________________
[ २२३
मार्गणास्वायुर्जानां जघन्यस्थितेः ] द्वितीयादिकारेऽन्तरद्वारम्
तदेवं दर्शितमष्टानामपि मूलप्रकृतीनामेकजीवाश्रयं जघन्याऽजघन्यस्थित्योदिविधमपि बन्धान्तरमोधतः । साम्प्रतं नदेवादेशतः प्रचिकटयियुरादौ तावदायवर्जानां सप्तानां मूलप्रकृतीनां जघन्याः स्थितेर्दर्शयन्नाह
णिरय-पढमणिरयेसु सव्वणरेसु च देव-भवणेसु। वंतर-दुपणिंदीसुदुतसेसुसब्बजोगेसु॥२२९॥ वेअतिगा-ऽवेएसु कसायचउगम्मि णाणचउगम्मि । विभंग-संयमेसु समइअ-छेअ-परिहारेसु॥२३०॥ देसम्मि तहा सुहुमे तिदरिसण-छलेस-भविय-सम्मेसु। खाइअ-बेअग-उवसम-सासायण-मील-सण्णीसु॥२३१॥
आहारेऽणाहारे सत्तण्ह लहूअ अंतरं णत्थि । (प्रे०)"णिरयपढमणिरयेसु” इत्यादि, अक्षरार्थस्तु सुगमः । भावार्थः पुनरयम्निरयोध-प्रथमनिरयभेदा-ऽपर्याप्तमनुष्यभेद-देवौघ-भवनपति-व्यन्तरदेवभेदरूपासु पण्मार्गणासु वक्रगत्याऽसंज्ञिभ्य आगच्छतामन्तरालगती भवप्रथमसमयये वर्तमानानामेव जघन्यस्थितिबन्धः सम्भवति, तेयामेव जघन्यस्थितिबन्धस्वामित्वात् । उक्तं च स्वामित्वद्वारे—“सत्तण्हं बंधगो लहुठिईए : पढमदुइअसमये खलु असण्णिओ आगओ णेयो ॥१२१।। णिरयपढमणिरयेसु अपजणरदेव भवणयुगलेसुं ।" इति । ततः किम् ? ततस्तासु पण्मार्गणासु केनापि जीवेन जघन्यस्थितिबन्धः सकृदेव क्रियते, मनुष्यौघ-पर्याप्तमनुष्य-मानुषीमार्गणाभेदेषु पञ्चेन्द्रियोध-पर्याप्तपञ्चेन्द्रियभेद-त्रमकायौघ-पर्याप्तत्रसकायभेदेषु, पञ्चसु मनोयोगभेदेषु, पञ्चसु वचोयोगभेदेषु, काययोगसामान्यौदारिककाययोगभेदयोः, स्त्री-पु-नपुंसकवेदेष्वपगतवेदमार्गणायां, चतुर्यु क्रोधादिकपायभेदेषु मत्यादिषु चतुर्यु ज्ञानभेदेषु, संयमौघ-सामायिक-छेदोपस्थापन-सूक्ष्मसम्परायसंयमभेदेषु, चक्षुरादिषु त्रिषु दर्शनभेदेषु, शुक्ललेश्यायां, भव्यमार्गणायां तथा सम्यक्त्वौध-क्षायिकसम्यक्वयोः,संड्या-ऽऽहारिमार्गणयोश्चेत्येतासु चतुश्चत्वारिंशन्मार्गणासु प्रत्येकं जघन्यस्थितिवन्धः क्षपकश्रेणिभावीतिकृत्वासो सकदेव प्राप्यते, औदारिकमिश्र-वैक्रिय-क्रियमिश्रा-ऽऽहारका-ऽऽहरकमिश्रकामणकाययोगभेदेषु, कृष्णादिपञ्चलेश्याभेदेपु, सासादना-ऽनाहारकमार्गणयोरित्येतासु त्रयोदशमार्गणासु प्रत्येकंजघन्यस्थितिबन्धस्वामिनां स्वल्पतरावस्थानेन सकृज्जघन्यस्थितिबन्धाऽनन्तरं पुनर्जघन्यस्थितिबन्धभावात्पूर्वमेव प्रस्तुतमार्गणाया विच्छेदात् , तथा पञ्चसु विभङ्गज्ञान-परिहारविशुद्धिकसंयम-देशसंयम-वेदकसम्यक्त्व-मिश्रमार्गणाभेदेषु संयमाद्यभिमुखानां जघन्यस्थितिबन्धभावेन सकदेव जघन्यस्थितिबन्धो लभ्यते, औपशमिकसम्यक्त्वमार्गणायामपि मार्गणास्थस्य कस्यापि जीवस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org