकृतमार्गणाया वहिर्भावाद् द्वितीयवेलायां जघन्यायुर्बन्धं यावत् नावतिष्ठन्ति प्रकृतनिरयौघादिमार्गणायाम्, ततश्च प्रकृतान्तरमपि न प्राप्यते | आहारका-ऽऽहारकमिश्रकाययोग-मनः पर्यवज्ञान-संयमौघ-सामायिक-च्छेदोपस्थापन-परिहारविशुद्धिक- देशसंयमरूपास्वष्टमर्गंणासु जघन्यायुर्वद्ध्वा देवगतावत्पच्या प्रकृतमार्गणाविच्छेदान्न लभ्यते प्रकृतान्तरम् | क्षायिकसम्यक्त्वमार्गणायां तु सकदेव जघन्यायुर्वन्धसम्भवात्प्रकृतान्तरस्याऽभावः । मनोयोगमार्गणायां तु जीवस्य स्वल्पात्रस्थानात् नास्ति द्विरायुर्वन्धस्तत्कुतो भवद्वयाधीनजघन्य स्थितिबन्धान्तरसम्भवः, न कुतश्चिदपि । एवमेव शेषमनोयोगभेदेषु वचोयोगभेदेषु, चतुर्षु कषायमार्गणाभेदेषु त्रिषु कृष्णादिलेश्यामार्गणाभेदेषु, सासादनमार्गणायां च बोद्धव्यम् । ननु कृष्णादिलेश्यामार्गणात्रयस्यैकजीवाश्रयकाय स्थितिदीर्घाऽभिहिता, तत्तासु कथं जीवस्य स्वल्पावस्थानमन्तराभावप्रयोजकतया दर्श्यते ? इति चेदू, न, अभिप्रायाऽपरिज्ञानाद्, यत आयुषो जघन्यस्थितेर्बन्धकाऽपेक्षया तदभिधानम्, कृष्णलेश्यादिमार्गणात्रये आयुषो जघन्यस्थितेर्वन्धका मनुष्याः पञ्चेन्द्रियतिर्यञ्चो वा, तेषां च प्रत्यन्तमुहूर्तं लेश्यापरावृत्तिर्भवति, उक्तञ्च – “अंतमुहुत्तठईओ तिरियनराण हुन्ति लेसाओ” इति । या तूत्कृष्टकायस्थितिरुक्ता सा तु सामान्यतो निरयजीवापेक्षयेति न कश्चिद्दोषः । औदारिककाययोगेऽप्यायुर्वद्ध्वा भवान्तर उत्पत्तिमात्रेणौदारिकमिश्रयोगप्रवर्तनात्प्रकृतमार्गणाविच्छेदो भवति । विंशतिपर्याप्तमार्गणा-तिरची मानुषी-स्त्रीवेद-पु' वेद-विभङ्गज्ञान चक्षुर्दर्शनरूपासु शेषमार्गणासु पुनः प्रत्येकं जघन्यायुर्वद्ध्वा लब्ध्यपर्याप्ततयोत्पत्तिमात्रेण प्रकृतमार्गणानां विच्छेदाजघन्यस्थितिकायुर्वन्धद्वयाधीनं प्रकृतान्तरं नैव लभ्यते । न च पर्याप्तपञ्चेन्द्रियाद्यवस्थायां जघन्यस्थितिकमायुर्वद्ध्वा लब्ध्यपर्याप्तचतुरिन्द्रियत्वेवोत्पद्य तत्र जघन्यायुर्वन्धकरणे चक्षुर्दर्शनमार्गणायां प्रकृतान्तरं लभ्येतेति वाच्यम् । लब्ध्यपर्याप्तानां चतुरिन्द्रियमार्गणायां प्रविष्टत्वेऽपि चक्षुदर्शनमार्गणायामप्रवेशात्, । कुतः ? तेषां चक्षुर्दर्शनस्यानङ्गीकारात् । उक्तञ्च पञ्चसङ्ग्रहे— ‘मइसुयअन्नाणभचख्खुदंसणेक्कारसेस ठाणेसु' इति ।
जीवस्थानेषु
पर्याप्त चतुरिन्द्रिया -ऽसंज्ञिपञ्चेन्द्रिय-संज्ञिपञ्चेन्द्रिय-लक्षणजीवस्थानत्रयवर्जेष्वेकादशसु मत्यज्ञान- श्रुताज्ञानाऽचक्षुर्दर्शनलक्षणास्त्रय एवोपयोगा भवन्तीति भावः । उक्तञ्च तद्वृत्तौ - एकेन्द्रियसूक्ष्मबादरहीन्द्रियत्रीन्द्रियपर्याप्तापर्यातकैः सह चतुरिन्द्रियासंज्ञिसंश्यपर्याप्तकेष्वेकादशसु जीवस्थानेषु मत्यज्ञान श्रुताज्ञानाचक्षुर्दर्शनाख्यास्त्रयः प्रत्येकं भवन्ति, एते च लब्ध्यपर्याप्तकाः, यतः करणाऽपर्याप्तकेष्विन्द्रियपर्याप्तौ सत्यां तेषां चक्षुर्दर्शनं भवति' इति ।। २४२-२४३-२४४।। अथ शेषमार्गणास्वायुषो जघन्यस्थितिबन्धान्तरस्य सम्भवात्तासु जघन्यादिभेदभिन्नं तत्क्रमेण दर्शयन्नाह -
Jain Education International
णातिगे ओहिम्मिय सम्मत्ते वेअगम्मि य जहणं । साहियपल्लं णेयं सेसासु खणूणखुड्डभवो ॥२४५॥
For Private & Personal Use Only
www.jainelibrary.org