________________
२३० ]
बंधविहाणे मूलपयडिठिइबंधो [.मार्गणास्वायुःकर्मणः सम्परायाद्धाद्वयस्यापि तदन्तरे प्रवेशात् । इत्थमेव पर्याप्तमनुष्यादिमार्गणास्वपि द्रष्टव्यम् । द्वितीयपथिवीनिरयभेदादिषु तु प्राग्दर्शितानुत्कृष्ट स्थितिवन्धान्तरवदेवभावनीयमिति ॥२४१।।
___ तदेवं प्रतिपादितमादेशत आयुर्वजानां सप्तानां जघन्याऽजघन्यस्थितिबन्धयोर्जघन्योत्कृष्टभेदभिन्नं बन्धान्तरम् । सम्प्रति शेपस्या-ऽऽयुःकर्मणस्तदिदर्शयिषुरादौ तावज्जघन्यस्थितेराह
सब्वेसु खलु णारग-समत्त-जोणिमइ-देवभेएसु। पणमणवय-उरलेसु आहारदुगम्मि वेउव्वे ॥२४२॥ थी-पुरिस-कसायेसु विभंग-मणणाण-संयमेसु तहा । सामाइअ-छेएसुपरिहारे देस-चक्खूसु॥२४३॥ असुहेयरलेसासुखड़ए सासायणम्मि य हवेजा।
आउस्स जहण्णाए ठिईअ णो अंतरं चेव ॥२४४॥ (०) “सव्वेसु खलु णारगे” त्यादि, 'द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यत' इति नियमेन भेदशब्दस्य निरयादिना प्रत्येकं योजनात् सर्वेस्वित्यष्टसु निरयगतिभेदेषु, "समत्त" त्ति 'समाप्ताः' -पर्याप्ताभेदास्ते च सर्वे पर्याप्तपञ्चेन्द्रियतिर्यगाद्या अत्र ग्रन्थेऽधिकृता विंशतिः, तेषु सर्वेषु भेदेषु, तथा "जोणिमह"त्ति योनिविद्यते यस्याः सा योनिमती । स्त्रीत्यर्थः । तदीय सर्वभेदे, तिरथीमानुपीभेदद्वय इति माय । सर्वस्त्रीभेदानां ग्राह्यत्वेऽपि देव्यो न पृथग्गृह्यन्ते, देवीमार्गणायाः प्रकृतग्रन्थे पृथगनुपादानादिति । तथा सर्वेषु देवगां नेभेदेपु, अन्यमार्गणाभेदान संग्रहितमाह-"पणमणे" त्यादि गाथाद्वयम्. तस्याक्षरगमनिका तु गाग्वत्सुगमा । इन्येवं सार्धगाथाद्वयेन संगृहीतासु निरयगत्योधादिपण्णवतिमार्गणासु प्रत्येकम् “आउस्स जहण्णाए ठिइअ णो अंतरं" इत्यादिना तृतीयगाथोत्तरार्धनायुपो जघन्यायाः स्थितन्धान्तरस्याभावः कथितः । कस्माद् ? आयुषो जवन्यस्थितिवन्धान्तरस्य जघन्यस्थितिबन्धद्वयाधीनत्वात्, एकस्मिन् भवे सकृदेव जघन्यस्थितिवन्धम्य भावाच्च । इदमुक्तं भवति-उत्कृष्टाबाधायां सत्यामायुप उत्कृष्टस्थितिबन्धवदायुपो जघन्यस्थितिबन्धो जघन्यानाधायामभिमतः, नान्यथा । जवन्यावाधा त्वेकस्मिन् भवे सकृदेव प्राप्यते, अन्तरं तु बन्धयाधीनम् ,ततश्च एकस्मिन् भवे जघन्यावाधायां प्रथमवारं जघन्यस्थितिकमायुद्ध्या यावत्क्रमेणायुःक्षये भवान्तर उत्पद्य जघन्यायाधायां द्वितीयवारं जघन्यस्थितिकमायुर्वनाति, तावद्यदि प्रकृतमार्गणायामेव तद्वन्धकजीवस्तिष्ठति, तदोघवज्जघन्यस्थितिबन्धान्तरं प्राप्यते । तच्च प्रकृते न सम्भवति, द्वितीयं जघन्यायुर्वन्धं यावत् प्रकृतनिरयादिमार्गणास्वेव तद्वन्धकजीवस्याऽनवस्थानात् । तथाहि-सर्वेषु निरयगतिभेदेषु, सर्वेषु देवगतिभेदेषु, वैक्रियकाययोग-तेजः-पद्मशक्ललेश्यामार्गणाभेदेषु च प्रत्येकं जघन्यायुर्वन्धका नारका देवा वा, ते च जघन्यस्थितिकमायु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org