SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उत्कृष्टं बन्धान्तरम् ] | २१९ 1 शतिवर्षसहस्रस्थितिकाऽऽयुर्वन्धद्वयस्यान्तरालापेक्षया बोद्धव्यम् । कुतः ? मनोवाग्येोगरहितेषु केवलकापयोगोपेतजीवेषु पर्याप्तखरबादरपृथिवी कायिकानामेवोत्कृष्टस्थितिकत्वात् । इदमुक्तं भवतियेषां द्वीन्द्रियादिजीवानां काययोगादन्ययोगस्याऽपि सम्भवोऽस्ति तेषां काययोगस्याऽन्ययोगेन सह परावृत्य परावृत्य प्रवर्तनात्कायकोगोऽन्तर्मुहूर्तादधिकं नावतिष्ठते, तदभावे कुतः प्रकृतोत्कृष्टान्तरस्य सम्भवः, न कुतश्चिदपीत्यर्थः । अतो यः कश्चिद् द्वाविंशतिवर्षसहस्रप्रमाणोत्कुष्टस्थितिको निरन्तरकाययोगी खरबादरपृथिवीकायि को जीवः स वेद्यमानायुषो भागद्वयेऽतिक्रान्ते तृतीयभागप्रारम्भे वेद्यमानायुःसदृशं पारभविकमायुर्ब्रध्नाति तच्चान्तर्मुहूर्तं बद्ध्वा विरमति, इत प्रकृ नान्तरस्य प्रारम्भः पश्चादसावनन्तरभवे पूर्ववद्धायुरुदयेन द्वाविंशतिवर्षसहस्रस्थितिको खरबादरपृथिवीकाथिको भवति, तस्मिन् भवे तु जघन्यायानन्तर्मुहूर्तात्मिकायाम बाधायां सत्यामेयुधं करोति नत्वर्वाक, इत्येवं तेन निरन्तरयोरुत्कृष्टस्थितिकपूर्वोत्तरभवयोः कृतस्यायुर्वन्धद्वयस्यान्तरालमायुर्वन्वाद्धाद्वयेन जघन्यायाधालक्षणेन चान्तमुहूर्त कालेनोन तृतीयभागोपेत पृथिवीकायो कूट भवस्थितिप्रमाणं काययोगमार्गणायामुत्कुष्टतो लभ्यते, न पुनस्तदधिकमिति तथैव दर्शितमिति । “उरले” त्ति औदारिककाययोगमार्गणायां प्रकृतान्तरं “ “भहियागि भवे सत्तसहासवासाणि" त्ति लुप्ताकारस्य दर्शनादभ्यधिकानि सप्तसहस्रवर्षाणि भवेदित्यर्थः । इदमप्यनन्तरोतोत्कृष्ट कार्यस्थितिकपर्याप्तखरवादपृथिवी काय भवापेक्षयैव भावनीयम्; केवलमुत्कृष्टाबाधायां प्रथमाकर्षेणायुर्वन्धादनन्तरं द्वितीय आयुर्वन्धोऽनन्तरभवेऽसंक्षेप्याद्धायां न द्रष्टव्यः, किन्तु तस्मिन्नेव भवेऽसंक्षेप्याद्धायां द्वितीयाकर्षेणायुर्वन्धापेक्षया द्रष्टव्यः । कुतोऽनन्तरोत्तरभवे न द्रष्टव्यः ? उच्यते, भवान्तरगमनेऽपर्याप्तावस्थाया मौदारिकमिश्रकाययोगस्य नियमतः प्रवर्तनेन प्रकृतमार्गणाया विच्छेदभयात् । इत्येवं तेन द्वाविंशतिवर्षसहस्रस्थितिकेन खरवादरपर्याप्तवृथिवी काय जीवेन प्रथमचरमायुर्वन्धाद्धाद्वय आकर्षयेन द्विर्वद्धस्य पारभविकायु बन्धद्वयस्यान्तरं साधिकानि सप्तसहस्र वर्षायेवाप्यते; आयुर्बन्धाद्धासत्केनाऽसंक्षेप्याद्धासत्केन चान्तमुहूर्तयेनोनस्य द्वाविंशतिवर्षसहस्राणां तृतीयभागस्यान्तमुहूर्तोनमासचतुष्केनाधिकत्रयस्त्रिंशद्वर्षोत्तरत्रि सप्त तेश त वर्षप्रमाणत्वादिति || २२१ || अथान्यत्र प्रकृतमायुषोऽनुत्कृष्टस्थितेरुत्कृष्टवन्धान्तरमाह - ओरालियमीसम्म उ भिन्नमुहुत्तं हवेज्ज इत्थीए । जाणेयव्वं पंचावण्णा पलिओवमाऽभहिया ॥२२२॥ द्वितीयाधिकारेऽन्तरद्वारम् (प्रे०) " ओरलियमीसम्म उ" इत्यादि, औदारिक मिश्रकाययोगमार्गणायां तु-पुनर्भिन्नमुहूर्तमन्तमुहूर्तं भवेत्, प्रकृतान्तरमिति गम्यते । सुगमं चैतत् । भावनात्वपर्याप्ततिर्यक्पञ्चेन्द्रियमार्गणावद् द्रष्टव्येति । " इत्थीए " त्ति स्त्रीवेदमार्गणायां ज्ञातव्यमित्युत्तरार्धेऽन्वयः प्रकृतान्तर 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy