SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अजघन्यस्थिते बन्धान्तरम् ] द्वितीयाधिकारेऽन अन्तरद्वारम् णिरय-पढमणिरयेसु अपज्जणर-देव-भवणजुगलेसु । पणमणवयजोगेसु ओरालिय- कम्मजोगेसु ं ॥२३६॥ dra सासु विभंग - सामाइए छेअम्मि । सुहमम्म तहा देसे मीसा - Sणाहार गेसु च ॥ २३७॥ सत्तण्ह अहस्साए ठिईअ णो चैव अंतर णवरं । लोहे मोहस्स लहु समयो परमं मुहुत्तो ॥ २३८ ॥ ? (प्रे० ) “णिरयपढमणिरयेसु "मित्यादि, अत्र “णिरये" त्यादिगाथाद्वये संग्रहीतासु निरयगत्योघादिद्वात्रिंशन्मार्गणासु तृतीयगाथा पूर्वार्धे “सत्तण्ह अहस्साए ठिईअ णो चेव अंतर" मित्यनेनायुर्वर्जानां सप्तानां मूलप्रकृतीनामहस्वायाः स्थितेर्वन्धान्तरं प्रतिषिद्धम् । कस्मात्प्रतिषिद्धम् इति चेद्, द्वात्रिंशन्मार्गणास्वपि प्रत्येकमजघन्यस्थितिबन्धस्य सकृदेव लाभात् । अजघन्यस्थितिबन्धस्य सकृदेव प्राप्तिस्तु प्रकृतान्यतममार्गणागतस्योत्कृष्ट मार्गणाकायस्थिति निर्वाहयतः कस्यापि जीवस्य मार्गणाकालमध्ये जघन्यस्थितिबन्धस्य स्थितेरवन्धस्य चाऽप्राप्तेः, तदप्राप्तिः पुनर्जघन्यस्थितिबन्धस्य मार्गणायाः प्रारम्भे प्रान्ते वा सकृदेव लाभात्, मार्गणायाः प्रारम्भे प्रान्ते वैकवारमेव जघन्यस्थितिवन्ध लाभस्तु प्राक् सप्तप्रकृतीनां जघन्यस्थितिबन्धान्तरप्रतिषेधभावनायां व्युत्पादितस्तथैव ज्ञातव्य इति । तदेवं प्रतिषिद्धेऽपि प्रकृतान्तरे या काचिदतिप्रसक्तिस्तां निराकुर्वन्नाह - "णवर ''मित्यादि, 'नवरं'- परम् "लोहे" ति लोभमार्गणायां मोहनीय कर्मणोऽजघन्य स्थितेर्यन्थान्तरं भवति, तच्च जघन्यत एकसमयः सूक्ष्मसम्परायगुणस्थान के एकसमयमबन्धको भूत्वा कालं कुर्वतो देवगतावत्पच्या लोभमार्गणायामेव मोहनीयस्याजघन्यस्थितिबन्धभावात् स्थितेः समयमात्राऽबन्धकालप्रयुक्तं ज्ञेयम् । 'परमम्' - उत्कृष्टमन्तमुहूर्तम्, एतच सूक्ष्मसम्पराय - चरमसमये कालं कुर्वतः समयोन सूक्ष्मसम्परायाद्वाप्रमाणं प्राप्यत इति ।। २३६-२३७-२३८।। अथ मार्गणान्तरेषु भिन्नभिन्नमतापेक्षया प्रकृतान्तरस्य सच्चासच्चे प्रतिपादयन्नाह - मीसतिजोगेसु तहा सासाणम्मि य ण अंतरं हवए । अहवा समयो हस्तं णेयं परमं मुहुत्तो ॥ २३९ ॥ (प्रे०) "मोसतिजोगेसु तहा" इत्यादि, औदारिकमिश्र-वैक्रियमिश्रा-ऽऽहारकमिश्रकाययोगलक्षणेषु त्रिषु मिश्रयोगेषु तथा सास्वादनमार्गणाभेदे च प्रत्येकं "ण अंतरं हवए" ति प्रकृतं सप्तानामजघन्याः स्थितेर्वन्धान्तरं न भवति । तत्र मिश्रयोगमार्गगात्रये स्वामिन शरीरपर्याप्तिनिष्ठापना मिश्रयोगवरमसमये एव जघन्यमुत्कृष्टं वा स्थितिबन्धमुररीकतु - तेन प्रकृतान्तरं नास्ति । सासादनमार्गणायां तु संयमादागतानामेव जघन्यस्थितिबन्धस्वामित्वा For Private & Personal Use Only Jain Education International , [ २२७ www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy