________________
२१८ ]
बंधविहाणे मूलपयडिठिइबधो [ मार्गणास्वायुषोऽनुत्कृष्टस्थितेः वनस्पतिकायान्तपञ्चकायेषु, एतेषां तिर्यग्गत्यादिमार्गणानां सर्वभेदेष्वित्यर्थः । ते च समस्ताश्चतुःषष्टिमार्गणाभेदाः प्राग्वदोष-पर्याप्ता-ऽपर्याप्त-योनिमत्-सूक्ष्म-बादर-तत्पर्याप्ता-ऽपर्याप्तभेदाद्यथायथमत्र ग्रन्थेऽधिकृता बोद्धव्याः; अन्यभेदसंग्रहायाह-"असमत्ते'त्यादि,तत्रापर्याप्तापरपर्यायस्यासमाशब्दस्य प्रत्येकं योजनादसमाप्तपञ्वेन्द्रिया-ऽसमाप्तत्रसकायभेदयोरित्येतासु पक्षष्टिमार्गणासु प्रत्येकं "साहिया भवठिई जेहा" ति साधिका स्वीया भवस्थितिज्येष्ठा-उत्कृष्टा, साधिकस्वीयभवस्थितिप्रमाणमित्यर्थः। आयुषोऽनुत्कृष्टायाः स्थितेरुत्कृष्टं बन्धान्तरमिति प्रक्रमाद्गम्यते । अयम्भावःचरमभवं विहाय शेषभवेषु प्रतिभवं सर्वैर्जीः सकृत् नियमेनायुर्वन्धः क्रियत एवेति सप्रतीतम् । तत्रापि स बन्धो यद्युत्कृष्टावाधायामुत्कृष्टस्थितिकायुषः प्रारम्यते, तदाऽपि प्रारम्भरितीयादिसमयेष्वसावनुत्कृष्टस्थितिकायुर्वन्ध एव भवति, प्रतिसमयमवाधायाः परिगलनात् । इत्थं हि प्रतिभवमनुत्कृष्टस्थितिवन्धो नियमेन प्राप्यते । ततः किम् ? ततो प्रकृततत्तन्मार्गणागतो यः कश्चिजीवो मार्गणाप्रायोग्यवेद्यमानोत्कृष्टायुषस्त्रिभागाऽवशेषरूपायामुत्कृष्टागामबाधायां वेद्यमानायुःसदृशं तिर्यग्गत्यादेरुत्कृष्टस्थितिकमायुर्वद्ध्वा क्रमेण च तत्रोत्पद्य वेद्यमानायुःप्रान्ते यथाकालमायुर्वन्धं करोति, तदा तेन तादृशजीवन निरन्तरभययकृतायुवेन्धयस्यान्तरालं प्रकृतान्तरतया लभ्यते । तथाहि-तिर्यग्गत्योधमार्गणायां कश्चित्पूर्वकोटीवायुस्तिर्यक्पञ्चेन्द्रियजीवो वेद्यमानायुपश्चरमे तृतीये भागे वेदयितुमारब्धे प्रकृतमार्गणाप्रायोग्यायां पूर्वकोटीविभागरूपायामुत्कृष्टावाधायां वेद्यमानायुःसदृशं त्रिपल्योपमोत्कृष्टस्थितिकं तिर्यगायुर्वध्नाति, ततश्च क्रमेण कालं कृत्वा पूर्ववद्धायुरुदये त्रिपल्योपमस्थितिकस्तिर्यग्भवति, तस्मिन् भवे त्यसौ प्रान्ते आयुर्वन्धप्रायोग्यायां चरमाद्धायां सकृदेवायुर्वन्धं करोति; इत्येवं तेन निरन्तरभवद्वयकृतस्याऽऽयुर्वन्धद्वयस्यान्तरं देशोनपूर्वकोटीतृतीयभागेनाभ्यधिकत्रिपल्योपमप्रमाणं भवति, तदेव तिर्यग्गत्योधमार्गणायामायुपोऽनुत्कृष्टस्थितिबन्धस्योत्कृष्टान्तरतया बोद्धव्यम् । अनया रीत्या शेषमार्गणासु भावना स्वयमेव कार्येति ।।२२०।। दर्शितं गत्यादिभेदेसु प्रकृतान्तरम् । साम्प्रतं क्रमप्राप्तयोगमार्गणाशेषभेदेषु दर्शयन्नाह -
कायम्मि भूभवठिई देसूणतिभागसंजुया जेट्ठा।
उरलेऽभहियाणि भवे सत्त सहस्साणि वासाणि ॥२२१॥ (प्रे०) “कायम्मि” इत्यादि, काययोगमार्गणायां "भूभवठिइ" ति भुवः-पथिवीकायिकस्य भवस्थिति ज्येष्ठा'-हाविंशतिवर्षसहस्रप्रमाणोत्कृष्टेति परेणान्वयः। किं तावन्मात्रोतोनाधिका वेत्याह-“देसूणतिभागसंजुया" ति अन्तमुहर्तलक्षणेनैकदेशेनोनो यः 'त्रिभागः' तस्या एव पथिवीकायोत्कटभवस्थितेस्तृतीयभागस्तेन संयुता' समेता,देशोनत्रिभागसंयुता, आयुषोऽनुत्कृष्टस्थितेरुत्कृष्टबन्धान्तरमिति गम्यते । इदं हि खरवादरपर्याप्तपृथिवीकायस्योत्कृष्टस्थितिकयोर्निरन्तरभवयोः क्रमेणोत्कृष्टायामबाधायामसंक्षेप्यादायां च केनचिञ्जीवेन प्रारब्धस्यानुभवयोग्यतालक्षण द्वाविं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org