________________
२२६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जसप्तकर्मणाम् जघन्यस्थितेरुत्कृष्टं बन्धान्तरं क्षेत्रतोऽगुलासंख्यभागः, कालतस्त्वसंख्येया उत्सर्पिण्यवसर्पिण्य इत्यर्थः । इदमपि पूर्ववदजघन्यस्थितेरुत्कृष्टबन्धकालापेक्षया भावनीयमिति । “सेसासूणगुरुकायठिई"त्ति द्वितीयपृथिवीनिरयभेदायेकोत्तरशतमार्गणाभ्योऽनन्तराभिहितास्तिर्यग्गत्योघादित्रयोविंशतिमार्गणा अपहाय शेषास्वष्टसप्ततिमार्गणास प्रत्येकं "ऊणगुरुकायठिई" ति तत्तन्मार्गणायाः स्वीया स्वीया कालद्वारोक्तोत्कृष्टा कायस्थितिरन्तमुहूर्तादिनैकदेशेनोना सती प्रकृतं सप्तानां जघन्यस्थितरुत्कृष्टं बन्धान्तरं भवतीत्यर्थः । तत्राष्टसप्ततिः शेषमार्गणा नामतस्त्वमू:-द्वितीयादिपृथिवीभेदभिन्नाः षड्निरयगतिभेदाः, एको ज्योतिष्कदेवभेदः, द्वादश कल्पोपन्नवैमानिकदेवभेदाः, चतुर्दश कल्पातीतवैमानिकदेवभेदास्तथाऽपर्याप्तपञ्चेन्द्रियतिर्यग्भेदः, बादरोघ-तत्पर्याप्ता-ऽपर्याप्तसूक्ष्मपर्याप्ता-ऽपर्याप्तभेदभिन्नाः पञ्चैकेन्द्रियभेदाः, तथैव पञ्च पृथिवीकायभेदाः, पञ्चाकायभेदाः, पञ्च तेजस्कायभेदाः, पञ्च वायुकायभेदाः, पञ्च साधारणवनस्पतिकायभेदाः, ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नास्त्रयो द्वीन्द्रियभेदास्तथैव त्रयस्त्रीन्द्रियभेदास्त्रयश्चतुरिन्द्रियभेदास्त्रयः प्रत्येकवनस्पतिकायभेदाः, अपर्याप्तपञ्चेन्द्रिया-ऽपर्याप्तत्रसकायभेदौ चेति । एतासु प्रत्येकमुक्तदेशोनस्वस्वकायस्थितिस्तूत्कृष्टस्थितिबन्धस्योत्कृष्टान्तरभावनायामभिहितरीत्याऽपर्याप्तावस्थादिरूपं मार्गणाप्रारम्भादन्तर्मुहूर्त, तथैव देशोनकायस्थितिरुल्लङ्घय मार्गणाप्रान्ते द्वितीयपृथिवीनिरयभेदादिपु समयः, सप्तमपृथिवीनिरयभेदादिपु पुनरन्तमुहूर्तमित्येवं यथासम्भवं नानान्तमुहूर्तनिष्पन्नैकान्तमुहूर्तेनोना स्वयमेव भावनीयेति । ननु अपर्याप्त भेदवर्जेतिर्यक्पञ्चेन्द्रियभेदत्रये कथं प्रकृतान्तरं देशोनकायस्थिति भिहितम् , किन्तु पूर्वकोटीपृथक्त्वमेव दर्शितम् ? उच्यते, मार्गणात्रयेऽपि जघन्यस्थितिबन्धस्वामिनोऽसंज्ञिजीवाः सन्ति । उक्तं च प्राग जघन्यस्थितिबन्धस्वामित्वाभिधानावसरे"असण्णी उ । पंचिंदितिरियचउगअसमत्तपणिदियेसु भवे ॥१२४।।" इति । ततश्च “पंचिंदितिरिनरेसु सत्तट्ठभवा उ उक्कोस्सा" इत्येवंरूपा या संख्येया-ऽसंख्येयवर्षस्थितिकै नाभवैर्निष्पन्ना पूर्वकोटीपृथक्त्वेनाभ्यधिकपल्योपमत्रयप्रमाणोत्कृष्टकायस्थितिः साऽन्तमुहूर्तेन त्रिपल्योपस्थितिकेन चरमेन यग्मिभवेन च न्यूना सती प्रकृतान्तरतया लभ्यते । कुतः ? यग्मिनामसंज्ञित्वाभावेन प्रस्तुतमार्गणासत्कजघन्यस्थितिबन्धस्याकरणाच्चरमं युग्भिभवं विवर्य शेपभवनिष्पन्नकायस्थितितोऽप्यन्यमार्गणावत् प्रारम्भप्रान्तकालसत्कान्तमुहूतकालस्य वर्जनीयत्वात् । इत्येवमन्तमुहर्ताभ्यधिकत्रिपल्योपमेन न्यूना पञ्चेन्द्रियतिर्यगोधादिमार्गणात्रयसत्कोत्कृष्टा कायस्थितिः मार्गणात्रये जघन्यस्थितिबन्धस्योत्कष्टान्तरं भवति । एतच्चाधिकतमार्गणात्रये उत्कृष्टस्थितिबन्धस्योत्कृष्टमन्तरं देशोनकायस्थितिप्रमाणमभिधातुं न युज्यते, बहुभागहीनकायस्थितिप्रमाणत्वात् । ततश्वस्तथाऽदर्शयित्वा, पूर्वकोटीस्थितिकनानाभवप्रमाणत्वात् पूर्वकोटीपृथक्त्वं दर्शितमिति ॥२३४-२३५।।।
तदेवमभिहितं मार्गणास्थानेष्वपि सप्तानां जघन्यस्थितेर्बन्धान्तरम् । सम्प्रति तासामंत्र सप्तानामजघन्या स्थितेस्तद् दिदर्शयिषुरादौ तावद्यासु न सम्भवति, तासु प्रतिषेधयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org