________________
जघन्योत्कृष्ट बन्धान्तरम् ]
द्वितीयाधिकारे ऽन्तरद्वारम्
पञ्चापि तिर्यग्गतिमार्गणाभेदाः, ज्योतिष्कादिसर्वार्थसिद्धविमानान्ताः सप्ताविंशतिर्देवगतिमार्गणाभेदाः, सर्वेऽपीन्द्रियमार्गणाभेदास्ते चैकोनविंशतिः, सर्वेकायमार्गणाभेदास्ते च द्विचत्वारिंशत्, काययोगसामान्य-वैक्रियकाययोगा-ऽऽहारककाययोगभेदाः, मत्याइयत्रो ज्ञानभेदाः, मत्यज्ञान- श्रुताज्ञानभेदौ, तथाऽसंयम-चक्षुरादित्रिदर्शन- कृष्ण - नील- कापोत-- शुक्ललेश्या - भव्या-भव्य- सम्यक्त्वौघ-क्षायिकसम्यक्त्वौ-पशमिकसम्यक्त्व- मिथ्यात्व-संज्ञय ऽसंज्ञयाऽऽहारिमार्गणाभेदाश्चेति । एतासु कासुचित् तृतीयपृथिवीनिरयभेदादिमार्गणासु स्वस्थानसम्यग्दृष्ट्यादीनां समयमात्रभाविज त्रन्यस्थितिबन्धान्तरितयोरजघन्यस्थितिबन्धयोरन्तरालापेक्षया प्रकृतं सामयिकान्तरं भावनीयम् । कासुचित् तिर्यगोध-पञ्चेन्द्रियतिर्यगादि मार्गणास्वे केन्द्रिया- ऽसंज्ञयादि जीवानामेकसमयप्रवृत्तजघन्य स्थितिबन्धापेक्षया योजनीयम् । कासुचित्पुनः पञ्चेन्द्रिय-पर्याप्तपञ्चेन्द्रिय-बसकायौध-पर्याप्तत्रसकाय-काययोगसामान्य - मतिज्ञानादिमार्गणासु जघन्यस्थितेर्जवन्यबन्धकालस्याप्यन्तमुहूर्तप्रमाणत्वेन तदपेक्षया न सम्भवति प्रकृतसामयिकान्तरम्, अत ओघवत् स्थितेरवन्धकालमपेक्ष्य तद्द्रष्टव्यमिति ॥ २४०॥ अर्थतास्वेव मनुष्यगत्योघादिचतुस्त्रिंशदभ्यधिकशतमार्गणासु सप्तप्रकृतिसत्काऽजघन्यस्थितेन्धान्तरमुत्कर्षतः प्रदर्शयन्नाह -
होइ तिमणुसाईसु आसु गुरु मुहुत्तो ॥ २४१||
(प्रे० ) " होइ तिमणुसाईसु" मित्यादि, “भिन्नमुहुत्तं तिमणुस अवेअ" इत्यादिनाऽनन्तरमेवाभिहिताः पर्याप्तमनुष्यादिषणमार्गणाः, परिहारविशद्धिकसंयमादिचतुर्मार्गणास्तथा “सेसासु" इत्यनेन सङ्गृहीताश्चतुर्विंशत्यभ्यधिकशतमार्गणा इत्येतासु चतुस्त्रिंशदभ्यधिकशतमार्गणासु प्रत्येकं "गुरु" ति सप्तानामजघन्यायाः स्थितेः 'गुरु' - उत्कृष्टं बन्धान्तरं " मुहुत्ततो" ति अन्तर्मुहूर्त भवतीति पूर्वेण योगः । कुतः ? इति चेद्, उत्कृष्टस्थितेरुत्कृष्टबन्धाद्धावज्जघन्यस्थितेरुत्कृष्टवन्धाद्धाया उत्कृष्टोपशान्ताद्धायाश्चान्तर्मुहूर्तत्वेन तदन्तरितयोरजघन्यस्थितिबन्धयोः कालस्याप्यन्तमु हूर्ताधिकत्वासम्भवादिति । अत्र भावना तु यासु मनुष्यगत्योघादिमार्गणासुपशान्तमोहानां जीवानां प्रवेशादुपशान्ताद्धा प्राप्यते, तासु तदपेक्षया कर्तव्या यासु पुनर्निरयदेवगत्यादिभेदेषु सा न लभ्यते, तासु जघन्यस्थितिबन्धकालापेक्षया कर्तव्या । तथाहि - मनुष्यगत्योघ मार्गणायां केनचिच्चारित्र मोहोपशामकेन महात्मना बादरानिवृत्तिकरणगुणस्थानकचरमसमयेमोहनीयस्याजघन्यस्थितिबन्धो निष्ठापितस्तथासूक्ष्मसम्परायगुणस्थानकचरमसमये मोहनीयायुर्वजनां षण्णां प्रकृतीनामजघन्यस्थितिबन्धो निष्ठापितः, ततः प्रभृति तत्तत्कर्मणामजघन्यस्थितिबन्धस्यान्तरं प्रवृत्तम्, तच्च यावदसावपशामक उपशान्तमोहगुणस्थानके गत्वोपशान्ताद्धाक्षयेण क्रमात्प्रतिपत्य तत्तत्कर्मणां स्थितिबन्धं न प्रारभते, तावत्प्रवर्तते, तथा च सति मोहनीयवर्जानां पण्णाम जघन्यस्थितिबन्धोत्कृष्टान्तरमुपशान्तमोहगुणस्थानकाप्रमाणं प्राप्यते, मोहनीयाजघन्यस्थितिबन्धोत्कृष्टान्तरं तु ततोप्यधिकं प्राप्यते, सूक्ष्म
Jain Education International
For Private & Personal Use Only
[ २२९
www.jainelibrary.org