________________
२३४ ]
बंधविहाणे मूलपयडिठिइबंधो . [ ओघत आयुषो जघन्येतरस्थित्योः वानां वा परस्परं संवेधप्रधाना, इत्थं च तिर्यग्गतिमार्गणायामेकेन्द्रियविकलेन्द्रियादिभवसंवेधनिष्पन्ना सा पर्याप्तकायस्थितिः स्तोका प्राप्यते, अतस्तदधीनं प्रकृतान्तरमपि स्तोकं प्राप्यते, नपुंसकवेदमार्गणायां तु निरयभवैः समं तिर्यमनुष्यभवाणां संवेधनिष्पन्ना पर्याप्तनपुंसकवेदकायस्थितिरतिबदीर्घा प्राप्यते, पर्याप्तमत्कदीर्घकायस्थितिप्रयोजकैर्निरयभवैः सममपि संवेधप्राप्तेः । ततश्च नपुंसकवेदमार्गणायां प्रकृतान्तरमपि दीर्घ प्राप्यते । अत एव तियेग्गत्योघ-नपुसकवेदाधसंख्येयपुद्गलपरावर्तकायस्थितिकमार्गणाभ्योऽपि स्तोकासंख्योत्सर्पिण्यसपिणिमात्रकायस्थितिकायामप्याहारिमार्गणायां पर्याप्तदीर्घका- स्थितिप्रयोजकैर्निरयदेवभवैः समं मनुष्यादिभवानां संवेधनिष्पन्ना सा पर्याप्तकायस्थितिरतिबहुदीपतरा ततस्तदधीनमायुपो जघन्यस्थितिबन्धान्तरमपि नपुं. सकवेदमार्गणायामुक्तप्रकृतान्तरापेक्षयाऽपि दीर्घमनुपदमेव वक्ष्यते ग्रन्थकृतेत्यलं विस्तरेण । ___ कतिपयमार्गणास्वतिदेशद्वारेणाह-"दुअणाणे"त्यादि, मत्यज्ञान-श्रुताज्ञाना-ऽसंयमा-ऽचक्षुदर्शनभव्या-ऽभव्य-मिथ्यात्वा-ऽऽहारिरूपास्वष्टमार्गणासु प्रत्येकम् “ओघव्व” ति प्रकृतान्तरमोघवदनन्तरं कालद्वारेऽभिहितपर्याप्तत्रसकायकायस्थितितोऽभ्यधिकं भवतीत्यर्थः । इदमप्यनन्तरोक्तनित्यैव विभावनीयमिति ।।२४७-२४८।। अथ शेपमार्गणासु प्रकृतान्तरं दर्शयन्नाह
सेसासू देसूणासगसगकायट्टिई भवे जेट्टा ।
(प्रे०) "सेसासु देसूणा" इत्यादि, 'सव्वेसु खलु णारग' (गाथा-२४२) इत्यादिनाऽभिहिताः निषिद्धप्रकृतान्तराः षण्णवतिमार्गणास्तथा 'परमं तिरियेगिदिये' (२४६)इत्यादिनाऽभिहितप्रकृतान्तराश्चतुस्त्रिंशन्मार्गणा विहाय शेपास्वपर्याप्ततिर्यक्पञ्चेन्द्रियादित्रयस्त्रिंशन्मार्गणासु प्रत्येक "देसूणासगसगकायठिई भवे जेट्ठा" ति 'देशोना'-अन्तमुहर्तादलिक्षणेनैकदेशेनोना-ऽपर्याप्तपञ्चेन्द्रियतिर्यगादितत्तन्मार्गणानां स्वीया स्वीयोत्कृष्टा कायस्थितिर्भवेत्, आयुषो जघन्यस्थितिबन्धस्योत्कृष्टमन्तरमिति गम्यत इति । सुगमम् । भावाना तु प्रागुक्तदिशा स्वयमेव कर्तव्या, केवलं शेषमार्गणा नामत इमाः--विंशतिरपर्याप्तपञ्चेन्द्रियतिर्यगाद्यपर्याप्तमार्गणास्थानानि, जीन्द्रियत्रीन्द्रिय-चतुरिन्द्रि-पञ्चेन्द्रिय-यत्रसकायरूपाः पञ्चौघमार्गणाः, औदारिकमिश्रकाययोगः, मतिश्रुता ऽवधिज्ञानानि, अवधिदर्शनं, सम्यक्चौघ-वेदकसम्यक्त्वमार्गणेऽसंज्ञिमार्गणा चेति ।। __तदेवमभिहितमायुषो जघन्यस्थितेद्विविधमपि बन्धान्तरं मार्गणास्थानेषु । साम्प्रतमजघन्यस्थितेस्तन्मार्गणास्थानेषु दिदर्शयिपुर्लाघवार्थमतिदेशेनाह
सव्वासु अहस्साएऽणुकोसठिइब्ब णायब्बं ॥२४९॥ (). "सव्वासु अहस्साए” इत्यादि, निरयगत्योधादिसर्वमार्गणासु प्रत्येकम् "अहस्साए" ति 'अह्रस्वायाः' प्रकृतस्याधुषोऽजघन्यायाः स्थितेः “णुकोसठिइव्व णायव्वं" ति जघन्यादिभेदभिन्न बन्धान्तरमनुत्कृष्टस्थितिवज्ज्ञातव्यम् , प्राक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org