________________
२२० ।
बन्धविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽनुत्कृष्टस्थितेः मिति प्राग्वद्गम्यते । कियज्ज्ञातव्यं स्त्रीवेदमार्गणायां प्रकृतान्तरमित्याह-"पंचावणे"त्यादि, अभ्यधिकानि पञ्चपञ्चाशत्पल्योपमानीत्यर्थः । इदं हि पूर्वकोटीस्थितिकमानुष्या वेद्यमानायुपस्ततीयभागावशेष उत्कृष्टाबाधायां पञ्चपञ्चाशत्पल्योपमस्थितिकं देवायुर्वद्धशानकल्पे उत्कृष्टस्थितिकाऽपरिगृहीतदेवीतयोत्पद्य तत्र जघन्यावाधायां पुनरप्यापुर्वन्धे कृते सति प्राप्यते,अतः पूर्ववदन्तम हूतद्वयेन हीनपूर्वकोटीत्रिभागाभ्यधिकानि पञ्चपञ्चाशत्पल्योपमानीति बोद्धव्यमिति ॥२२२।।
मणणाण-संयमेसुसमइअ-छेअ-परिहार-देसेसु । देसूणो पुवाणं कोडितिभागो मुणेयव्वं ॥२२३॥
(प्रे०) "मणणाणे” त्यादि, मनःपर्यवज्ञान-संयमौधमार्गणयोः, सामायिक-छेदोपस्थापनपरिहारविशुद्धिक-देशसंयममार्गणास्वित्येताषु पामार्गसु प्रत्येकं ज्ञातव्यमिति गाथावान्तेऽन्वयः । आयुषोऽनुत्कृष्टस्थितेरुत्कृष्टं वन्धान्तरमिति प्रक्रमाद्गम्यते । कियज्ज्ञातव्यमित्याह-“देसूणो पुव्वाण"मित्यादि, सुगमम् । भावना त्वौदारिककाययोगमार्गणावत् पूर्वकोटीभवस्थितिकमन:पर्यवज्ञान्यादिजी पापेक्षया द्रष्टव्येति ॥२२३॥
विभंगे देसूणा जेट्ठा कायट्टिई मुणेयव्वं ।
देसूणा छम्मासा हवइ त्ति भणन्ति अण्णे उ ॥२२४॥ (प्रे०) "विन्भंगे" इत्यादि, विभङ्गज्ञानमार्गणायाम् “देसूणा जेट्ठा कायट्टिई” त्ति "कायटिई उक्कोसा णिरयसुराणं विभङ्गणाणस्स" इत्यादिना पूर्व कालद्वारेऽभिहितमाना देशोनपूर्वकोट्यभ्यधिकत्रयस्त्रिंशत्सागरोपमाणि ज्येष्ठा'-उत्कृष्टा “कायहिई" ति विभङ्गज्ञानस्य कायस्थितिः “देसूणा" ति किञ्चिदनपूर्वकोटीतृतीयभागद्वयलक्षणेनैकदेशेनोना सती, आयुपोऽनुत्कृष्टस्थितेरुकृष्टवन्धान्तरं भवतीति गम्यते । कथम् ? इति चेत्, पूर्वकोटीस्थितिकमनुष्यभवे वेद्यभानायुपश्वरमतृतीयभागादारब्धे उत्कृष्टस्थितिकनिरयायुपो बन्धेऽन्तमुहूर्तेन समाप्तेऽनुपदं प्रवृत्तान्तरम्योत्कर्षत उत्कृष्टस्थितिकनिरयभवेऽसंक्षेप्याद्धायामायुर्वन्धं यावत्प्रवर्तनात् ,तावत्कालस्य किश्चिदूनपूर्वकोटीततीयभागेनाधिकत्रयस्त्रिंशत्सागरोपमप्रमाणत्वादिति । अत्रैव महाबन्धकारमतमाह"देसूणा" इत्यादि, प्रस्तुतान्तरं देशोनाः पण्मासा भवतीति “भणन्ति अण्णे उ” त्ति अन्येमहायन्धकारास्तु-पुनर्भणन्ति, तै रकाणामपर्याप्तावस्थायां विभङ्गज्ञानस्याऽनभ्युपगमात् , तिर्यगनरेषकोतोऽन्तमुहूर्तमेव निरन्तरविभङ्गज्ञानस्थाभ्युपगमाच यथा निरयगत्योधादिमार्गणायां प्रस्तुतान्तरं देशोनपण्मासाः प्राप्यते, तथा प्रस्तुतमार्गणायामपि, उभयत्राविशेषादिति ।।२२४॥
पुवाणेगाकोडी अब्भहिया होअए असण्णिम्मि । सेसासु णायव्वं तेत्तीसा सागराऽभहिया ॥२२५॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org