________________
२२८ ]
बंधवहाणे मूलप डिठिबंधो [ मार्गणास्वायुर्वज नामजघन्यस्थितेः
पेक्षया प्रकृतान्तरं निषिद्धम् । तदन्यमतापेक्षया तु प्रकृतान्तरं प्राप्यत इति तञ्जघन्यादिभेदेन दर्शयन्नाह-"अहवा समयो हस्स" मित्यादि, सुगमम् । अन्यमते स्वस्थानेऽपि जघन्यस्थितिबन्धस्याङ्गीकृतत्वादिति भावः । विशेषतस्तु प्रागिव स्वयं भावनीयमिति || २३९ ||
अथ शेपमार्गणासु सप्तकर्मणामजघन्यस्थितिबन्धान्तरं जघन्यतो दर्शयन्नाह - भिन्नमुहुत्त तिमणुस - अवेअ-मणणाण- संयमेसु भवे । हस्सं पुण परिहारे तंउ-पउम वेअगेसु ं च ॥ २४० ॥ समयो भिन्नमुहुत्त व होइ सेसा होए समयो ।
(प्रे०) “भिन्नमुहुत्त "मित्यादि, अपर्याप्तभेदवर्जेषु त्रिषु मनुष्यगतिमार्गणाभेदेष्वपगतवेद-मनः पर्यवज्ञान- संयमौघमार्गणाभेदेषु च प्रत्येकं भिन्नमुहूर्तं भवेत् । किं तद् यद्भिन्नमुहूर्तं भवेदित्याह--"हस्सं" ति सप्तकर्मणामजघन्यायाः स्थिते: ' ह्रस्व' - जघन्यं बन्धान्तरमित्यर्थः । अयम्भावः- प्रकृत षण्मार्गणासु जघन्यस्थितिबन्धस्त्वोधिक एव ततथ न तत्प्रयुक्तं प्रकृतान्तरं लभ्यते, किन्तूपशमश्रेणिसत्केन स्थितेरवन्धकालेन प्रयुक्त तल्लभ्यते, एतच्चाऽवन्धकालप्रयुक्तमन्तरं यासु मार्गणासु मरणव्याघाते सत्यपि सम्भवति, तासु पञ्चेन्द्रिय जाति-त्र सकायादिमार्गणासु तज्जघन्यत एकसमयः प्राप्यते । प्रकृतमार्गणागतजीवस्य तु स्थितेरवन्धकाले मरणव्याघाते समुत्पन्ने नियमतः प्रकृतमार्गणानां विच्छेदो जायते, अतस्तदुपशान्ताद्वाक्षयेण क्रमशः प्रतिपततो जीवस्याबन्धकालापेक्षया सम्पद्यमानं सज्जघन्यतोऽप्यन्तर्मुहूर्तमेव प्राप्यत इति । अथान्यमार्गणासु भिन्नभिन्नमतापेक्षया प्रस्तुतं जघन्यं वन्धान्तरमपि भिन्न भिन्न प्राप्यत इति तथैव दर्शयति- "पुण परिहारे” इत्यादि, परिहारविशुद्धिकसंयममार्गणायां तेजः- पद्मलेश्या वेदकसम्यक्त्वमार्गणासु च प्रत्येकं पुनः “समयो भिन्नमुहुत्तं व होइ "त्ति “हस्सं" इत्यस्य काकाक्षिगोलकन्यायेनात्रापि योजनात् सप्तानामजघन्यस्थितेह स्वं बन्धान्तरं समयो भिन्नमुहूर्तं वा भवति । तत्रान्तमुहूर्तम्"अपमत्तो अहवा से कालम कयकरणी हवेइि जो । सो यो परिहारे ते अउमवे अगेसुं य ||' (गाथा-१२८) इत्यत्राऽथवेत्यादिनाभिहितस्य कृतकरणद्धायाः प्रागनन्तरस्थितिबन्धं कुर्वत एव जघन्यस्थितिबन्धस्वामित्वमङ्गीकतु मतेन । समयस्तु “अप्रमत्तो" इत्यनेनोक्तस्य स्वस्थानप्रमत्तसंयतस्यापि जघन्यस्थितिबन्धमङ्गीकतुर्मतेनावसातव्यम्, स्वस्थानप्रमत्तयतेरेकसमयमपि जघन्यस्थितिबन्धस्य सम्भवात् तेनान्तरितयोरजघन्यस्थितिबन्धयोर्जघन्यान्तरं समयः प्राप्यत इति भावः । “सेसासु” ति निषिद्धप्रकृतान्तरा निरयगत्योघ भेदादिद्वात्रिंशन्मार्गणास्तथा दर्शितप्रकृतान्तरा अनन्तरोक्ता औदारिकमिश्रयोगादिवेदकसम्यक्त्वान्ताश्चतुर्दशमार्गणा विहाय शेषासु चतुर्विंशत्यभ्यधिकशतमार्गणासु "होअए समयो" ति सप्तानामजघन्यस्थितेर्जघन्यं बन्धान्तरं समयो भवेदित्यर्थः । अत्र शेषमार्गणास्तु नामत इमाः द्वितीयादिसप्तमान्तपृथिवीभेदभिन्नाः षड् निरयगतिमार्गणाभेदाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org