________________
ओघतः सप्तानां जघन्येतरस्थित्योः] द्वितीयाधिकारेऽन्तरद्वारम्
{ २२१ (प्रे०)"पुव्वाणेगा कोडो"त्यादि,आयुषोऽनुत्कृष्टस्थितेरुत्दृष्टं बन्धान्तरं पूर्वाणामेका कोटिः "अभहिआ" ति प्राग्वदन्तमुहूर्तद्वयोनपूर्वकोटितृतीयभागेनाभ्यधिका “होअए असणिम्मि" ति असंज्ञिमार्गणायां भवति । सगमम् , असंज्ञिनामुत्कृष्टाया भवस्थितेः पूर्वकोटिवर्षप्रमाणत्वात् । भावना तु काययोगमार्गणावद् द्रष्टव्या, नवरं निरन्तरे पूर्वकोटीस्थितिकासंज्ञिभवद्वये क्रमेणोत्कृष्टावावा-ऽसंक्षेप्याद्धयोर्जाताऽऽयुर्वन्धद्वयापेक्षयेति । "सेसासु" ति मनोयोगादिनिषिद्धप्रकृतान्तरा अष्टादशमार्गणास्तथा निरयगत्योधादिदर्शितप्रकतान्तरा द्वाविंशत्यभ्यधिकशतमार्गणाश्च संत्यज्य शेषास पञ्चेन्द्रियोघादित्रयोविंशतिमार्गणासु प्रत्येकं "णायव्वं" ति आयुपोऽनुत्कष्टस्थितेरुत्कृष्टं बन्धान्तरं ज्ञातव्यम् । कियदित्याह-“तेत्तीसा सागराऽभहिया"ति ओघवत् त्रयस्त्रिशत्सागरोपमाण्यभ्यधिकानीत्यर्थः । पुस्त्वं तु प्राकृतवशात्प्राग्वदत्रापि बोद्धव्यम् । शेषमार्गणा नामतस्त्वमू:-पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रियभेदो, तथैवौघ-पर्याप्तभेदभिन्नौ द्वौ त्रसकायभेदो, पुवेद-नपुंसकवेदो, मतिज्ञान-श्रुतज्ञाना-ऽवधिज्ञानानि, मत्यज्ञान-श्रुताज्ञाने, असंयममार्गणा, चक्षुरादित्रिदर्शनभेदाः, भव्या-ऽभव्य-सम्यक्त्वोध-क्षायिक-वेदकसम्यक्त्वानि, मिथ्यात्वं, संध्या-ऽऽहारिमार्गणाभेदी चेति । एतास प्रत्येकं प्रकृतान्तरमौधिकभावनानुसारेण भावनीयम् , केवलं गत्यन्तरोत्पादेऽपि प्रकृतमार्गणाविच्छेदो न स्यादिति निरयत्वेन देवत्वेन वा यथासम्भवमुत्पादो द्रष्टव्य इति ।।२२५।।
तदेवं प्ररूपितमादेशतोऽप्यायुःकर्मण उत्कृष्टा-नुत्कृष्टस्थित्योर्जघन्योत्कष्टभेदभिन्नं द्विविधमप्येकजीवाश्रयमन्तरम् । साम्प्रतं जघन्याजघन्यस्थित्योस्तद्दिदर्शि यिपुरादौ तावदोघत आयुर्वर्जसप्तमूलप्रकृतीनां प्राह
सत्तण्ह जहण्णाए ठिईअ णत्थि अजहण्णगाए उ। हस्सं समयो दीहं भिन्नमुहुत्तं मुणेयव्वं ॥२२६॥
(प्रे०) “सत्तण्ह जहण्णाए” इत्यादि, सामान्यतो मार्गणामनधिकृत्य सप्तानामायुर्वर्जमूलाकतीनां प्रत्येकं जघन्यायाः स्थितेः “णत्थि" त्ति प्रकतमेकजीवाश्रयं बन्धान्तरं 'नास्ति'-न विद्यते । कुतः ? सप्तानां जघन्यस्थितिवन्धस्य क्षपकश्रेणौ भावादिति । इदमुक्तं भवति-ओघत मार्गणास्थानेषु वा सप्तानां जघन्यस्थितिवन्धस्यान्तरं न लभ्यते, क्षपकश्रेणिभाविनस्तस्य सकदेव भावाद् , अन्तरस्य तु तद्व्यसापेक्षत्वादिति । “अजहण्णगाए उ" त्ति “सत्तण्ह" इत्यनवर्तते, ततः सप्तानामजघन्यायाः स्थितेस्तु-पुनर्बन्धान्तरं प्राप्यते, तच्च "हस्सं समयो” त्ति 'ह्रस्वं'-लघु 'समयः-'समयप्रमाणं, ज्ञातव्यमिति प्रान्तेऽन्वयः। “दीह" ति सप्तानामजघन्यस्थितेरेकजीवाश्रयं 'दीर्घ' गुरु बन्धान्तरं पुनः “भिन्नमुहत्तं मुणेयच्वं" ति भिन्नमुहूर्त ज्ञातव्यमिति । इदं हि द्विविधमप्यजघन्यस्थितेन्धान्तरं क्रमश उपशमश्रेणिसत्कजघन्योत्कृष्टाऽबन्धाद्धाऽपेक्षयैव बोद्धव्यम् , न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org