SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अनुत्कृष्टस्थितेह स्वेतरबन्धान्तरम् ] द्वितीयाधिकारेऽन्तरद्वारम् [२१७ (प्रे०) "सेसासु" इत्यादि, अनन्तरोक्तमनोयोगाद्यष्टादशमार्गणा विवर्य शेषासु निरयगत्योधादिपञ्चचत्वारिंशदभ्यधिकशतमार्गणासु प्रत्येकम् “मुहुत्तंतो लहु” ति आयुषोऽनुत्कृष्टस्थिते'लघु-'जघन्यं बन्धान्तरं 'मुहूर्तान्तः'-अन्तमुहूतं भवतीत्यर्थः । कुतः ? वेद्यमानायुपस्तृतीयनवम-सप्तविंशतितमादिभागावशेषप्रकारेणाऽऽयुर्वन्धप्रायोग्यां द्विचरमाद्धायां चरमाद्धायां चायुर्वन्धाकोयोः प्रकृतसर्वमार्ग गागतजन्तूनां सम्भवात् , तयोरनरस्थान्तमुहूर्तत्वाच्चेति । इदमुक्तं भवतिनिरयगत्योघाद्यन्यतममार्गणागतो यः कश्चिजन्तुरन्तमुहूर्तावशेषे स्ववेद्यमानायुपि पारभविकायुबन्धप्रायोग्यां द्विचरमाद्धायां वर्तमानः सन्नायुर्वन्धप्रायोग्याध्यवसायानवाप्य तत्कालबध्यमानकर्मदलेषु म्बीपभागावाप्तकर्मदलान्यन्नमुहूतं यावदायुकतया परिणमयति, परतस्तु व्युपरमते, यावदायुर्वन्धप्रायोग्या चरमाद्धा, ततश्चाऽऽयुर्वन्धमा योग्यां चरमाद्धां प्रविशन् पुनरप्यायुर्वन्धाध्यव पायैस्तत्कालबध्यमानकर्मदलिकेषु स्वभागावातदलान्यायुःकर्म नया परिणमयितुं प्रारभते, ततश्च तमन्तम हतं यावद् बद्ध्वा विरम्य वेद्यमानायुरवशेषरूपमन्तमुहूर्तरमाणाबाधाकालं च तस्मिन् भत्र एव निर्गमय्य कालं करोति; एवं तेन हिचान-घरमपोरायुविधायोग्पाद्धयोः कृतस्यायुर्वन्धद्वयस्य यदन्तरालं तत्प्रकृतजघन्यान्तरतया बोद्धव्यमिति । ___"गुरु होइ ऊणछम्मास" ति आयुषः प्रकृतानुत्कृष्टायाः स्थिते 'गुरु'-उत्कृष्टं बन्धान्तरं भवत्यूनषण्मामाः । कासु मार्गणास्वित्याह-"सव्वणिरये"त्यादि, सर्वशब्दस्य प्रत्येकं योजनात्सर्वेषु निरयगतिमार्गणाभेदेषु सर्वेषु च देवगतिमार्गणाभेदेषु तथा “पसत्थअपसत्थलेसासु" ति कृष्णादिव्यशुमलेश्या-तैजस्यादित्रिशुभलेश्यामार्गणास्वित्येतासु चतुश्चत्वारिंशन्मार्गणास प्रत्येकमित्यर्थः । इयमत्र भावना-कश्चिन्नारकजीवो वेद्यमानायुषः षण्मासावशेषायां स्थिती उत्कृष्टाबाधायां वर्तमानः सन् प्रथमवारं प्रथमेनाकर्षेण पार भविकायुर्वन्धं करोति, ततश्च स एवान्तमुहर्ने शेषे स्वायुषि चरमायामायुर्वन्धप्रायोग्यायामद्धायां प्रविशन् द्वितीयवारं द्वितीयेनाकर्षण पुनरपि तत्कालबध्यमानकर्मदलेभ्यः स्वभागावाप्तकर्मदलान्यायुष्कतया परिणमयन्नायुर्वन्धं करोति, एवं तेन प्रथमद्वितीयवारकृतयोर्यथोक्ताऽऽयुर्वन्धयोर्यदन्तरं तदन्तमुहर्तेनोनषण्मासप्रमाणं भवति, पण्मासेभ्य आयुर्वन्धद्वयकालस्य जघन्यावाधाकालस्य च वर्जनीयत्वात् । एतदेव प्रस्तुत उत्कृष्टान्तरतया ज्ञेयम् , केवलं देवगतिमार्गणाभेदेषु शुभलेश्यावये च देवजीवापेक्षया यथासम्भवं भावनीयमिति ।।२१९।। उक्त निरय-देवगतिमार्गणाभेदेषु तत्साम्याल्लेश्यामार्गणापटके च प्रकृतबन्धान्तरम् । इदानी तिर्यग्गन्यादिमार्गणाभेदेषु तदर्शयन्नाह मवेसु तिरिय-मणुस-एगिदिय-विगल-पंचकायेसू। असमत्तपणिंदि-तसेसु साहिया भवठिई जेट्टा ॥२२०॥ _ (प्रे०) “सव्वेसु" इत्यादि, सर्वेसु तिर्यग्गति-मनुष्यगत्येकेन्द्रिय-विकलेन्द्रिय-पृथिव्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy