________________
२२४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां जघन्यस्थितेः मार्गणाव्यवच्छित्तरर्वाक् सकदेवोपशमश्रेणेः सम्भवात् सूक्ष्मसम्पराग्चरमस्थितिबन्धभावी ज्ञानावरणादीनां पण्णां जघन्यस्थितिबन्धस्तथाऽनिवृत्तिकरणगुणस्थानचरमस्थितिबन्धभावी मोहनीयस्य जघन्यस्थितिबन्धः सकदेव लभ्यते, इत्थं च निरयगत्योघादिषण्मार्गणासु भवप्रारम्भे, मनुष्यौघादिचतुश्चत्वारिंशन्मार्गणास क्षपकश्रेणी, औदारिकमिश्रकाययोगादित्रयोदशमार्गणाम् जघन्यस्थितिबन्धस्वामिनां स्वल्पतरावस्थानेन, विभङ्गज्ञानादिपञ्चमार्गणासु संयमाद्यभिमुखानां जघन्यस्थितिबन्धस्वामित्वेन तथा निरन्तरे औपशमिकसम्यक्त्वकाले कस्याऽपि जीवस्य सकदेवोपशमश्रेगेः सम्भवेन निरयगत्योघाद्यकोनसप्ततिसंख्याकास सर्वासु मार्गणामु जघन्यस्थितिवन्धस्य सकदेव भावात् जघन्यस्थितिबन्धायाधीनं प्रकृतान्तरं न लभ्यत इति ।।२२९-२३०-२३१।।
तदेवमेकोनसप्ततिमार्गणासु जघन्यस्थितिबन्धान्तरं निषिद्धमप्येकोनसप्तत्यन्तःप्रविष्टयोः परिहारविशुद्धिकसंयम-क्षायोपशमिकसम्यक्त्वमार्गणयोः स्वस्थानाप्रमत्तसंपतानामपि जयन्यस्थितिबन्धस्वामित्वमभ्युपगच्छतां तत्सम्भवतीतिकन्या तत्र प्रतिपादयितुकाम आह
अहवा भिन्नमुहत्तं परिहारे वेअगे य लहुं ॥२३२॥
उक्कोसं देसूणा सगगुरुकायट्टिई मुणेयव्वं । प्रे०) "अहवा भिन्नमुहुत्त"मित्यादि, अथवाशब्दो मतान्तरद्योतनार्थम् , ततः अपमत्तो अहवा से बंधंम्मि कयकरणो हवेहिइ जो। सो णेयो परिहारे तेउपउमवेअगसु च ॥१२८॥ इत्यनेन स्वामित्वद्वारे संगृहीतमतान्तरेण "भिन्नमुहत्तं परिहारे वेअगे य लह" ति परिहारविशद्धिकसंयममार्गणायां वेदकसम्यक्त्वमार्गणायां च प्रकृतान्तरं 'लघु-जघन्यमन्तमु हृतम् । तेनैव मतान्तरेणोत्कृष्टमन्तरं तु “देसूणा सगगुरुकायट्टिई मुणेयव्वं" ति देशोना स्वीया स्वीयोत्कृष्टा कायस्थितिज्ञातव्यम् । इदमुक्तं भवति-कृतकरणावस्थाया अर्वाकस्थितिबन्धे जापमानस्थितिबन्धस्य जघन्यस्थितिवन्धत्वे प्रकृतान्तरं न लभ्यते । कुतः १ तथाविधजघन्यस्थितिबन्धस्य सकदेव भावात् । अतस्तदपेक्षयाऽनन्तरं मागंणाद्वयेऽपि प्रस्तुतान्तरं प्रतिषिद्धम् । स्वस्थानसंयतस्वामिकत्वे तु जघन्यस्थितिवन्धस्य द्विरपि सम्भवात् प्रकतान्तरं लभ्यते, अतः "अहवा" इत्यादिना दर्शितम् । तत्र जघन्यतोऽन्तमुहूर्तमजघन्यस्थितिबन्धस्य जघन्यकालापेक्षया, तथा उत्कष्टतः स्वीया म्बीया देशोनोत्कष्टकायस्थितिस्तु तत्तन्मार्गणाप्रारम्भप्रान्तयोर्यथासम्भवमन्तमुहतं त्यक्त्वा शेषोत्कृष्टकायस्थित्यपेक्षया प्राग्वद्भावनीयमिति ।।२३२।।। अथ शेपमार्गणासु प्रस्तुतान्तरं दिदर्शयिषुरादौ जघन्यत आह
सेसासु च जहण्णं जाणेयां महत्तंतो ॥२३३॥ (प्रे०) “सेसासुच" इत्यादि, अनन्तरं “णिरयपढमणिरये"त्यादिनाऽभिहिता एकोनसप्ततिमार्गणा विहाय शेषासु द्वितीयपृथिवीनिरयभेदादिप्वकोत्तरशतमार्गणासु 'च'-पुनः सप्तानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org